Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अस्य श्री सूर्य सहस्रनाम स्तोत्रस्य वेदव्यास ऋषिः अनुष्टुप्छंदः सविता देवता सर्वाभीष्ट सिद्ध्यर्थे जपे विनियोगः ।
ध्यानम् । ध्येयः सदा सवितृमंडलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुंडलवान् किरीटी हारी हिरण्मयवपुर्धृतशंखचक्रः ॥
स्तोत्रम् । ॐ विश्वविद्विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः । विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेंद्रियः ॥ 1 ॥
कालाश्रयः कालकर्ता कालहा कालनाशनः । महायोगी महासिद्धिर्महात्मा सुमहाबलः ॥ 2 ॥
प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः । भूतभव्यो भावितात्मा भूतांतःकरणं शिवः ॥ 3 ॥
शरण्यः कमलानंदो नंदनो नंदवर्धनः । वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥ 4 ॥
प्राप्तयानः परप्राणः पूतात्मा प्रियतः प्रियः । [प्रयतः] नयः सहस्रपात् साधुर्दिव्यकुंडलमंडितः ॥ 5 ॥
अव्यंगधारी धीरात्मा सविता वायुवाहनः । समाहितमतिर्दाता विधाता कृतमंगलः ॥ 6 ॥
कपर्दी कल्पपाद्रुद्रः सुमना धर्मवत्सलः । समायुक्तो विमुक्तात्मा कृतात्मा कृतिनां वरः ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
अविचिंत्यवपुः श्रेष्ठो महायोगी महेश्वरः । कांतः कामारिरादित्यो नियतात्मा निराकुलः ॥ 8 ॥
कामः कारुणिकः कर्ता कमलाकरबोधनः । सप्तसप्तिरचिंत्यात्मा महाकारुणिकोत्तमः ॥ 9 ॥
संजीवनो जीवनाथो जयो जीवो जगत्पतिः । अयुक्तो विश्वनिलयः संविभागी वृषध्वजः ॥ 10 ॥
वृषाकपिः कल्पकर्ता कल्पांतकरणो रविः । एकचक्ररथो मौनी सुरथो रथिनां वरः ॥ 11 ॥
सक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः । दिव्यकृद्दिनकृद्देवो देवदेवो दिवस्पतिः ॥ 12 ॥
दीननाथो हरो होता दिव्यबाहुर्दिवाकरः । यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावरः ॥ 13 ॥
परापरज्ञस्तरणिरंशुमाली मनोहरः । प्राज्ञः प्राज्ञपतिः सूर्यः सविता विष्णुरंशुमान् ॥ 14 ॥
सदागतिर्गंधवहो विहितो विधिराशुगः । पतंगः पतगः स्थाणुर्विहंगो विहगो वरः ॥ 15 ॥
हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः । त्र्यंबकः सर्वदमनो भावितात्मा भिषग्वरः ॥ 16 ॥
आलोककृल्लोकनाथो लोकालोकनमस्कृतः । कालः कल्पांतको वह्निस्तपनः संप्रतापनः ॥ 17 ॥
विलोचनो विरूपाक्षः सहस्राक्षः पुरंदरः । सहस्ररश्मिर्मिहिरो विविधांबरभूषणः ॥ 18 ॥
खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः । श्रीमानशिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः ॥ 19 ॥
श्रीकंठः श्रीधरः श्रीमान् श्रीनिवासो वसुप्रदः । कामचारी महामायो महोग्रोऽविदितामयः ॥ 20 ॥
तीर्थक्रियावान् सुनयो विभक्तो भक्तवत्सलः । कीर्तिः कीर्तिकरो नित्यः कुंडली कवची रथी ॥ 21 ॥
हिरण्यरेताः सप्ताश्वः प्रयतात्मा परंतपः । बुद्धिमानमरश्रेष्ठो रोचिष्णुः पाकशासनः ॥ 22 ॥
समुद्रो धनदो धाता मांधाता कश्मलापहः । तमोघ्नो ध्वांतहा वह्निर्होताऽंतःकरणो गुहः ॥ 23 ॥
पशुमान् प्रयतानंदो भूतेशः श्रीमतां वरः । नित्योऽदितो नित्यरथः सुरेशः सुरपूजितः ॥ 24 ॥
अजितो विजितो जेता जंगमस्थावरात्मकः । जीवानंदो नित्यगामी विजेता विजयप्रदः ॥ 25 ॥
पर्जन्योऽग्निः स्थितिः स्थेयः स्थविरोऽथ निरंजनः । प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः ॥ 26 ॥
ध्रुवो मेषी महावीर्यो हंसः संसारतारकः । सृष्टिकर्ता क्रियाहेतुर्मार्तंडो मरुतां पतिः ॥ 27 ॥
मरुत्वान् दहनस्त्वष्टा भगो भर्गोऽर्यमा कपिः । वरुणेशो जगन्नाथः कृतकृत्यः सुलोचनः ॥ 28 ॥
विवस्वान् भानुमान् कार्यः कारणस्तेजसां निधिः । असंगगामी तिग्मांशुर्धर्मांशुर्दीप्तदीधितिः ॥ 29 ॥
सहस्रदीधितिर्ब्रध्नः सहस्रांशुर्दिवाकरः । गभस्तिमान् दीधितिमान् स्रग्वी मणिकुलद्युतिः ॥ 30 ॥
भास्करः सुरकार्यज्ञः सर्वज्ञस्तीक्ष्णदीधितिः । सुरज्येष्ठः सुरपतिर्बहुज्ञो वचसां पतिः ॥ 31 ॥
तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः । अहिमानूर्जितो धीमानामुक्तः कीर्तिवर्धनः ॥ 32 ॥
महावैद्यो गणपतिर्धनेशो गणनायकः । तीव्रप्रतापनस्तापी तापनो विश्वतापनः ॥ 33 ॥
कार्तस्वरो हृषीकेशः पद्मानंदोऽतिनंदितः । पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः ॥ 34 ॥
अनाद्यंतोऽच्युतो विश्वो विश्वामित्रो घृणिर्विराट् । आमुक्तकवचो वाग्मी कंचुकी विश्वभावनः ॥ 35 ॥
अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः । विगाही वेणुरसहः समायुक्तः समाक्रतुः ॥ 36 ॥
धर्मकेतुर्धर्मरतिः संहर्ता संयमो यमः । प्रणतार्तिहरो वायुः सिद्धकार्यो जनेश्वरः ॥ 37 ॥
नभो विगाहनः सत्यः सवितात्मा मनोहरः । हारी हरिर्हरो वायुरृतुः कालानलद्युतिः ॥ 38 ॥
सुखसेव्यो महातेजा जगतामेककारणम् । महेंद्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः ॥ 39 ॥
सहस्रकर आयुष्मान् अरोषः सुखदः सुखी । व्याधिहा सुखदः सौख्यं कल्याणः कलतां वरः ॥ 40 ॥
आरोग्यकारणं सिद्धिरृद्धिर्वृद्धिर्बृहस्पतिः । हिरण्यरेता आरोग्यं विद्वान् ब्रध्नो बुधो महान् ॥ 41 ॥
प्राणवान् धृतिमान् घर्मो घर्मकर्ता रुचिप्रदः । सर्वप्रियः सर्वसहः सर्वशत्रुविनाशनः ॥ 42 ॥
प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृती । केयूरी भूषणोद्भासी भासितो भासनोऽनलः ॥ 43 ॥
शरण्यार्तिहरो होता खद्योतः खगसत्तमः । सर्वद्योतो भवद्योतः सर्वद्युतिकरो मतः ॥ 44 ॥
कल्याणः कल्याणकरः कल्यः कल्यकरः कविः । कल्याणकृत् कल्यवपुः सर्वकल्याणभाजनम् ॥ 45 ॥
शांतिप्रियः प्रसन्नात्मा प्रशांतः प्रशमप्रियः । उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः ॥ 46 ॥
वर्चस्वी वर्चसामीशस्त्रैलोक्येशो वशानुगः । तेजस्वी सुयशा वर्ष्मी वर्णाध्यक्षो बलिप्रियः ॥ 47 ॥
यशस्वी तेजोनिलयस्तेजस्वी प्रकृतिस्थितः । आकाशगः शीघ्रगतिराशुगो गतिमान् खगः ॥ 48 ॥
गोपतिर्ग्रहदेवेशो गोमानेकः प्रभंजनः । जनिता प्रजनो जीवो दीपः सर्वप्रकाशकः ॥ 49 ॥
सर्वसाक्षी योगनित्यो नभस्वानसुरांतकः । रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः ॥ 50 ॥
मरीचिमाली सुमतिः कृताभिख्यविशेषकः । शिष्टाचारः शुभाचारः स्वचाराचारतत्परः ॥ 51 ॥
मंदारो माठरो वेणुः क्षुधापः क्ष्मापतिर्गुरुः । सुविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः ॥ 52 ॥
महाश्वेतः प्रियो ज्ञेयः सामगो मोक्षदायकः । सर्ववेदप्रगीतात्मा सर्ववेदलयो महान् ॥ 53 ॥
वेदमूर्तिश्चतुर्वेदो वेदभृद्वेदपारगः । क्रियावानसितो जिष्णुर्वरीयांशुर्वरप्रदः ॥ 54 ॥
व्रतचारी व्रतधरो लोकबंधुरलंकृतः । अलंकाराक्षरो वेद्यो विद्यावान् विदिताशयः ॥ 55 ॥
आकारो भूषणो भूष्यो भूष्णुर्भुवनपूजितः । चक्रपाणिर्ध्वजधरः सुरेशो लोकवत्सलः ॥ 56 ॥
वाग्मिपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः । अंधकारापहः श्रेष्ठो युगावर्तो युगादिकृत् ॥ 57 ॥
अप्रमेयः सदायोगी निरहंकार ईश्वरः । शुभप्रदः शुभः शास्ता शुभकर्मा शुभप्रदः ॥ 58 ॥
सत्यवान् श्रुतिमानुच्चैर्नकारो वृद्धिदोऽनलः । बलभृद्बलदो बंधुर्मतिमान् बलिनां वरः ॥ 59 ॥
अनंगो नागराजेंद्रः पद्मयोनिर्गणेश्वरः । संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः ॥ 60 ॥
पद्मेक्षणः पद्मयोनिः प्रभावानमरः प्रभुः । सुमूर्तिः सुमतिः सोमो गोविंदो जगदादिजः ॥ 61 ॥
पीतवासाः कृष्णवासा दिग्वासास्त्विंद्रियातिगः । अतींद्रियोऽनेकरूपः स्कंदः परपुरंजयः ॥ 62 ॥
शक्तिमान् जलधृग्भास्वान् मोक्षहेतुरयोनिजः । सर्वदर्शी जितादर्शो दुःस्वप्नाशुभनाशनः ॥ 63 ॥
मांगल्यकर्ता तरणिर्वेगवान् कश्मलापहः । स्पष्टाक्षरो महामंत्रो विशाखो यजनप्रियः ॥ 64 ॥
विश्वकर्मा महाशक्तिर्द्युतिरीशो विहंगमः । विचक्षणो दक्ष इंद्रः प्रत्यूषः प्रियदर्शनः ॥ 65 ॥
अखिन्नो वेदनिलयो वेदविद्विदिताशयः । प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः ॥ 66 ॥
कुनाशी सुरतः स्कंदो महितोऽभिमतो गुरुः । ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमंडलः ॥ 67 ॥
भास्करः सततानंदो नंदनो नरवाहनः । मंगलोऽथ मंगलवान् मांगल्यो मंगलावहः ॥ 68 ॥
मंगल्यचारुचरितः शीर्णः सर्वव्रतो व्रती । चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा ॥ 69 ॥
अकिंचनः सतामीशो निर्गुणो गुणवांछुचिः । संपूर्णः पुंडरीकाक्षो विधेयो योगतत्परः ॥ 70 ॥
सहस्रांशुः क्रतुमतिः सर्वज्ञः सुमतिः सुवाक् । सुवाहनो माल्यदामा कृताहारो हरिप्रियः ॥ 71 ॥
ब्रह्मा प्रचेताः प्रथितः प्रयतात्मा स्थिरात्मकः । शतविंदुः शतमुखो गरीयाननलप्रभः ॥ 72 ॥
धीरो महत्तरो विप्रः पुराणपुरुषोत्तमः । विद्याराजाधिराजो हि विद्यावान् भूतिदः स्थितः ॥ 73 ॥
अनिर्देश्यवपुः श्रीमान् विपाप्मा बहुमंगलः । स्वःस्थितः सुरथः स्वर्णो मोक्षदो बलिकेतनः ॥ 74 ॥
निर्द्वंद्वो द्वंद्वहा स्वर्गः सर्वगः संप्रकाशकः । दयालुः सूक्ष्मधीः क्षांतिः क्षेमाक्षेमस्थितिप्रियः ॥ 75 ॥
भूधरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः । महावराहः प्रियकृद्दाता भोक्ताऽभयप्रदः ॥ 76 ॥
चक्रवर्ती धृतिकरः संपूर्णोऽथ महेश्वरः । चतुर्वेदधरोऽचिंत्यो विनिंद्यो विविधाशनः ॥ 77 ॥
विचित्ररथ एकाकी सप्तसप्तिः परात्परः । सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः ॥ 78 ॥
निष्कलः पुष्कलो विभुर्वसुमान् वासवप्रियः । पशुमान् वासवस्वामी वसुधामा वसुप्रदः ॥ 79 ॥
बलवान् ज्ञानवांस्तत्त्वमोंकारस्त्रिषुसंस्थितः । संकल्पयोनिर्दिनकृद्भगवान् कारणापहः ॥ 80 ॥
नीलकंठो धनाध्यक्षश्चतुर्वेदप्रियंवदः । वषट्कारोद्गाता होता स्वाहाकारो हुताहुतिः ॥ 81 ॥
जनार्दनो जनानंदो नरो नारायणोऽंबुदः । संदेहनाशनो वायुर्धन्वी सुरनमस्कृतः ॥ 82 ॥
विग्रही विमलो विंदुर्विशोको विमलद्युतिः । द्युतिमान् द्योतनो विद्युद्विद्यावान् विदितो बली ॥ 83 ॥
घर्मदो हिमदो हासः कृष्णवर्त्मा सुताजितः । सावित्रीभावितो राजा विश्वामित्रो घृणिर्विराट् ॥ 84 ॥
सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः । संपूर्णोऽथ जगन्नाथः सुमनाः शोभनप्रियः ॥ 85 ॥
सर्वात्मा सर्वकृत् सृष्टिः सप्तिमान् सप्तमीप्रियः । सुमेधा मेधिको मेध्यो मेधावी मधुसूदनः ॥ 86 ॥
अंगिरःपतिः कालज्ञो धूमकेतुः सुकेतनः । सुखी सुखप्रदः सौख्यः कांतिः कांतिप्रियो मुनिः ॥ 87 ॥
संतापनः संतपन आतपस्तपसां पतिः । उमापतिः सहस्रांशुः प्रियकारी प्रियंकरः ॥ 88 ॥
प्रीतिर्विमन्युरंभोत्थः खंजनो जगतां पतिः । जगत्पिता प्रीतमनाः सर्वः खर्वो गुहोऽचलः ॥ 89 ॥
सर्वगो जगदानंदो जगन्नेता सुरारिहा । श्रेयः श्रेयस्करो ज्यायान् महानुत्तम उद्भवः ॥ 90 ॥
उत्तमो मेरुमेयोऽथ धरणो धरणीधरः । धराध्यक्षो धर्मराजो धर्माधर्मप्रवर्तकः ॥ 91 ॥
रथाध्यक्षो रथगतिस्तरुणस्तनितोऽनलः । उत्तरोऽनुत्तरस्तापी अवाक्पतिरपां पतिः ॥ 92 ॥
पुण्यसंकीर्तनः पुण्यो हेतुर्लोकत्रयाश्रयः । स्वर्भानुर्विगतानंदो विशिष्टोत्कृष्टकर्मकृत् ॥ 93 ॥
व्याधिप्रणाशनः क्षेमः शूरः सर्वजितां वरः । एकरथो रथाधीशः पिता शनैश्चरस्य हि ॥ 94 ॥
वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रतः । प्रलंबहारसंचारी प्रद्योतो द्योतितानलः ॥ 95 ॥
संतापहृत् परो मंत्रो मंत्रमूर्तिर्महाबलः । श्रेष्ठात्मा सुप्रियः शंभुर्मरुतामीश्वरेश्वरः ॥ 96 ॥
संसारगतिविच्चेत्ता संसारार्णवतारकः । सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः ॥ 97 ॥
धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः । लोकसाक्षी लोकगुरुर्लोकेशश्चंडवाहनः ॥ 98 ॥
धर्मयूपो यूपवृक्षो धनुष्पाणिर्धनुर्धरः । पिनाकधृङ्महोत्साहो महामायो महाशनः ॥ 99 ॥
वीरः शक्तिमतां श्रेष्ठः सर्वशस्त्रभृतां वरः । ज्ञानगम्यो दुराराध्यो लोहितांगो विवर्धनः ॥ 100 ॥
खगोऽंधो धर्मदो नित्यो धर्मकृच्चित्रविक्रमः । भगवानात्मवान् मंत्रस्त्र्यक्षरो नीललोहितः ॥ 101 ॥
एकोऽनेकस्त्रयी कालः सविता समितिंजयः । शार्ङ्गधन्वाऽनलो भीमः सर्वप्रहरणायुधः ॥ 102 ॥
सुकर्मा परमेष्ठी च नाकपाली दिविस्थितः । वदान्यो वासुकिर्वैद्य आत्रेयोऽथ पराक्रमः ॥ 103 ॥
द्वापरः परमोदारः परमो ब्रह्मचर्यवान् । उदीच्यवेषो मुकुटी पद्महस्तो हिमांशुभृत् ॥ 104 ॥
सितः प्रसन्नवदनः पद्मोदरनिभाननः । सायं दिवा दिव्यवपुरनिर्देश्यो महालयः ॥ 105 ॥
महारथो महानीशः शेषः सत्त्वरजस्तमः । धृतातपत्रप्रतिमो विमर्षी निर्णयः स्थितः ॥ 106 ॥
अहिंसकः शुद्धमतिरद्वितीयो विवर्धनः । सर्वदो धनदो मोक्षो विहारी बहुदायकः ॥ 107 ॥
चारुरात्रिहरो नाथो भगवान् सर्वगोऽव्ययः । मनोहरवपुः शुभ्रः शोभनः सुप्रभावनः ॥ 108 ॥
सुप्रभावः सुप्रतापः सुनेत्रो दिग्विदिक्पतिः । राज्ञीप्रियः शब्दकरो ग्रहेशस्तिमिरापहः ॥ 109 ॥
सैंहिकेयरिपुर्देवो वरदो वरनायकः । चतुर्भुजो महायोगी योगीश्वरपतिस्तथा ॥ 110 ॥
अनादिरूपोऽदितिजो रत्नकांतिः प्रभामयः । जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमंडलः ॥ 111 ॥
एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् । निरालंबो गगनगो धर्मकर्मप्रभावकृत् ॥ 112 ॥
धर्मात्मा कर्मणां साक्षी प्रत्यक्षः परमेश्वरः । मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ 113 ॥
आधारभूतो रतिमांस्तथा च धनधान्यकृत् । पापसंतापहर्ता च मनोवांछितदायकः ॥ 114 ॥
रोगहर्ता राज्यदायी रमणीयगुणोऽनृणी । कालत्रयानंतरूपो मुनिवृंदनमस्कृतः ॥ 115 ॥
संध्यारागकरः सिद्धः संध्यावंदनवंदितः । साम्राज्यदाननिरतः समाराधनतोषवान् ॥ 116 ॥
भक्तदुःखक्षयकरो भवसागरतारकः । भयापहर्ता भगवानप्रमेयपराक्रमः । मनुस्वामी मनुपतिर्मान्यो मन्वंतराधिपः ॥ 117 ॥
फलश्रुतिः । एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । नाम्नां सहस्रं सवितुः पराशर्यो यदाह मे ॥ 1 ॥
धन्यं यशस्यमायुष्यं दुःखदुःस्वप्ननाशनम् । बंधमोक्षकरं चैव भानोर्नामानुकीर्तनात् ॥ 2 ॥
यस्त्विदं शृणुयान्नित्यं पठेद्वा प्रयतो नरः । अक्षयं सुखमन्नाद्यं भवेत्तस्योपसाधितम् ॥ 3 ॥
नृपाग्नितस्करभयं व्याधितो न भयं भवेत् । विजयी च भवेन्नित्यमाश्रयं परमाप्नुयात् ॥ 4 ॥
कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शनः । जीवेद्वर्षशतायुश्च सर्वव्याधिविवर्जितः ॥ 5 ॥
नाम्नां सहस्रमिदमंशुमतः पठेद्यः प्रातः शुचिर्नियमवान् सुसमृद्धियुक्तः । दूरेण तं परिहरंति सदैव रोगाः भूताः सुपर्णमिव सर्वमहोरगेंद्राः ॥ 6 ॥
इति श्री भविष्यपुराणे सप्तमकल्पे श्रीभगवत्सूर्यस्य सहस्रनामस्तोत्रं संपूर्णम् ॥
Browse Related Categories: