Bhaarata Maata · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
प्रकृत्या सुरम्यं विशालं प्रकामं सरित्तारहारैः ललामं निकामम् । हिमाद्रिर्ललाटे पदे चैव सिंधुः प्रियं भारतं सर्वदा दर्शनीयम् ॥ 1 ॥
धनानां निधानं धरायां प्रधानं इदं भारतं देवलोकेन तुल्यम् । यशो यस्य शुभ्रं विदेशेषु गीतं प्रियं भारतं तत् सदा पूजनीयम् ॥ 2 ॥
अनेके प्रदेशाः अनेके च वेषाः अनेकानि रुपाणि भाषा अनेकाः । परं यत्र सर्वे वयं भारतीयाः प्रियं भारतं तत् सदा रक्षणीयम् ॥ 3 ॥
वयं भारतीयाः स्वदेशं नमामः परं धर्ममेकं सदा मानयामः । तदर्थं धनं जीवनं चार्पयाम प्रियं भारतं मे सदा वंदनीयम् ॥ 4 ॥
रचन: डा. चंद्रभानु त्रिपाठी
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts