Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
महेंद्र उवाच
नमः कमलवासिन्यै नारायण्यै नमो नमः । कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ 1
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ 2 ॥
सर्वसंपत्स्वरूपायै सर्वदात्र्यै नमो नमः । सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ॥ 3 ॥
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः । कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ॥ 4 ॥
कृष्णशोभास्वरूपायै रत्नाढ्यायै नमो नमः । संपत्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ 5 ॥
सस्याधिष्ठातृदेव्यै च सस्यलक्ष्म्यै नमो नमः । नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ 6 ॥
वैकुंठे च महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे । स्वर्गलक्ष्मीरिंद्रगेहे राजलक्ष्मीर्नृपालये ॥ 7 ॥
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता । सुरभिः सा गवां माता दक्षिणा यज्ञकामिनी ॥ 8 ॥
अदितिर्देवमाता त्वं कमला कमलालये । स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुंधरा । शुद्धसत्त्वस्वरूपा त्वं नारायणपरायाणा ॥ 10 ॥
क्रोधहिंसावर्जिता च वरदा च शुभानना । परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ 11 ॥
यया विना जगत्सर्वं भस्मीभूतमसारकम् । जीवन्मृतं च विश्वं च शवतुल्यं यया विना ॥ 12 ॥
सर्वेषां च परा त्वं हि सर्वबांधवरूपिणी । यया विना न संभाष्यो बांधवैर्बांधवः सदा ॥ 13 ॥
त्वया हीनो बंधुहीनस्त्वया युक्तः सबांधवः । धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ 14 ॥
स्तनंधयानां त्वं माता शिशूनां शैशवे यथा । तथा त्वं सर्वदा माता सर्वेषां सर्वविश्वतः ॥ 15 ॥
त्यक्तस्तनो मातृहीनः स चेज्जीवति दैवतः । त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ 16 ॥
सुप्रसन्नस्वरूपा त्वं मे प्रसन्ना भवांबिके । वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥ 17 ॥
वयं यावत्त्वया हीना बंधुहीनाश्च भिक्षुकाः । सर्वसंपद्विहीनाश्च तावदेव हरिप्रिये ॥ 18 ॥
राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि । कीर्तिं देहि धनं देहि पुत्रान्मह्यं च देहि वै ॥ 19 ॥
कामं देहि मतिं देहि भोगान् देहि हरिप्रिये । ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ॥ 20 ॥
सर्वाधिकारमेवं वै प्रभावां च प्रतापकम् । जयं पराक्रमं युद्धे परमैश्वर्यमैव च ॥ 21 ॥
इत्युक्त्वा तु महेंद्रश्च सर्वैः सुरगणैः सह । ननाम साश्रुनेत्रोऽयं मूर्ध्ना चैव पुनः पुनः ॥ 22 ॥
ब्रह्मा च शंकरश्चैव शेषो धर्मश्च केशवः । सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ॥ 23 ॥
देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम् । केशवाय ददौ लक्ष्मीः संतुष्टा सुरसंसदि ॥ 24 ॥
ययुर्दैवाश्च संतुष्टाः स्वं स्वं स्थानं च नारद । देवी ययौ हरेः क्रोडं हृष्टा क्षीरोदशायिनः ॥ 25 ॥
ययतुस्तौ स्वस्वगृहं ब्रह्मेशानौ च नारद । दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ॥ 26 ॥
इदं स्तोत्रं महापुण्यं त्रिसंध्यं यः पठेन्नरः । कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् ॥ 27 ॥
सिद्धस्तोत्रं यदि पठेत् सोऽपि कल्पतरुर्नरः । पंचलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ 28 ॥
सिद्धस्तोत्रं यदि पठेन्मासमेकं च संयतः । महासुखी च राजेंद्रो भविष्यति न संशयः ॥ 29 ॥
इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखंडे नारदनारायणसंवादे एकोनचत्वारिंशत्तमोऽध्याये महेंद्र कृत श्री महालक्ष्मी स्तोत्रम् ।
Browse Related Categories: