Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
वंदे गजेंद्रवदनं वामांकारूढवल्लभाश्लिष्टम् । कुंकुमपरागशोणं कुवलयिनीजारकोरकापीडम् ॥ 1 ॥
स जयति सुवर्णशैलः सकलजगच्चक्रसंघटितमूर्तिः । कांचननिकुंजवाटी- -कंदलदमरीप्रपंचसंगीतः ॥ 2 ॥
हरिहयनैरृतमारुत- -हरितामंतेष्ववस्थितं तस्य । विनुमः सानुत्रितयं विधिहरिगौरीशविष्टपाधारम् ॥ 3 ॥
मध्ये पुनर्मनोहर- -रत्नरुचिस्तबकरंजितदिगंतम् । उपरि चतुःशतयोजन- -मुत्तुंगं शृंगपुंगवमुपासे ॥ 4 ॥
तत्र चतुःशतयोजन- -परिणाहं देवशिल्पिना रचितम् । नानासालमनोज्ञं नमाम्यहं नगरमादिविद्यायाः ॥ 5 ॥
प्रथमं सहस्रपूर्वक- -षट्शतसंख्याकयोजनं परितः । वलयीकृतस्वगात्रं वरणं शरणं व्रजाम्ययोरूपम् ॥ 6 ॥
तस्योत्तरे समीरण- -योजनदूरे तरंगितच्छायः । घटयतु मुदं द्वितीयो घंटास्तनसारनिर्मितः सालः ॥ 7 ॥
उभयोरंतरसीम- -न्युद्दामभ्रमररंजितोदारम् । उपवनमुपास्महे वय- -मूरीकृतमंदमारुतस्यंदम् ॥ 8 ॥
आलिंग्य भद्रकाली- -मासीनस्तत्र हरिशिलाश्यामाम् । मनसि महाकालो मे विहरतु मधुपानविभ्रमन्नेत्रः ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
तार्तीयीको वरण- -स्तस्योत्तरसीम्नि वातयोजनतः । ताम्रेण रचितमूर्ति- -स्तनुतामाचंद्रतारकं भद्रम् ॥ 10 ॥
मध्ये तयोश्च मणिमय- -पल्लवशाखाप्रसूनपक्ष्मलिताम् । कल्पानोकहवाटीं कलये मकरंदपंकिलावालाम् ॥ 11 ॥
तत्र मधुमाधवश्री- -तरुणीभ्यां तरलदृक्चकोराभ्याम् । आलिंगितोऽवतान्मा- -मनिशं प्रथमर्तुरात्तपुष्पास्त्रः ॥ 12 ॥
नमत तदुत्तरभागे नाकिपथोल्लंघिशृंगसंघातम् । सीसाकृतिं तुरीयं सितकिरणालोकनिर्मलं सालम् ॥ 13 ॥
सालद्वयांतराले सरलालिकपोतचाटुसुभगायाम् । संतानवाटिकायां सक्तं चेतोऽस्तु सततमस्माकम् ॥ 14 ॥
तत्र तपनातिरूक्षः साम्राज्ञीचरणसांद्रितस्वांतः । शुक्रशुचिश्रीसहितो ग्रीष्मर्तुर्दिशतु कीर्तिमाकल्पम् ॥ 15 ॥
उत्तरसीमनि तस्यो- -न्नतशिखरोत्कंपिहाटकपताकः । प्रकटयतु पंचमो नः प्राकारः कुशलमारकूटमयः ॥ 16 ॥
प्राकारयोश्च मध्ये पल्लवितान्यभृतपंचमोन्मेषा । हरिचंदनद्रुवाटी- -हरतादामूलमस्मदनुतापम् ॥ 17 ॥
तत्र नभः श्रीमुख्यै- -स्तरुणीवर्गैः समन्वितः परितः । वज्राट्टहासमुखरो वांछापूर्तिं तनोतु वर्षर्तुः ॥ 18 ॥
मारुतयोजनदूरे महनीयस्तस्य चोत्तरे भागे । भद्रं कृषीष्ट षष्ठः प्राकारः पंचलोहधातुमयः ॥ 19 ॥
अनयोर्मध्ये संतत- -मंकूरद्दिव्यकुसुमगंधायाम् । मंदारवाटिकायां मानसमंगीकरोतु मे विहृतिम् ॥ 20 ॥
तस्यामिषोर्जलक्ष्मी- -तरुणीभ्यां शरदृतुः सदा सहितः । अभ्यर्चयन् स जीया- -दंबामामोदमेदुरैः कुसुमैः ॥ 21 ॥
तस्यर्षिसंख्ययोजन- -दूरे देदीप्यमानशृंगौघः । कलधौतकलितमूर्तिः कल्याणं दिशतु सप्तमः सालः ॥ 22 ॥
मध्ये तयोर्मरुत्पथ लंघितविटपाग्रविरुतकलकंठा । श्रीपारिजातवाटी श्रियमनिशं दिशतु शीतलोद्देशा ॥ 23 ॥
तस्यामतिप्रियाभ्यां सह खेलन् सहसहस्यलक्ष्मीभ्याम् । सामंतो झषकेतो- -र्हेमंतो भवतु हेमवृद्ध्यै नः ॥ 24 ॥
उत्तरतस्तस्य महा- -नुद्भटहुतभुक्शिखारुणमयूखः । तपनीयखंडरचित- -स्तनुतादायुष्यमष्टमो वरणः ॥ 25 ॥
कादंबविपिनवाटी- -मनयोर्मध्यभुवि कल्पितावासाम् । कलयामि सूनकोरक- -कंदलितामोदतुंदिलसमीराम् ॥ 26 ॥
तस्यामतिशिशिराकृति- -रासीनस्तपतपस्यलक्ष्मीभ्याम् । शिवमनिशं कुरुतान्मे शिशिरर्तुः सततशीतलदिगंतः ॥ 27 ॥
तस्यां कदंबवाट्यां तत्प्रसवामोदमिलितमधुगंधम् । सप्तावरणमनोज्ञं शरणं समुपैमि मंत्रिणीशरणम् ॥ 28 ॥
तत्रालये विशाले तपनीयारचिततरलसोपाने । माणिक्यमंडपांत- -र्महिते सिंहासने सुमणिखचिते ॥ 29 ॥
बिंदुत्रिपंचकोण- -द्विपनृपवसुवेददलकुरेखाढ्ये । चक्रे सदा निविष्टां षष्ठ्यष्टत्रिंशदक्षरेशानीम् ॥ 30 ॥
तापिंछमेचकाभां तालीदलघटितकर्णताटंकाम् । तांबूलपूरितमुखीं ताम्राधरबिंबदृष्टदरहासाम् ॥ 31 ॥
कुंकुमपंकिलदेहां कुवलयजीवातुशावकवतंसाम् । कोकनदशोणचरणां कोकिलनिक्वाणकोमलालापाम् ॥ 32 ॥
वामांगगलितचूलीं वनमाल्यकदंबमालिकाभरणाम् । मुक्ताललंतिकांचित मुग्धालिकमिलितचित्रकोदाराम् ॥ 33 ॥
करविधृतकीरशावक- -कलनिनदव्यक्तनिखिलनिगमार्थाम् । वामकुचसंगिवीणावादन- -सौख्यार्धमीलिताक्षियुगाम् ॥ 34 ॥
आपाटलांशुकधरा- -मादिरसोन्मेषवासितकटाक्षाम् । आम्नायसारगुलिका- -माद्यां संगीतमातृकां वंदे ॥ 35 ॥
तस्य च सुवर्णसाल- -स्योत्तरतस्तरुणकुंकुमच्छायः । शमयतु मम संतापं सालो नवमः स पुष्परागमयः ॥ 36 ॥
अनयोरंतरवसुधाः प्रणुमः प्रत्यग्रपुष्परागमयीः । सिंहासनेश्वरीमनु- -चिंतननिस्तंद्रसिद्धनीरंध्राः ॥ 37 ॥
तत्सालोत्तरदेशे तरुणजपाकिरणधोरणीशोणः । प्रशमयतु पद्मराग- -प्राकारो मम पराभवं दशमः ॥ 38 ॥
अंतरभूकृतवासा- -ननयोरपनीतचित्तवैमत्यान् । चक्रेशीपदभक्तां- -श्चारणवर्गानहर्निशं कलये ॥ 39 ॥
सारंगवाहयोजनदूरे- -ऽसंघटितकेतनस्तस्य । गोमेदकेन रचितो गोपायतु मां समुन्नतः सालः ॥ 40 ॥
वप्रद्वयांतरोर्व्यां वटुकैर्विविधैश्च योगिनीबृंदैः । सततं समर्चितायाः संकर्षण्याः प्रणौमि चरणाब्जम् ॥ 41 ॥
तापसयोजनदूरे तस्य समुत्तुंग गोपुरोपेतः । वांछापूर्त्यै भवता- -द्वज्रमणीनिकरनिर्मितो वप्रः ॥ 42 ॥
वरणद्वितयांतरतो वासजुषो विहितमधुरसास्वादाः । रंभादिविबुधवेश्या रचयंतु महांतमस्मदानंदम् ॥ 43 ॥
तत्र सदा प्रवहंती तटिनी वज्राभिधा चिरं जीयात् । चटुलोर्मिजालनृत्य- -त्कलहंसीकुलकलक्वणितपुष्टा ॥ 44 ॥
रोधसि तस्या रुचिरे वज्रेशी जयति वज्रभूषाढ्या । वज्रप्रदानतोषित- -वज्रिमुखत्रिदशविनुतचारित्रा ॥ 45 ॥
तस्योदीच्यां हरिति स्तवकितसुषमावलीढवियदंतः । वैडूर्यरत्नरचितो वैमल्यं दिशतु चेतसो वरणः ॥ 46 ॥
अधिमध्यमेतयोः पुन- -रंबाचरणावलंबितस्वांतान् । कार्कोटकादिनागान् कलयामः किं च बलिमुखान् दनुजान् ॥ 47 ॥
गंधवहसंख्ययोजन- -दूरे गगनोर्ध्वजांघिकस्तस्य । वासवमणिप्रणीतो वरणो बहलयतु वैदुषीं विशदाम् ॥ 48 ॥
मध्यक्षोण्यामनयो- -र्महेंद्रनीलात्मकानि च सरांसि । शातोदरीसहाया- -न्भूपालानपि पुनः पुनः प्रणुमः ॥ 49 ॥
आशुगयोजनदूरे तस्योर्ध्वं कांतिधवलितदिगंतः । मुक्ताविरचितगात्रो मुहुरस्माकं मुदे भवतु सालः ॥ 50 ॥
आवृत्त्योरधिमध्यं पूर्वस्यां दिशि पुरंदरः श्रीमान् । अभ्रमुविटाधिरूढो विभ्रममस्माकमनिशमातनुतात् ॥ 51 ॥
तत्कोणे व्यजनस्रु- -क्तोमरपात्रस्रुवान्नशक्तिधरः । स्वाहास्वधासमेतः सुखयतु मां हव्यवाहनः सुचिरम् ॥ 52 ॥
दक्षिणदिगंतराले दंडधरो नीलनीरदच्छायः । त्रिपुरापदाब्जभक्तस्तिरयतु मम निखिलमंहसां निकरम् ॥ 53 ॥
तस्यैव पश्चिमायां दिशि दलितेंदीवरप्रभाश्यामः । खेटासियष्टिधारी खेदानपनयतु यातुधानो मे ॥ 54 ॥
तस्या उत्तरदेशे धवलांगो विपुलझषवरारूढः । पाशायुधात्तपाणिः पाशी विदलयतु पाशजालानि ॥ 55 ॥
वंदे तदुत्तरहरि- -त्कोणे वायुं चमूरुवरवाहम् । कोरकिततत्त्वबोधा- -न्गोरक्षप्रमुखयोगिनोऽपि मुहुः ॥ 56 ॥
तरुणीरिडाप्रधाना- -स्तिस्रो वातस्य तस्य कृतवासाः । प्रत्यग्रकापिशायन- -पानपरिभ्रांतलोचनाः कलये ॥ 57 ॥
तल्लोकपूर्वभागे धनदं ध्यायामि शेवधिकुलेशम् । अपि माणिभद्रमुख्या- -नंबाचरणावलंबिनो यक्षान् ॥ 58 ॥
तस्यैव पूर्वसीमनि तपनीयारचितगोपुरे नगरे । कात्यायनीसहायं कलये शीतांशुखंडचूडालम् ॥ 59 ॥
तत्पुरषोडशवरण- -स्थलभाजस्तरुणचंद्रचूडालान् । रुद्राध्याये पठिता- -न्रुद्राणीसहचरान्भजे रुद्रान् ॥ 60 ॥
पवमानसंख्ययोजन- -दूरे बालतृण्मेचकस्तस्य । सालो मरकतरचितः संपदमचलां श्रियं च पुष्णातु ॥ 61 ॥
आवृतियुग्मांतरतो हरितमणीनिवहमेचके देशे । हाटकतालीविपिनं हालाघटघटितविटपमाकलये ॥ 62 ॥
तत्रैव मंत्रिणीगृह- -परिणाहं तरलकेतनं सदनम् । मरकतसौधमनोज्ञं दद्यादायूंषि दंडनाथायाः ॥ 63 ॥
सदने तत्र हरिन्मणि- -संघटिते मंडपे शतस्तंभे । कार्तस्वरमयपीठे कनकमयांबुरुहकर्णिकामध्ये ॥ 64 ॥
बिंदुत्रिकोणवर्तुल- -षडस्रवृत्तद्वयान्विते चक्रे । संचारिणी दशोत्तर- शतार्णमनुराजकमलकलहंसी ॥ 65 ॥
कोलवदना कुशेशय- -नयना कोकारिमंडितशिखंडा । संतप्तकांचनाभा संध्यारुणचेलसंवृतनितंबा ॥ 66 ॥
हलमुसलशंखचक्रा- -ऽंकुशपाशाभयवरस्फुरितहस्ता । कूलंकषानुकंपा कुंकुमजंबालितस्तनाभोगा ॥ 67 ॥
धूर्तानामतिदूरा- -वार्ताशेषावलग्नकमनीया । आर्तालीशुभदात्री वार्ताली भवतु वांछितार्थाय ॥ 68 ॥
तस्याः परितो देवीः स्वप्नेश्युन्मत्तभैरवीमुख्याः । प्रणमत जंभिन्याद्याः भैरववर्गांश्च हेतुकप्रमुखान् ॥ 69 ॥
पूर्वोक्तसंख्ययोजन- -दूरे पूयांशुपाटलस्तस्य । विद्रावयतु मदार्तिं विद्रुमसालो विशंकटद्वारः ॥ 70 ॥
आवरणयोरहर्निश- -मंतरभूमौप्रकाशशालिन्याम् । आसीनमंबुजासन- -मभिनवसिंदूरगौरमहमीडे ॥ 71 ॥
वरणस्य तस्य मारुत- -योजनतो विपुलगोपुरद्वारः । सालो नानारत्नैः संघटितांगः कृषीष्ट मदभीष्टम् ॥ 72 ॥
अंतरकक्ष्यामनयो- -रविरलशोभापिचंडिलोद्देशाम् । माणिक्यमंडपाख्यां महतीमधिहृदयमनिशमाकलये ॥ 73 ॥
तत्र स्थितं प्रसन्नं तरुणतमालप्रवालकिरणाभम् । कर्णावलंबिकुंडल- -कंदलिताभीशुकवचितकपोलम् ॥ 74 ॥
शोणाधरं शुचिस्मित- -मेणांकवदनमेधमानकृपम् । मुग्धैणमदविशेषक- -मुद्रितनिटिलेंदुरेखिकारुचिरम् ॥ 75 ॥
नालीकदलसहोदर- -नयनांचलघटितमनसिजाकूतम् । कमलाकठिनपयोधर- -कस्तूरीघुसृणपंकिलोरस्कम् ॥ 76 ॥
चांपेयगंधिकैश्यं शंपासब्रह्मचारिकौशेयम् । श्रीवत्सकौस्तुभधरं श्रितजनरक्षाधुरीणचरणाब्जम् ॥ 77 ॥
कंबुसुदर्शनविलस- -त्करपद्मं कंठलोलवनमालम् । मुचुकुंदमोक्षफलदं मुकुंदमानंदकंदमवलंबे ॥ 78 ॥
तद्वरणोत्तरभागे तारापतिबिंबचुंबिनिजशृंगः । विविधमणीगणघटितो वितरतु सालो विनिर्मलां धिषणाम् ॥ 79 ॥
प्राकारद्वितयांतर- -कक्ष्यां पृथुरत्ननिकरसंकीर्णाम् । नमत सहस्रस्तंभक- -मंडपनाम्नातिविश्रुतां भुवने ॥ 80 ॥
प्रणुमस्तत्र भवानी- -सहचरमीशानमिंदुखंडधरम् । शृंगारनायिकामनु- -शीलनभाजोऽपि भृंगिनंदिमुखान् ॥ 81 ॥
तस्यैणवाहयोजन- -दूरे वंदे मनोमयं वप्रम् । अंकूरन्मणिकिरणा- -मंतरकक्ष्यां च निर्मलामनयोः ॥ 82 ॥
तत्रैवामृतवापीं तरलतरंगावलीढतटयुग्माम् । मुक्तामयकलहंसी- -मुद्रितकनकारविंदसंदोहाम् ॥ 83 ॥
शक्रोपलमयभृंगी- -संगीतोन्मेषघोषितदिगंताम् । कांचनमयांगविलस- -त्कारंडवषंडतांडवमनोज्ञाम् ॥ 84 ॥
कुरुविंदात्मकहल्लक- -कोरकसुषमासमूहपाटलिताम् । कलये सुधास्वरूपां कंदलितामंदकैरवामोदाम् ॥ 85 ॥
तद्वापिकांतराले तरले मणिपोतसीम्नि विहरंतीम् । सिंदूरपाटलांगीं सितकिरणांकूरकल्पितवतंसाम् ॥ 86 ॥
पर्वेंदुबिंबवदनां पल्लवशोणाधरस्फुरितहासाम् । कुटिलकबरीं कुरंगी- -शिशुनयनां कुंडलस्फुरितगंडाम् ॥ 87 ॥
निकटस्थपोतनिलयाः शक्तीः शयविधृतहेमशृंगजलैः । परिषिंचंतीं परित- -स्तारां तारुण्यगर्वितां वंदे ॥ 88 ॥
प्रागुक्तसंख्ययोजनदूरे प्रणमामि बुद्धिमयसालम् । अनयोरंतरकक्ष्या- -मष्टापदपुष्टमेदिनीं रुचिराम् ॥ 89 ॥
कादंबरीनिधानां कलयाम्यानंदवापिकां तस्याम् । शोणाश्मनिवहनिर्मित- -सोपानश्रेणिशोभमानतटीम् ॥ 90 ॥
माणिक्यतरणिनिलयां मध्ये तस्या मदारुणकपोलाम् । अमृतेशीत्यभिधाना- -मंतः कलयामि वारुणीं देवीम् ॥ 91 ॥
सौवर्णकेनिपातन- -हस्ताः सौंदर्यगर्विता देव्यः । तत्पुरतः स्थितिभाजो वितरंत्वस्माकमायुषो वृद्धिम् ॥ 92 ॥
तस्य पृषदश्वयोजन- -दूरेऽहंकारसालमतितुंगम् । वंदे तयोश्च मध्ये कक्ष्यां वलमानमलयपवमानाम् ॥ 93 ॥
विनुमो विमर्शवापीं सौषुम्नसुधास्वरूपिणीं तत्र । वेलातिलंघ्यवीची- -कोलाहलभरितकूलवनवाटीम् ॥ 94 ॥
तत्रैव सलिलमध्ये तापिंछदलप्रपंचसुषमाभाम् । श्यामलकंचुकलसितां श्यामाविटबिंबडंबरहरास्याम् ॥ 95 ॥
आभुग्नमसृणचिल्ली- -हसितायुग्मशरकार्मुकविलासाम् । मंदस्मितांचितमुखीं मणिमयताटंकमंडितकपोलाम् ॥ 96 ॥
कुरुविंदतरणिनिलयां कुलाचलस्पर्धिकुचनमन्मध्याम् । कुंकुमविलिप्तगात्रीं कुरुकुल्लां मनसि कुर्महे सततम् ॥ 97 ॥
तत्सालोत्तरभागे भानुमयं वप्रमाश्रये दीप्तम् । मध्यं च विपुलमनयो- -र्मन्ये विश्रांतमातपोद्गारम् ॥ 98 ॥
तत्र कुरुविंदपीठे तामरसे कनककर्णिकाघटिते । आसीनमरुणवासस- -मम्लानप्रसवमालिकाभरणम् ॥ 99 ॥
चक्षुष्मतीप्रकाशन- -शक्तिच्छायासमारचितकेलिम् । माणिक्यमुकुटरम्यं मन्ये मार्तांडभैरवं हृदये ॥ 100 ॥
इंदुमयसालमीडे तस्योत्तरतस्तुषारगिरिगौरम् । अत्यंतशिशिरमारुत- -मनयोर्मध्यं च चंद्रिकोद्गारम् ॥ 101 ॥
तत्र प्रकाशमानं तारानिकरैः परिष्कृतोद्देशम् । अमृतमयकांतिकंदल- -मंतः कलयामि कुंदसितमिंदुम् ॥ 102 ॥
शृंगारसालमीडे शृंगोल्लसितं तदुत्तरे भागे । मध्यस्थले तयोरपि महितां शृंगारपूर्विकां परिखाम् ॥ 103 ॥
तत्र मणिनौस्थिताभि- -स्तपनीयाविरचिताग्रहस्ताभिः । शृंगारदेवताभिः सहितं परिखाधिपं भजे मदनम् ॥ 104 ॥
शृंगारवरणवर्यस्योत्तरतः सकलविबुधसंसेव्यम् । चिंतामणिगणरचितं चिंतां दूरीकरोतु मे सदनम् ॥ 105 ॥
मणिसदनसालयोरधि- -मध्यं दशतालभूमिरुहदीर्घैः । पर्णैः सुवर्णवर्णै- -र्युक्तां कांडैश्च योजनोत्तुंगैः ॥ 106 ॥
मृदुलैस्तालीपंचक- -मानैर्मिलितां च केसरकदंबैः । संततगलितमरंद- -स्रोतोनिर्यन्मिलिंदसंदोहाम् ॥ 107 ॥
पाटीरपवनबालक- -धाटीनिर्यत्परागपिंजरिताम् । कलहंसीकुलकलकल- -कूलंकषनिनदनिचयकमनीयाम् ॥ 108 ॥
पद्माटवीं भजामः परिमलकल्लोलपक्ष्मलोपांताम् । [ देव्यर्घ्यपात्रधारी तस्याः पूर्वदिशि दशकलायुक्तः । ] वलयितमूर्तिर्भगवा- -न्वह्निः क्रोशोन्नतश्चिरं पायात् ॥ 109 ॥
तत्राधारे देव्याः पात्रीरूपः प्रभाकरः श्रीमान् । द्वादशकलासमेतो ध्वांतं मम बहुलमांतरं भिंद्यात् ॥ 110 ॥
तस्मिन् दिनेशपात्रे तरंगितामोदममृतमयमर्घ्यम् । चंद्रकलात्मकममृतं सांद्रीकुर्यादमंदमानंदम् ॥ 111 ॥
अमृते तस्मिन्नभितो विहरंत्यो विविधमणितरणिभाजः । षोडश कलाः सुधांशोः शोकादुत्तारयंतु मामनिशम् ॥ 112 ॥
तत्रैव विहृतिभाजो धातृमुखानां च कारणेशानाम् । सृष्ट्यादिरूपिकास्ताः शमयंत्वखिलाः कलाश्च संतापम् ॥ 113 ॥
कीनाशवरुणकिन्नर- -राजदिगंतेषु रत्नगेहस्य । कलयामि तान्यजस्रं कलयंत्वायुष्यमर्घ्यपात्राणि ॥ 114 ॥
पात्रस्थलस्य पुरतः पद्मारमणविधिपार्वतीशानाम् । भवनानि शर्मणे नो भवंतु भासा प्रदीपितजगंति ॥ 115 ॥
सदनस्यानलकोणे सततं प्रणमामि कुंडमाग्नेयम् । तत्र स्थितं च वह्निं तरलशिखाजटिलमंबिकाजनकम् ॥ 116 ॥
तस्यासुरदिशि तादृश- -रत्नपरिस्फुरितपर्वनवकाढ्यम् । चक्रात्मकं शतांगं शतयोजनमुन्नतं भजे दिव्यम् ॥ 117 ॥
तत्रैव दिशि निषण्णं तपनीयध्वजपरंपराश्लिष्टम् । रथमपरं च भवान्या रचयामो मनसि रत्नमयचूडम् ॥ 118 ॥
भवनस्य वायुभागे परिष्कृतो विविधवैजयंतीभिः । रचयतु मुदं रथेंद्रः सचिवेशान्याः समस्तवंद्यायाः ॥ 119 ॥
कुर्मोऽधिहृदयमनिशं क्रोडास्यायाः शतांगमूर्धन्यम् । रुद्रदिशि रत्नधाम्नो रुचिरशलाकाप्रपंचकंचुकितम् ॥ 120 ॥
परितो देवीधाम्नः प्रणीतवासा मनुस्वरूपिण्यः । कुर्वंतु रश्मिमाला- -कृतयः कुशलानि देवता निखिलाः ॥ 121 ॥
प्राग्द्वारस्य भवानी- -धाम्नः पार्श्वद्वयारचितवासे । मातंगीकिटिमुख्यौ मणिसदने मनसि भावयामि चिरम् ॥ 122 ॥
योजनयुगलाभोगा तत्क्रोशपरिणाहयैव भित्त्या च । चिंतामणिगृहभूमि- -र्जीयादाम्नायमयचतुर्द्वारा ॥ 123 ॥
द्वारे द्वारे धाम्नः पिंडीभूता नवीनबिंबाभाः । विदधतु विपुलां कीर्तिं दिव्या लौहित्यसिद्ध्यो देव्यः ॥ 124 ॥
मणिसदनस्यांतरतो महनीये रत्नवेदिकामध्ये । बिंदुमयचक्रमीडे पीठानामुपरि विरचितावासम् ॥ 125 ॥
चक्राणां सकलानां प्रथममधः सीमफलकवास्तव्याः । अणिमादिसिद्धयो मा- -मवंतु देवी प्रभास्वरूपिण्यः ॥ 126 ॥
अणिमादिसिद्धिफलक- -स्योपरिहरिणांकखंडकृतचूडाः । भद्रं पक्ष्मलयंतु ब्राह्मीप्रमुखाश्च मातरोऽस्माकम् ॥ 127 ॥
तस्योपरि मणिफलके तारुण्योत्तुंगपीनकुचभाराः । संक्षोभिणीप्रधानाः भ्रांति विद्रावयंतु दश मुद्राः ॥ 128 ॥
फलकत्रयस्वरूपे पृथुले त्रैलोक्यमोहने चक्रे । दीव्यंतु प्रकटाख्या- -स्तासां कर्त्रीं च भगवती त्रिपुरा ॥ 129 ॥
तदुपरि विपुले धिष्ण्ये तरलदृशस्तरुणकोकनदभासः । कामाकर्षिण्याद्याः कलये देवीः कलाधरशिखंडाः ॥ 130 ॥
सर्वाशापरिपूरकचक्रे- -ऽस्मिन् गुप्तयोगिनीसेव्याः । त्रिपुरेशी मम दुरितं तुद्यात् कंठावलंबिमणिहारा ॥ 131 ॥
तस्योपरि मणिपीठे ताम्रांभोरुहदलप्रभाशोणाः । ध्यायाम्यनंगकुसुमा- -प्रमुखा देवीश्च विधृतकूर्पासाः ॥ 132 ॥
संक्षोभकारकेऽस्मिं- -श्चक्रे श्रीत्रिपुरसुंदरी साक्षात् । गोप्त्री गुप्ततराख्याः गोपायतु मां कृपार्द्रया दृष्ट्या ॥ 133 ॥
संक्षोभिणीप्रधानाः शक्तीस्तस्योर्ध्ववलयकृतवासाः । आलोलनीलवेणी- -रंतः कलयामि यौवनोन्मत्ताः ॥ 134 ॥
सौभाग्यदायकेऽस्मिं- -श्चक्रेशी त्रिपुरवासिनी जीयात् । शक्तीश्च संप्रदायाभिधाः समस्ताः प्रमोदयंत्वनिशम् ॥ 135 ॥
मणिपीठोपरि तासां महति चतुर्हस्तविस्तृते वलये । संततविरचितवासाः शक्तीः कलयामि सर्वसिद्धिमुखाः ॥ 136 ॥
सर्वार्थसाधकाख्ये चक्रेऽमुष्मिन् समस्तफलदात्री । त्रिपुरा श्रीर्मम कुशलं दिशतादुत्तीर्णयोगिनीसेव्या ॥ 137 ॥
तासां निलयस्योपरि धिष्ण्ये कौसुंभकंचुकमनोज्ञाः । सर्वाज्ञाद्याः देव्यः सकलाः संपादयंतु मम कीर्तिम् ॥ 138 ॥
चक्रे समस्तरक्षा- -करनाम्न्यस्मिन् समस्तजनसेव्याम् । मनसि निगर्भासहितां मन्ये श्रीत्रिपुरमालिनीं देवीम् ॥ 139 ॥
सर्वज्ञासदनस्योपरि चक्रे विपुले समाकलितगेहाः । वंदे वशिनीमुख्याः शक्तीः सिंदूररेणुरुचः ॥ 140 ॥
श्रीसर्वरोगहराख्य- -चक्रेऽस्मिंस्त्रिपुरपूर्विकां सिद्धाम् । वंदे रहस्यनाम्ना वेद्याभिः शक्तिभिः सदा सेव्याम् ॥ 141 ॥
वशिनीगृहोपरिष्टा- -द्विंशतिहस्तोन्नते महापीठे । शमयंतु शत्रुबृंदं शस्त्राण्यस्त्राणि चादिदंपत्योः ॥ 142 ॥
शस्त्रसदनोपरिष्टा- -द्वलये वलवैरिरत्नसंघटिते । कामेश्वरीप्रधानाः कलये देवीः समस्तजनवंद्याः ॥ 143 ॥
चक्रेऽत्र सर्वसिद्धिप्रद- -नामनि सर्वफलदात्री । त्रिपुरांबावतु सततं परापररहस्ययोगिनीसेव्या ॥ 144 ॥
कामेश्वरीगृहोपरिवलये विविधमनुसंप्रदायज्ञाः । चत्वारो युगनाथा जयंतु मित्रेशपूर्वकाः गुरवः ॥ 145 ॥
नाथभवनोपरिष्टा- -न्नानारत्नचयमेदुरे पीठे । कामेश्याद्या नित्याः कलयंतु मुदं तिथिस्वरूपिण्यः ॥ 146 ॥
नित्यासदनस्योपरि निर्मलमणिनिवहविरचिते धिष्ण्ये । कुशलं षडंगदेव्यः कलयंत्वस्माकमुत्तरलनेत्राः ॥ 147 ॥
सदनस्योपरि तासां सर्वानंदमयनामके बिंदौ । पंचब्रह्माकारां मंचं प्रणमामि मणिगणाकीर्णम् ॥ 148 ॥
परितो मणिमंचस्य प्रलंबमाना नियंत्रिता पाशैः । मायामयी जवनिका मम दुरितं हरतु मेचकच्छाया ॥ 149 ॥
मंचस्योपरि लंब- -न्मदनीपुन्नागमालिकाभरितम् । हरिगोपमयवितानं हरतादालस्यमनिशमस्माकम् ॥ 150 ॥
पर्यंकस्य भजामः पादान्बिंबांबुदेंदुहेमरुचः । अजहरिरुद्रेशमया- -ननलासुरमारुतेशकोणस्थान् ॥ 151 ॥
फलकं सदाशिवमयं प्रणौमि सिंदूररेणुकिरणाभम् । आरभ्यांगेशीनां सदनात्कलितं च रत्नसोपानम् ॥ 152 ॥
पट्टोपधानगंडक- -चतुष्टयस्फुरितपाटलास्तरणम् । पर्यंकोपरि घटितं पातु चिरं हंसतूलशयनं नः ॥ 153 ॥
तस्योपरि निवसंतं तारुण्यश्रीनिषेवितं सततम् । आवृंतपुल्लहल्लक- -मरीचिकापुंजमंजुलच्छायम् ॥ 154 ॥
सिंदूरशोणवसनं शीतांशुस्तबकचुंबितकिरीटम् । कुंकुमतिलकमनोहर- -कुटिलालिकहसितकुमुदबंधुशिशुम् ॥ 155 ॥
पूर्णेंदुबिंबवदनं फुल्लसरोजातलोचनत्रितयम् । तरलापांगतरंगित- -शफरांकनशास्त्रसंप्रदायार्थम् ॥ 156 ॥
मणिमयकुंडलपुष्य- -न्मरीचिकल्लोलमांसलकपोलम् । विद्रुमसहोदराधर- -विसृमरसुस्मितकिशोरसंचारम् ॥ 157 ॥
आमोदिकुसुमशेखर- -मानीलभ्रूलतायुगमनोज्ञम् । वीटीसौरभवीची- -द्विगुणितवक्त्रारविंदसौरभ्यम् ॥ 158 ॥
पाशांकुशेक्षुचाप- -प्रसवशरस्फुरितकोमलकराब्जम् । काश्मीरपंकिलांगं कामेशं मनसि कुर्महे सततम् ॥ 159 ॥
तस्यांकभुवि निषण्णां तरुणकदंबप्रसूनकिरणाभाम् । शीतांशुखंडचूडां सीमंतन्यस्तसांद्रसिंदूराम् ॥ 160 ॥
कुंकुमललामभास्व- -न्निटिलां कुटिलतरचिल्लिकायुगलाम् । नालीकतुल्यनयनां नासांचलनटितमौक्तिकाभरणाम् ॥ 161 ॥
अंकुरितमंदहास- -मरुणाधरकांतिविजितबिंबाभाम् । कस्तूरीमकरीयुत- -कपोलसंक्रांतकनकताटंकाम् ॥ 162 ॥
कर्पूरसांद्रवीटी- -कबलितवदनारविंदकमनीयाम् । कंबुसहोदरकंठ- -प्रलंबमानाच्छमौक्तिककलापाम् ॥ 163 ॥
कह्लारदामकोमल- -भुजयुगलस्फुरितरत्नकेयूराम् । करपद्ममूलविलस- -त्कांचनमयकटकवलयसंदोहाम् ॥ 164 ॥
पाणिचतुष्टयविलस- -त्पाशांकुशपुंड्रचापपुष्पास्त्राम् । कूलंकषकुचशिखरां कुंकुमकर्दमितरत्नकूर्पासाम् ॥ 165 ॥
अणुदायादवलग्ना- -मंबुदशोभासनाभिरोमलताम् । माणिक्यखचितकांची- -मरीचिकाक्रांतमांसलनितंबाम् ॥ 166 ॥
करभोरुकांडयुगलां जंघाजितकामजैत्रतूणीराम् । प्रपदपरिभूतकूर्मां पल्लवसच्छायपदयुगमनोज्ञाम् ॥ 167 ॥
कमलभवकंजलोचन- -किरीटरत्नांशुरंजितपदाब्जाम् । उन्मस्तकानुकंपा- -मुत्तरलापांगपोषितानंगाम् ॥ 168 ॥
आदिमरसावलंबा- -मनिदं प्रथमोक्तिवल्लरीकलिकाम् । आब्रह्मकीटजननी- -मंतः कलयामि सुंदरीमनिशम् ॥ 169 ॥
कस्तु क्षितौ पटीया- -न्वस्तु स्तोतुं शिवांकवास्तव्यम् । अस्तु चिरंतनसुकृतैः प्रस्तुतकाम्याय तन्मम पुरस्तात् ॥ 170 ॥
प्रभुसम्मितोक्तिगम्यं परमशिवोत्संगतुंगपर्यंकम् । तेजः किंचन दिव्यं पुरतो मे भवतु पुंड्रकोदंडम् ॥ 171 ॥
मधुरिमभरितशरासं मकरंदस्यंदिमार्गणोदारम् । कैरविणीविटचूडं कैवल्यायास्तु किंचन महो नः ॥ 172 ॥
अक्षुद्रमिक्षुचापं परोक्षमवलग्नसीम्नि त्र्यक्षम् । क्षपयतु मे क्षेमेतर- -मुक्षरथप्रेमपक्ष्मलं तेजः ॥ 173 ॥
भृंगरुचिसंगरकरापांगं शृंगारतुंगमरुणांगम् । मंगलमभंगुरं मे घटयतु गंगाधरांगसंगि महः ॥ 174 ॥
प्रपदाजितकूर्ममूर्जित- -करुणं भर्मरुचिनिर्मथनदेहम् । श्रितवर्म मर्म शंभोः किंचन मम नर्म शर्म निर्मातु ॥ 175 ॥
कालकुरलालिकालिम- -कंदलविजितालि विधृतमणिवालि । मिलतु हृदि पुलिनजघनं बहुलितगलगरलकेलि किमपि महः ॥ 176 ॥
कुंकुमतिलकितफाला कुरुविंदच्छायपाटलदुकूला । करुणापयोधिवेला काचन चित्ते चकास्तु मे लीला ॥ 177 ॥
पुष्पंधयरुचिवेण्यः पुलिनाभोगत्रपाकरश्रेण्यः । जीयासुरिक्षुपाण्यः काश्चन कामारिकेलिसाक्षिण्यः ॥ 178 ॥
तपनीयांशुकभांसि द्राक्षामाधुर्यनास्तिकवचांसि । कतिचन शुचं महांसि क्षपयतु कपालितोषितमनांसि ॥ 179 ॥
असितकचमायताक्षं कुसुमशरं कूलमुद्वहकृपार्द्रम् । आदिमरसाधिदैवत- -मंतः कलये हरांकवासि महः ॥ 180 ॥
कर्णोपांततरंगित- -कटाक्षविस्पंदिकंठदघ्नकृपाम् । कामेश्वरांकनिलयां कामपि विद्यां पुरातनीं कलये ॥ 181 ॥
अरविंदकांत्यरुंतुद- -विलोचनद्वंद्वसुंदरमुखेंदु । छंदः कंदलमंदिर- -मंतःपुरमैंदुशेखरं वंदे ॥ 182 ॥
बिंबिनिकुरंबडंबर- -विडंबकच्छायमंबरवलग्नम् । कंबुगलमंबुदकुचं बिंबोकं कमपि चुंबतु मनो मे ॥ 183 ॥
कमपि कमनीयरूपं कलयाम्यंतः कदंबकुसुमाढ्यम् । चंपकरुचिरसुवेषैः संपादितकांत्यलंकृतदिगंतम् ॥ 184 ॥
शंपारुचिभर- -गर्हासंपादककांतिकवचितदिगंतम् । सिद्धांतं निगमानां शुद्धांतं किमपि शूलिनः कलये ॥ 185 ॥
उद्यद्दिनकरशोणा- -नुत्पलबंधुस्तनंधयापीडान् । करकलितपुंड्रचापा- -न्कलये कानपि कपर्दिनः प्राणान् ॥ 186 ॥
रशनालसज्जघनया रसनाजीवातुचापभासुरया । घ्राणायुष्करशरया घ्रातं चित्तं कयापि वासनया ॥ 187 ॥
सरसिजसहयुध्वदृशा शंपालतिकासनाभिविग्रहया । भासा कयापि चेतो नासामणिशोभिवदनया भरितम् ॥ 188 ॥
नवयावकाभसिचयान्वितया गजयानया दयापरया । धृतयामिनीशकलया धिया कयापि क्षतामया हि वयम् ॥ 189 ॥
अलमलमकुसुमबाणै- -रबिंबशोणैरपुंड्रकोदंडैः । अकुमुदबांधवचूडै- -रन्यैरिह जगति दैवतं मन्यैः ॥ 190 ॥
कुवलयसदृक्षनयनैः कुलगिरिकूटस्थबंधुकुचभारैः । करुणास्पंदिकटाक्षैः कवचितचित्तोऽस्मि कतिपयैः कुतुकैः ॥ 191 ॥
नतजनसुलभाय नमो नालीकसनाभिलोचनाय नमः । नंदितगिरिशाय नमो महसे नवनीपपाटलाय नमः ॥ 192 ॥
कादंबकुसुमदाम्ने कायच्छायाकणायितार्यम्णे । सीम्ने चिरंतनगिरां भूम्ने कस्मैचिदाददे प्रणतिम् ॥ 193 ॥
कुटिलकबरीभरेभ्यः कुंकुमसब्रह्मचारिकिरणेभ्यः । कूलंकषस्तनेभ्यः कुर्मः प्रणतिं कुलाद्रिकुतुकेभ्यः ॥ 194 ॥
कोकनदशोणचरणा- -त्कोमलकुरलालिविजितशैवालात् । उत्पलसगंधिनयना- -दुररीकुर्मो न देवतमान्याम् ॥ 195 ॥
आपाटलाधराणा- -मानीलस्निग्धबर्बरकचानाम् । आम्नायजीवनाना- -माकूतानां हरस्य दासोऽहम् ॥ 196 ॥
पुंखितविलासहास- -स्फुरितासु पुराहितांकनिलयासु । मग्नं मनो मदीयं कास्वपि कामारिजीवनाडीषु ॥ 197 ॥
ललिता पातु शिरो मे ललाटमंबा च मधुमतीरूपा । भ्रूयुग्मं च भवानी पुष्पशरा पातु लोचनद्वंद्वम् ॥ 198 ॥
पायान्नासां बाला सुभगा दंतांश्च सुंदरी जिह्वाम् । अधरोष्ठमादिशक्ति- -श्चक्रेशी पातु मे चिरं चिबुकम् ॥ 199 ॥
कामेश्वरी च कर्णौ कामाक्षी पातु गंडयोर्युगलम् । शृंगारनायिकाव्या- -द्वदनं सिंहासनेश्वरी च गलम् ॥ 200 ॥
स्कंदप्रसूश्च पातु स्कंधौ बाहू च पाटलांगी मे । पाणी च पद्मनिलया पायादनिशं नखावलीर्विजया ॥ 201 ॥
कोदंडिनी च वक्षः कुक्षिं चाव्यात् कुलाचलतनूजा । कल्याणी च वलग्नं कटिं च पायात्कलाधरशिखंडा ॥ 202 ॥
ऊरुद्वयं च पाया- -दुमा मृडानी च जानुनी रक्षेत् । जंघे च षोडशी मे पायात् पादौ च पाशसृणिहस्ता ॥ 203 ॥
प्रातः पातु परा मां मध्याह्ने पातु मणिगृहाधीशा । शर्वाण्यवतु च सायं पायाद्रात्रौ च भैरवी साक्षात् ॥ 204 ॥
भार्यां रक्षतु गौरीं पायात् पुत्रांश्च बिंदुगृहपीठा । श्रीविद्या च यशो मे शीलं चाव्याच्चिरं महाराज्ञी ॥ 205 ॥
पवनमयि पावकमयि क्षोणीमयि गगनमयि कृपीटमयि । रविमयि शशिमयि दिङ्मयि समयमयि प्राणमयि शिवे पाहि ॥ 206 ॥
कालि कपालिनि शूलिनि भैरवि मातंगि पंचमि त्रिपुरे । वाग्देवि विंध्यवासिनि बाले भुवनेशि पालय चिरं माम् ॥ 207 ॥
अभिनवसिंदूराभा- -मंब त्वां चिंतयंति ये हृदये । उपरि निपतंति तेषा- -मुत्पलनयनाकटाक्षकल्लोलाः ॥ 208 ॥
वर्गाष्टकमिलिताभि- -र्वशिनीमुख्याभिरावृतां भवतीम् । चिंतयतां सितवर्णां वाचो निर्यांत्ययत्नतो वदनात् ॥ 209 ॥
कनकशलाकागौरीं कर्णव्यालोलकुंडलद्वितयाम् । प्रहसितमुखीं च भवतीं ध्यायंतो ये त एव भूधनदाः ॥ 210 ॥
शीर्षांभोरुहमध्ये शीतलपीयूषवर्षिणीं भवतीम् । अनुदिनमनुचिंतयता- -मायुष्यं भवति पुष्कलमवन्याम् ॥ 211 ॥
मधुरस्मितां मदारुणनयनां मातंगकुंभवक्षोजाम् । चंद्रवतंसिनीं त्वां सविधे पश्यंति सुकृतिनः केचित् ॥ 212 ॥
ललितायाः स्तवरत्नं ललितपदाभिः प्रणीतमार्याभिः । प्रतिदिनमवनौ पठतां फलानि वक्तुं प्रगल्भते सैव ॥ 213 ॥
सदसदनुग्रहनिग्रह- -गृहीतमुनिविग्रहो भगवान् । सर्वासामुपनिषदां दुर्वासा जयति देशिकः प्रथमः ॥ 214 ॥
इति महर्षिदुर्वासः विरचितं श्रीललितास्तवरत्नम् ।
Browse Related Categories: