Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
यामामनंति मुनयः प्रकृतिं पुराणीं विद्येति यां श्रुतिरहस्यविदो वदंति । तामर्धपल्लवितशंकररूपमुद्रां देवीमनन्यशरणः शरणं प्रपद्ये ॥ 1 ॥
अंब स्तवेषु तव तावदकर्तृकाणि कुंठीभवंति वचसामपि गुंभनानि । डिंभस्य मे स्तुतिरसावसमंजसापि वात्सल्यनिघ्नहृदयां भवतीं धिनोतु ॥ 2 ॥
व्योमेति बिंदुरिति नाद इतींदुलेखा- -रूपेति वाग्भवतनूरिति मातृकेति । निःस्यंदमानसुखबोधसुधास्वरूपा विद्योतसे मनसि भाग्यवतां जनानाम् ॥ 3 ॥
आविर्भवत्पुलकसंततिभिः शरीरै- -र्निःस्यंदमानसलिलैर्नयनैश्च नित्यम् । वाग्भिश्च गद्गदपदाभिरुपासते ये पादौ तवांब भुवनेषु त एव धन्याः ॥ 4 ॥
वक्त्रं यदुद्यतमभिष्टुतये भवत्या- -स्तुभ्यं नमो यदपि देवि शिरः करोति । चेतश्च यत्त्वयि परायणमंब तानि कस्यापि कैरपि भवंति तपोविशेषैः ॥ 5 ॥
मूलालवालकुहरादुदिता भवानि निर्भिद्य षट्सरसिजानि तटिल्लतेव । भूयोऽपि तत्र विशसि ध्रुवमंडलेंदु- -निःस्यंदमानपरमामृततोयरूपा ॥ 6 ॥
दग्धं यदा मदनमेकमनेकधा ते मुग्धः कटाक्षविधिरंकुरयांचकार । धत्ते तदाप्रभृति देवि ललाटनेत्रं सत्यं ह्रियैव मुकुलीकृतमिंदुमौलेः ॥ 7 ॥
अज्ञातसंभवमनाकलितान्ववायं भिक्षुं कपालिनमवाससमद्वितीयम् । पूर्वं करग्रहणमंगलतो भवत्याः शंभुं क एव बुबुधे गिरिराजकन्ये ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
चर्मांबरं च शवभस्मविलेपनं च भिक्षाटनं च नटनं च परेतभूमौ । वेतालसंहतिपरिग्रहता च शंभोः शोभां बिभर्ति गिरिजे तव साहचर्यात् ॥ 9 ॥
कल्पोपसंहरणकेलिषु पंडितानि चंडानि खंडपरशोरपि तांडवानि । आलोकनेन तव कोमलितानि मात- -र्लास्यात्मना परिणमंति जगद्विभूत्यै ॥ 10 ॥
जंतोरपश्चिमतनोः सति कर्मसाम्ये निःशेषपाशपटलच्छिदुरा निमेषात् । कल्याणि देशिककटाक्षसमाश्रयेण कारुण्यतो भवति शांभववेददीक्षा ॥ 11 ॥
मुक्ताविभूषणवती नवविद्रुमाभा यच्चेतसि स्फुरसि तारकितेव संध्या । एकः स एव भुवनत्रयसुंदरीणां कंदर्पतां व्रजति पंचशरीं विनापि ॥ 12 ॥
ये भावयंत्यमृतवाहिभिरंशुजालै- -राप्यायमानभुवनाममृतेश्वरीं त्वाम् । ते लंघयंति ननु मातरलंघनीयां ब्रह्मादिभिः सुरवरैरपि कालकक्षाम् ॥ 13 ॥
यः स्फाटिकाक्षगुणपुस्तककुंडिकाढ्यां व्याख्यासमुद्यतकरां शरदिंदुशुभ्राम् । पद्मासनां च हृदये भवतीमुपास्ते मातः स विश्वकवितार्किकचक्रवर्ती ॥ 14 ॥
बर्हावतंसयुतबर्बरकेशपाशां गुंजावलीकृतघनस्तनहारशोभाम् । श्यामां प्रवालवदनां सुकुमारहस्तां त्वामेव नौमि शबरीं शबरस्य जायाम् ॥ 15 ॥
अर्धेन किं नवलताललितेन मुग्धे क्रीतं विभोः परुषमर्धमिदं त्वयेति । आलीजनस्य परिहासवचांसि मन्ये मंदस्मितेन तव देवि जडी भवंति ॥ 16 ॥
ब्रह्मांड बुद्बुदकदंबकसंकुलोऽयं मायोदधिर्विविधदुःखतरंगमालः । आश्चर्यमंब झटिति प्रलयं प्रयाति त्वद्ध्यानसंततिमहाबडबामुखाग्नौ ॥ 17 ॥
दाक्षायणीति कुटिलेति कुहारिणीति कात्यायनीति कमलेति कलावतीति । एका सती भगवती परमार्थतोऽपि संदृश्यसे बहुविधा ननु नर्तकीव ॥ 18 ॥
आनंदलक्षणमनाहतनाम्नि देशे नादात्मना परिणतं तव रूपमीशे । प्रत्यङ्मुखेन मनसा परिचीयमानं शंसंति नेत्रसलिलैः पुलकैश्च धन्याः ॥ 19 ॥
त्वं चंद्रिका शशिनि तिग्मरुचौ रुचिस्त्वं त्वं चेतनासि पुरुषे पवने बलं त्वम् । त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा निःसारमेव निखिलं त्वदृते यदि स्यात् ॥ 20 ॥
ज्योतींषि यद्दिवि चरंति यदंतरिक्षं सूते पयांसि यदहिर्धरणीं च धत्ते । यद्वाति वायुरनलो यदुदर्चिरास्ते तत्सर्वमंब तव केवलमाज्ञयैव ॥ 21 ॥
संकोचमिच्छसि यदा गिरिजे तदानीं वाक्तर्कयोस्त्वमसि भूमिरनामरूपा । यद्वा विकासमुपयासि यदा तदानीं त्वन्नामरूपगणनाः सुकरा भवंति ॥ 22 ॥
भोगाय देवि भवतीं कृतिनः प्रणम्य भ्रूकिंकरीकृतसरोजगृहाः सहस्रम् । चिंतामणिप्रचयकल्पितकेलिशैले कल्पद्रुमोपवन एव चिरं रमंते ॥ 23 ॥
हर्तुं त्वमेव भवसि त्वदधीनमीशे संसारतापमखिलं दयया पशूनाम् । वैकर्तनी किरणसंहतिरेव शक्ता धर्मं निजं शमयितुं निजयैव वृष्ट्या ॥ 24 ॥
शक्तिः शरीरमधिदैवतमंतरात्मा ज्ञानं क्रिया करणमासनजालमिच्छा । ऐश्वर्यमायतनमावरणानि च त्वं किं तन्न यद्भवसि देवि शशांकमौलेः ॥ 25 ॥
भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा विद्याऽनले मरुति शांतिरतीवकांतिः । व्योम्नीति याः किल कलाः कलयंति विश्वं तासां हि दूरतरमंब पदं त्वदीयम् ॥ 26 ॥
यावत्पदं पदसरोजयुगं त्वदीयं नांगीकरोति हृदयेषु जगच्छरण्ये । तावद्विकल्पजटिलाः कुटिलप्रकारा- -स्तर्कग्रहाः समयिनां प्रलयं न यांति ॥ 27 ॥
निर्देवयानपितृयानविहारमेके कृत्वा मनः करणमंडलसार्वभौमम् । ध्याने निवेश्य तव कारणपंचकस्य पर्वाणि पार्वति नयंति निजासनत्वम् ॥ 28 ॥
स्थूलासु मूर्तिषु महीप्रमुखासु मूर्तेः कस्याश्चनापि तव वैभवमंब यस्याः । पत्या गिरामपि न शक्यत एव वक्तुं सापि स्तुता किल मयेति तितिक्षितव्यम् ॥ 29 ॥
कालाग्निकोटिरुचिमंब षडध्वशुद्धौ आप्लावनेषु भवतीममृतौघवृष्टिम् । श्यामां घनस्तनतटां शकलीकृताघां ध्यायंत एव जगतां गुरवो भवंति ॥ 30 ॥
विद्यां परां कतिचिदंबरमंब केचि- -दानंदमेव कतिचित्कतिचिच्च मायाम् । त्वां विश्वमाहुरपरे वयमामनामः साक्षादपारकरुणां गुरुमूर्तिमेव ॥ 31 ॥
कुवलयदलनीलं बर्बरस्निग्धकेशं पृथुतरकुचभाराक्रांतकांतावलग्नम् । किमिह बहुभिरुक्तैस्त्वत्स्वरूपं परं नः सकलजननि मातः संततं सन्निधत्ताम् ॥ 32 ॥
इति श्रीकालिदास विरचित पंचस्तव्यां चतुर्थः अंबास्तवः ।
Browse Related Categories: