Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिका वल्लभं जानकीनायकं रामचंद्रं भजे ॥ 1 ॥
अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिका राधितम् । इंदिरामंदिरं चेतसा सुंदरं देवकीनंदनं नंदजं संदधे ॥ 2 ॥ [पल्लवि..]
विष्णवे जिष्णवे शंकने चक्रिणे रुक्मिणी रागिणे जानकी जानये । वल्लवी वल्लभायार्चिता यात्मने कंस विध्वंसिने वंशिने ते नमः ॥ 3 ॥
कृष्ण गोविंद हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानंत हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ 4 ॥
राक्षस क्षोभितः सीतया शोभितो दंडकारण्यभू पुण्यताकारणः । लक्ष्मणोनान्वितो वानरैः सेवितो अगस्त्य संपूजितो राघवः पातु माम् ॥ 5 ॥ [पल्लवि..]
धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां केशिहा कंसहृद्वण्शिकावादकः । पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा ॥ 6 ॥
विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडंभोदवत्प्रोल्लसद्विग्रहम् । वन्यया मालया शोभितोरःस्थलं लोहितांघ्रिद्वयं वारिजाक्षं भजे ॥ 7॥
कुंचितैः कुंतलै भ्राजमानाननं रत्नमौलिं लसत्-कुंडलं गंडयोः । हारकेयूरकं कंकण प्रोज्ज्वलं किंकिणी मंजुलं श्यामलं तं भजे ॥ 8 ॥ [पल्लवि..]
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् । वृत्ततः सुंदरं कर्तृ विश्वंभरः तस्य वश्यो हरि र्जायते सत्वरम् ॥ अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिका वल्लभं जानकीनायकं रामचंद्रं भजे ॥ 1 । ॥ इति श्रीशंकराचार्यविरचितमच्युताष्टकं संपूर्णम् ॥
Browse Related Categories: