Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
शृणु नामानि राहोश्च सैंहिकेयो विधुंतुदः । सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥ 1 ॥
सुरागुर्नीलजीमूतसंकाशश्च चतुर्भुजः । खड्गखेटकधारी च वरदायकहस्तकः ॥ 2 ॥
शूलायुधो मेघवर्णः कृष्णध्वजपताकवान् । दक्षिणाशामुखरतः तीक्ष्णदंष्ट्रधराय च ॥ 3 ॥
शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः । माषप्रियः कश्यपर्षिनंदनो भुजगेश्वरः ॥ 4 ॥
उल्कापातजनिः शूली निधिपः कृष्णसर्पराट् । विषज्वलावृतास्योऽर्धशरीरो जाद्यसंप्रदः ॥ 5 ॥
रवींदुभीकरश्छायास्वरूपी कठिनांगकः । द्विषच्चक्रच्छेदकोऽथ करालास्यो भयंकरः ॥ 6 ॥
क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः । किरीटी नीलवसनः शनिसामंतवर्त्मगः ॥ 7 ॥
चांडालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा । शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥ 8 ॥
उपरागकरः सूर्यहिमांशुच्छविहारकः । नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
कबंधमात्रदेहश्च यातुधानकुलोद्भवः । गोविंदवरपात्रं च देवजातिप्रविष्टकः ॥ 10 ॥
क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः । मानेगंगास्नानदाता स्वगृहेप्रबलाढ्यकः ॥ 11 ॥
सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः । चंद्रयुक्ते तु चंडालजन्मसूचक एव तु ॥ 12 ॥
जन्मसिंहे राज्यदाता महाकायस्तथैव च । जन्मकर्ता विधुरिपु मत्तको ज्ञानदश्च सः ॥ 13 ॥
जन्मकन्याराज्यदाता जन्महानिद एव च । नवमे पितृहंता च पंचमे शोकदायकः ॥ 14 ॥
द्यूने कलत्रहंता च सप्तमे कलहप्रदः । षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः ॥ 15 ॥
नवमे पापदाता च दशमे शोकदायकः । आदौ यशः प्रदाता च अंते वैरप्रदायकः ॥ 16 ॥
कालात्मा गोचराचारो धने चास्य ककुत्प्रदः । पंचमे धिषणाशृंगदः स्वर्भानुर्बली तथा ॥ 17 ॥
महासौख्यप्रदायी च चंद्रवैरी च शाश्वतः । सुरशत्रुः पापग्रहः शांभवः पूज्यकस्तथा ॥ 18 ॥
पाटीरपूरणश्चाथ पैठीनसकुलोद्भवः । दीर्घकृष्णोऽतनुर्विष्णुनेत्रारिर्देवदानवौ ॥ 19 ॥
भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः । एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ 20 ॥
श्रद्धया यो जपेन्नित्यं मुच्यते सर्वसंकटात् । सर्वसंपत्करस्तस्य राहुरिष्टप्रदायकः ॥ 21 ॥
इति श्री राहु अष्टोत्तरशतनाम स्तोत्रम् ।
Browse Related Categories: