Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
भैरव उवाच
शतनाम प्रवक्ष्यामि कालिकाया वरानने । यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥ 1
काली कपालिनी कांता कामदा कामसुंदरी । कालरात्रिः कालिका च कालभैरवपूजिता ॥ 2 ॥
कुरुकुल्ला कामिनी च कमनीयस्वभाविनी । कुलीना कुलकर्त्री च कुलवर्त्मप्रकाशिनी ॥ 3 ॥
कस्तूरीरसनीला च काम्या कामस्वरूपिणी । ककारवर्णनिलया कामधेनुः करालिका ॥ 4 ॥
कुलकांता करालास्या कामार्ता च कलावती । कृशोदरी च कामाख्या कौमारी कुलपालिनी ॥ 5 ॥
कुलजा कुलकन्या च कुलहा कुलपूजिता । कामेश्वरी कामकांता कुंजरेश्वरगामिनी ॥ 6 ॥
कामदात्री कामहर्त्री कृष्णा चैव कपर्दिनी । कुमुदा कृष्णदेहा च कालिंदी कुलपूजिता ॥ 7 ॥
काश्यपी कृष्णमाता च कुलिशांगी कला तथा । क्रीं रूपा कुलगम्या च कमला कृष्णपूजिता ॥ 8 ॥
कृशांगी किन्नरी कर्त्री कलकंठी च कार्तिकी । कंबुकंठी कौलिनी च कुमुदा कामजीविनी ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
कुलस्त्री कीर्तिका कृत्या कीर्तिश्च कुलपालिका । कामदेवकला कल्पलता कामांगवर्धिनी ॥ 10 ॥
कुंता च कुमुदप्रीता कदंबकुसुमोत्सुका । कादंबिनी कमलिनी कृष्णानंदप्रदायिनी ॥ 11 ॥
कुमारीपूजनरता कुमारीगणशोभिता । कुमारीरंजनरता कुमारीव्रतधारिणी ॥ 12 ॥
कंकाली कमनीया च कामशास्त्रविशारदा । कपालखट्वांगधरा कालभैरवरूपिणी ॥ 13 ॥
कोटरी कोटराक्षी च काशीकैलासवासिनी । कात्यायनी कार्यकरी काव्यशास्त्रप्रमोदिनी ॥ 14 ॥
कामाकर्षणरूपा च कामपीठनिवासिनी । कंकिनी काकिनी क्रीडा कुत्सिता कलहप्रिया ॥ 15 ॥
कुंडगोलोद्भवप्राणा कौशिकी कीर्तिवर्धिनी । कुंभस्तनी कटाक्षा च काव्या कोकनदप्रिया ॥ 16 ॥
कांतारवासिनी कांतिः कठिना कृष्णवल्लभा । इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ॥ 17 ॥
प्रपठेद्य इदं नित्यं कालीनामशताष्टकम् । त्रिषु लोकेषु देवेशि तस्याऽसाध्यं न विद्यते ॥ 18 ॥
प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि । यः पठेत्परया भक्त्या कालीनामशताष्टकम् ॥ 19 ॥
कालिका तस्य गेहे च संस्थानं कुरुते सदा । शून्यागारे श्मशाने वा प्रांतरे जलमध्यतः ॥ 20 ॥
वह्निमध्ये च संग्रामे तथा प्राणस्य संशये । शताष्टकं जपन्मंत्री लभते क्षेममुत्तमम् ॥ 21 ॥
कालीं संस्थाप्य विधिवत् स्तुत्वा नामशताष्टकैः । साधकः सिद्धिमाप्नोति कालिकायाः प्रसादतः ॥ 22 ॥
इति श्री काली ककाराष्टोत्तरशतनाम स्तोत्रम् ।
Browse Related Categories: