Sri Rama · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अयोध्यापुरनेतारं मिथिलापुरनायिकाम् । राघवाणामलंकारं वैदेहानामलंक्रियाम् ॥ 1 ॥
रघूणां कुलदीपं च निमीनां कुलदीपिकाम् । सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥ 2 ॥
पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः । वशिष्ठानुमताचारं शतानंदमतानुगाम् ॥ 3 ॥
कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् । पुंडरीकविशालाक्षं स्फुरदिंदीवरेक्षणाम् ॥ 4 ॥
चंद्रकांताननांभोजं चंद्रबिंबोपमाननाम् । मत्तमातंगगमनं मत्तहंसवधूगताम् ॥ 5 ॥
चंदनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम् । चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम् ॥ 6 ॥
शरणागतगोप्तारं प्रणिपादप्रसादिकाम् । कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ॥ 7 ॥
दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् । अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ ॥ 8 ॥
अन्योन्यसदृशाकारौ त्रैलोक्यगृहदंपती। इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः । तस्य तौ तनुतां पुण्याः संपदः सकलार्थदाः ॥ 10 ॥
एवं श्रीरामचंद्रस्य जानक्याश्च विशेषतः । कृतं हनूमता पुण्यं स्तोत्रं सद्यो विमुक्तिदम् । यः पठेत्प्रातरुत्थाय सर्वान् कामानवाप्नुयात् ॥ 11 ॥
इति हनूमत्कृत-सीताराम स्तोत्रं संपूर्णम् ॥
Browse Related Categories: