Daily prayers · Traditional devotional text · Source: Nitya Parayana Slokas (traditional daily recitations, via vignanam.org) (Traditional devotional text (public-domain shlokas))
kārya prārambha stōtraṃ
शुक्लां बरधरं-विँष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ॥
gaṇēśa stōtraṃ
वक्रतुंड महाकाय सूर्यकोटि समप्रभः । निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
अगजानन पद्मार्कं गजानन महर्निशम् । अनेकदं-तं भक्तानाम्-एकदंत-मुपास्महे ॥
sarasvatī stōtraṃ
सरस्वती नमस्तुभ्यं-वँरदे कामरूपिणी । विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ॥
या कुंदेंदु तुषार हार धवला, या शुभ्र वस्त्रावृता [वस्त्रान्विता] । या वीणा वरदंड मंडित करा, या श्वेत पद्मासना । या ब्रह्माच्युत शंकर प्रभृतिभिर्-देवैः सदा पूजिता । सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥
guru ślōkaḥ
गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥
गुरवे सर्वलोकानां भिषजे भवरोगिणाम् । निधये सर्व विद्यानां श्री दक्षिणामूर्तये नम ॥
Offered for worship and study, not as prediction. Non-commercial.
viṣṇu stōtraṃ
शांताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगन सदृशं मेघवर्णं शुभांगम् । लक्ष्मीकांतं कमलनयनं-योँगिहृद्ध्यानगम्यं वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
śrī rāma stōtraṃ
श्री राम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने
रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ 27 ॥
śrī kṛṣṇa stōtraṃ
मंदारमूले मदनाभिरामं बिंबाधरापूरित वेणुनादम् । गोगोप गोपीजन मध्यसंस्थं गोपं भजे गोकुल पूर्णचंद्रम् ॥
वसुदेव सुतं देवं कंस चाणूर मर्दनम् । देवकी परमानंदं कृष्णं वंदे जगद्गुरुम् ॥
मूकं करोति वाचालं पंगुं लंघयते गिरिम् । यत्कृपा तमहं वंदे परमानंदमाधवम् ॥
hanumān stōtraṃ
मनोजवं मारुत तुल्यवेगं जितेंद्रियं बुद्धिमतां-वँरिष्टम् । वातात्मजं-वाँनरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ॥
बुद्धिर्बलं-यँशोधैर्यं निर्भयत्वमरोगता । अजाड्यं-वाँक्पटुत्वं च हनुमस्स्मरणाद्-भवेत् ॥
रामदूतं महावीरं रुद्रबीजसमुद्भवम् । अंजनागर्भसंभूतं वायुपुत्र नमोऽस्तु ते ॥
śiva stōtraṃ
त्र्यं॑बकं-यँजामहे सुगं॒धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्-मृत्यो॑र्-मुक्षीय॒ माऽमृता᳚त् ॥
वंदे शंभुमुमापतिं सुरगुरुं-वंँदे जगत्कारणं वंदे पन्नगभूषणं शशिधरं-वंँदे पशूनां पतिम् । वंदे सूर्यशशांक वह्निनयनं-वंँदे मुकुंदप्रियं वंदे भक्तजनाश्रयं च वरदं-वंँदे शिवं शंकरम् ॥
मृत्युंजयाय रुद्राय नीलकंठाय शंभवे । अमृतेशाय शर्वाय महादेवाय ते नमः ॥
vēṅkaṭēśvara stōtraṃ
श्रियः कांताय कल्याणनिधये निधयेऽर्थिनाम् । श्री वेंकट निवासाय श्रीनिवासाय मंगलम् ॥
कल्याणाद्भुतगात्राय कामितार्थप्रदायिने । श्रीमद्वेंकटनाथाय श्रीनिवासाय मंगलं ॥
lakṣmī stōtraṃ
लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरंग धामेश्वरीम् । दासीभूत समस्त देव वनितां-लोँकैक दीपांकुराम् । श्रीमन्मंध कटाक्ष लब्ध विभव ब्रह्मेंद्र गंगाधराम् । त्वां त्रैलोक्यकुटुंबिनीं सरसिजां-वंँदे मुकुंदप्रियाम् ॥
dēvī stōtraṃ
सर्व स्वरूपे सर्वेशे सर्व शक्ति समन्विते । भयेभ्यस्त्राहि नो देवि दुर्गेदेवि नमोस्तुते ॥
सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यंबके देवि नारायणि नमोस्तुते ॥
prabhāta ślōkaḥ
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती । करमूले स्थिता गौरी प्रभाते करदर्शनम् ॥ [पाठभेदः - करमूले तु गोविंदः प्रभाते करदर्शनम् ॥]
snāna ślōkaḥ
गंगे च यमुने चैव गोदावरी सरस्वती नर्मदे सिंधु कावेरी जलेस्मिन् सन्निधिं कुरु ॥
namaskāra ślōkaḥ
त्वमेव माता च पिता त्वमेव, त्वमेव बंधुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ॥
bhōjana ślōkaḥ
ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् । ब्रह्मैव तेन गंतव्यं ब्रह्म कर्म समाधिनः ॥
अन्नपूर्णे सदा पूर्णे शंकरप्राणवल्लभे । ज्ञानवैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वति ॥
śayana ślōkaḥ
रामं स्कंदं हनुमंतं-वैँनतेयं-वृँकोदरम् । शयने यः स्मरेन्नित्यं दुस्वप्न-स्तस्यनश्यति ॥
śānti mantraṃ
असतोमा सद्गमया । तमसोमा ज्योतिर्गमया । मृत्योर्मा अमृतंगमया । ॐ शांतिः शांतिः शांतिः
सर्वे भवंतु सुखिनः सर्वे संतु निरामयाः । सर्वे भद्राणि पश्यंतु मा कश्चिद्दुःख भाग्भवेत् ॥ ॐ शांतिः शांतिः शांतिः
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥