Pancha Ratna Stotras · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् । पार्वती हृदयानंदं शास्तारं प्रणमाम्यहम् ॥ 1 ॥
विप्रपूज्यं विश्ववंद्यं विष्णुशंभोः प्रियं सुतम् । क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ 2 ॥
मत्तमातंगगमनं कारुण्यामृतपूरितम् । सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ 3 ॥
अस्मत्कुलेश्वरं देवम्-अस्मच्छत्रु विनाशनम् । अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ 4 ॥
पांड्येशवंशतिलकं केरले केलिविग्रहम् । आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ 5 ॥
पंचरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः । तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥
इति श्री शास्ता पंचरत्नम् ।
——
अथ शास्ता नमस्कार श्लोकाः ।
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
त्रयंबकपुराधीशं गणाधिपसमन्वितम् । गजारूढमहं वंदे शास्तारं प्रणमाम्यहम् ॥ 1 ॥
शिववीर्यसमुद्भूतं श्रीनिवासतनूद्भवम् । शिखिवाहानुजं वंदे शास्तारं प्रणमाम्यहम् ॥ 2 ॥
यस्य धन्वंतरिर्माता पिता देवो महेश्वरः । तं शास्तारमहं वंदे महारोगनिवारणम् ॥ 3 ॥
भूतनाथ सदानंद सर्वभूतदयापर । रक्ष रक्ष महाबाहो शास्त्रे तुभ्यं नमो नमः ॥ 4 ॥
Browse Related Categories: