Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
देव्युवाच
देवदेव! महादेव! त्रिकालज्ञ! महेश्वर! करुणाकर देवेश! भक्तानुग्रहकारक! ॥ अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः
Offered for worship and study, not as prediction. Non-commercial.
ईश्वर उवाच
देवि! साधु महाभागे महाभाग्य प्रदायकम् । सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ॥ सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् । राजवश्यकरं दिव्यं गुह्याद्-गुह्यतरं परम् ॥ दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् । पद्मादीनां वरांतानां निधीनां नित्यदायकम् ॥ समस्त देव संसेव्यं अणिमाद्यष्ट सिद्धिदम् । किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥ तव प्रीत्याद्य वक्ष्यामि समाहितमनाश्शृणु । अष्टोत्तर शतस्यास्य महालक्ष्मिस्तु देवता ॥ क्लीं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी । अंगन्यासः करन्यासः स इत्यादि प्रकीर्तितः
ध्यानं वंदे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां हस्ताभ्यामभयप्रदां मणिगणैः नानाविधैः भूषिताम् । भक्ताभीष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां पार्श्वे पंकज शंखपद्म निधिभिः युक्तां सदा शक्तिभिः ॥
सरसिज नयने सरोजहस्ते धवल तरांशुक गंधमाल्य शोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् ॥
ॐ प्रकृतिं विकृतिं विद्यां सर्वभूत-हितप्रदाम् । श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ॥ 1 ॥
वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् । धन्यां हिरण्मययीं लक्ष्मीं नित्यपुष्टां विभावरीम् ॥ 2 ॥
अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् । नमामि कमलां कांतां कामाक्षीं क्रोधसंभवाम् [काम्यां क्षीरोदसंभवाम्] ॥ 3 ॥
अनुग्रहप्रदां बुद्धि-मनघां हरिवल्लभाम् । अशोका-ममृतां दीप्तां लोकशोकविनाशिनीम् ॥ 4 ॥
नमामि धर्मनिलयां करुणां लोकमातरम् । पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुंदरीम् ॥ 5 ॥
पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् । पद्ममालाधरां देवीं पद्मिनीं पद्मगंधिनीम् ॥ 6 ॥
पुण्यगंधां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् । नमामि चंद्रवदनां चंद्रां चंद्रसहोदरीम् ॥ 7 ॥
चतुर्भुजां चंद्ररूपा-मिंदिरा-मिंदुशीतलाम् । आह्लाद जननीं पुष्टिं शिवां शिवकरीं सतीम् ॥ 8 ॥
विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम् । प्रीतिपुष्करिणीं शांतां शुक्लमाल्यांबरां श्रियम् ॥ 9 ॥
भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् । वसुंधरा मुदारांगां हरिणीं हेममालिनीम् ॥ 10 ॥
धनधान्यकरीं सिद्धिं स्त्रैणसौम्यां [सदासौम्यां] शुभप्रदाम् । नृपवेश्मगतां नंदां वरलक्ष्मीं वसुप्रदाम् ॥ 11 ॥
शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् । नमामि मंगलां देवीं विष्णुवक्षःस्थलस्थिताम् ॥ 12 ॥
विष्णुपत्नीं, प्रसन्नाक्षीं नारायणसमाश्रिताम् । दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीम् ॥ 13 ॥
नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् । त्रिकालज्ञानसंपन्नां नमामि भुवनेश्वरीम् ॥ 14 ॥
लक्ष्मीं क्षीरसमुद्रराज तनयां श्रीरंगधामेश्वरीम् । दासीभूत समस्तदेव वनितां लोकैक दीपांकुराम् ॥ श्रीमन्मंद कटाक्ष लब्ध विभवद्-ब्रह्मेंद्र गंगाधराम् । त्वां त्रैलोक्य कुटुंबिनीं सरसिजां वंदे मुकुंदप्रियाम् ॥ 15 ॥
मातर्नमामि! कमले! कमलायताक्षि! श्री विष्णु हृत्-कमलवासिनि! विश्वमातः! क्षीरोदजे कमल कोमल गर्भगौरि! लक्ष्मी! प्रसीद सततं समतां शरण्ये ॥ 16 ॥
त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेंद्रियः । दारिद्र्य ध्वंसनं कृत्वा सर्वमाप्नोत्-ययत्नतः । देवीनाम सहस्रेषु पुण्यमष्टोत्तरं शतम् । येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ 17 ॥
भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकम् । अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले ॥ दारिद्र्य मोचनं नाम स्तोत्रमंबापरं शतम् । येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ 18 ॥
भुक्त्वातु विपुलान् भोगान् अंते सायुज्यमाप्नुयात् । प्रातःकाले पठेन्नित्यं सर्व दुःखोप शांतये । पठंतु चिंतयेद्देवीं सर्वाभरण भूषिताम् ॥ 19 ॥
इति श्री लक्ष्म्यष्टोत्तरशतनामस्तोत्रं संपूर्णं
Browse Related Categories: