Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्री शिव उवाच
तारिणी तरला तन्वी तारा तरुणवल्लरी । ताररूपा तरी श्यामा तनुक्षीणपयोधरा ॥ 1
Offered for worship and study, not as prediction. Non-commercial.
तुरीया तरुणा तीव्रगमना नीलवाहिनी । उग्रतारा जया चंडी श्रीमदेकजटाशिरा ॥ 2 ॥
तरुणी शांभवी छिन्नफाला स्याद्भद्रदायिनी । उग्रा उग्रप्रभा नीला कृष्णा नीलसरस्वती ॥ 3 ॥
द्वितीया शोभना नित्या नवीना नित्यभीषणा । चंडिका विजयाराध्या देवी गगनवाहिनी ॥ 4 ॥
अट्टहासा करालास्या चरास्यादीशपूजिता । सगुणाऽसगुणाऽराध्या हरींद्रादिप्रपूजिता ॥ 5 ॥
रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता । बलिप्रिया बलिरता दुर्गा बलवती बला ॥ 6 ॥
बलप्रिया बलरता बलरामप्रपूजिता । अर्धकेशेश्वरी केशा केशवा स्रग्विभूषिता ॥ 7 ॥
पद्ममाला च पद्माक्षी कामाख्या गिरिनंदिनी । दक्षिणा चैव दक्षा च दक्षजा दक्षिणेरता ॥ 8 ॥
वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता । माहेश्वरी महादेवप्रिया पन्नगभूषिता ॥ 9 ॥
इडा च पिंगला चैव सुषुम्नाप्राणरूपिणी । गांधारी पंचमी पंचाननादिपरिपूजिता ॥ 10 ॥
तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी । तत्त्वरूपा तत्त्वप्रिया तत्त्वज्ञानात्मिकाऽनघा ॥ 11 ॥
तांडवाचारसंतुष्टा तांडवप्रियकारिणी । तालनादरता क्रूरतापिनी तरणिप्रभा ॥ 12 ॥
त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी । तारुण्यभावसंतुष्टा शक्ति-र्भक्तानुरागिणी ॥ 13 ॥
शिवासक्ता शिवरतिः शिवभक्तिपरायणा । ताम्रद्युति-स्ताम्ररागा ताम्रपात्रप्रभोजिनी ॥ 14 ॥
बलभद्रप्रेमरता बलिभु-ग्बलिकल्पनी । रामप्रिया रामशक्ती रामरूपानुकारिणी ॥ 15 ॥
इत्येतत्कथितं देवि रहस्यं परमाद्भुतम् । श्रुत्वामोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ 16 ॥
य इदं पठति स्तोत्रं तारास्तुतिरहस्यजम् । सर्वसिद्धियुतो भूत्वा विहरेत् क्षिति मंडले ॥ 17 ॥
तस्यैव मंत्रसिद्धिः स्यान्मयि भक्तिरनुत्तमा । भवत्येव महामाये सत्यं सत्यं न संशयः ॥ 18 ॥
मंदे मंगलवारे च यः पठेन्निशि संयुतः । तस्यैव मंत्रसिद्धिस्स्याद्गाणापत्यं लभेत सः ॥ 19 ॥
श्रद्धयाऽश्रद्धया वाऽपि पठेत्तारा रहस्यकम् । सोऽचिरेणैवकालेन जीवन्मुक्तश्शिवो भवेत् ॥ 20 ॥
सहस्रावर्तनाद्देवि पुरश्चर्याफलं लभेत् । एवं सततयुक्ता ये ध्यायंतस्त्वामुपासते ॥ 21 ॥
ते कृतार्था महेशानि मृत्युसंसारवर्त्मनः ॥ 22 ॥
इति श्री स्वर्णमालातंत्रे तारांबाष्टोत्तरशतनाम स्तोत्रम् ।
Browse Related Categories: