Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि- -द्वीपे कल्पकवाटिकापरिवृते कादंबवाट्युज्ज्वले । रत्नस्तंभसहस्रनिर्मितसभामध्ये विमानोत्तमे चिंतारत्नविनिर्मितं जननि ते सिंहासनं भावये ॥ 1 ॥
एणांकानलभानुमंडललसच्छ्रीचक्रमध्ये स्थितां बालार्कद्युतिभासुरां करतलैः पाशांकुशौ बिभ्रतीम् । चापं बाणमपि प्रसन्नवदनां कौसुंभवस्त्रान्वितां तां त्वां चंद्रकलावतंसमकुटां चारुस्मितां भावये ॥ 2 ॥
ईशानादिपदं शिवैकफलदं रत्नासनं ते शुभं पाद्यं कुंकुमचंदनादिभरितैरर्घ्यं सरत्नाक्षतैः । शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं कारुण्यामृतवारिधे तदखिलं संतुष्टये कल्पताम् ॥ 3 ॥
लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे प्रालेयांबुपटीरकुंकुमलसत्कर्पूरमिश्रोदकैः । गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मंत्रितैः स्नानं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ 4 ॥
ह्रींकारांकितमंत्रलक्षिततनो हेमाचलात्संचितैः रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुंभवर्णांशुकम् । मुक्तासंततियज्ञसूत्रममलं सौवर्णतंतूद्भवं दत्तं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ 5 ॥
हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां हिंदोलद्युतिहीरपूरिततरे हेमांगदे कंकणे । मंजीरौ मणिकुंडले मकुटमप्यर्धेंदुचूडामणिं नासामौक्तिकमंगुलीयकटकौ कांचीमपि स्वीकुरु ॥ 6 ॥
सर्वांगे घनसारकुंकुमघनश्रीगंधपंकांकितं कस्तूरीतिलकं च फालफलके गोरोचनापत्रकम् । गंडादर्शनमंडले नयनयोर्दिव्यांजनं तेऽंचितं कंठाब्जे मृगनाभिपंकममलं त्वत्प्रीतये कल्पताम् ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
कह्लारोत्पलमल्लिकामरुवकैः सौवर्णपंकेरुहै- -र्जातीचंपकमालतीवकुलकैर्मंदारकुंदादिभिः । केतक्या करवीरकैर्बहुविधैः क्लुप्ताः स्रजो मालिकाः संकल्पेन समर्पयामि वरदे संतुष्टये गृह्यताम् ॥ 8 ॥
हंतारं मदनस्य नंदयसि यैरंगैरनंगोज्ज्वलै- -र्यैर्भृंगावलिनीलकुंतलभरैर्बध्नासि तस्याशयम् । तानीमानि तवांब कोमलतराण्यामोदलीलागृहा- -ण्यामोदाय दशांगगुग्गुलुघृतैर्धूपैरहं धूपये ॥ 9 ॥
लक्ष्मीमुज्ज्वलयामि रत्ननिवहोद्भास्वत्तरे मंदिरे मालारूपविलंबितैर्मणिमयस्तंभेषु संभावितैः । चित्रैर्हाटकपुत्रिकाकरधृतैर्गव्यैर्घृतैर्वर्धितै- -र्दिव्यैर्दीपगणैर्धिया गिरिसुते संतुष्टये कल्पताम् ॥ 10 ॥
ह्रींकारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा । दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं माषापूपसहस्रमंब सफलं नैवेद्यमावेदये ॥ 11 ॥
सच्छायैर्वरकेतकीदलरुचा तांबूलवल्लीदलैः पूगैर्भूरिगुणैः सुगंधिमधुरैः कर्पूरखंडोज्ज्वलैः । मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्रांबुजामोदनैः पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥ 12 ॥
कन्याभिः कमनीयकांतिभिरलंकारामलारार्तिका पात्रे मौक्तिकचित्रपंक्तिविलसत्कर्पूरदीपालिभिः । तत्तत्तालमृदंगगीतसहितं नृत्यत्पदांभोरुहं मंत्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥ 13 ॥
लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्त्रं तु धत्ते रसा- -दिंद्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती । वीणामेणविलोचनाः सुमनसां नृत्यंति तद्रागव- -द्भावैरांगिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥ 14 ॥
ह्रींकारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि- -र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेतांबिके । सल्लापाः स्तुतयः प्रदक्षिणशतं संचार एवास्तु ते संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ 15 ॥
श्रीमंत्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा संध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः । चित्तांभोरुहमंटपे गिरिसुता नृत्तं विधत्ते रसा- -द्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मंगला ॥ 16 ॥
इति गिरिवरपुत्रीपादराजीवभूषा भुवनममलयंती सूक्तिसौरभ्यसारैः । शिवपदमकरंदस्यंदिनीयं निबद्धा मदयतु कविभृंगान्मातृकापुष्पमाला ॥ 17 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मंत्रमातृकापुष्पमाला स्तवः ।
Browse Related Categories: