Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रीमान् शशधरश्चंद्रो ताराधीशो निशाकरः । सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ 1 ॥
जितेंद्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः । विकर्तनानुजो वीरो विश्वेशो विदुषां पतिः ॥ 2 ॥
दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः । अष्टमूर्तिप्रियोऽनंतकष्टदारुकुठारकः ॥ 3 ॥
स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः । कलाधरः कालहेतुः कामकृत्कामदायकः ॥ 4 ॥
मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः । क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ॥ 5 ॥
जैवातृकः शुची शुभ्रो जयी जयफलप्रदः । सुधामयः सुरस्वामी भक्तनामिष्टदायकः ॥ 6 ॥
भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभंजकः । सामगानप्रियः सर्वरक्षकः सागरोद्भवः ॥ 7 ॥
भयांतकृद्भक्तिगम्यो भवबंधविमोचकः । जगत्प्रकाशकिरणो जगदानंदकारणः ॥ 8 ॥
निस्सपत्नो निराहारो निर्विकारो निरामयः । भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
सकलार्तिहरः सौम्यजनकः साधुवंदितः । सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः ॥ 10 ॥
सितच्छत्रध्वजोपेतः सितांगो सितभूषणः । श्वेतमाल्यांबरधरः श्वेतगंधानुलेपनः ॥ 11 ॥
दशाश्वरथसंरूढो दंडपाणिः धनुर्धरः । कुंदपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः ॥ 12 ॥
आत्रेयगोत्रजोऽत्यंतविनयः प्रियदायकः । करुणारससंपूर्णः कर्कटप्रभुरव्ययः ॥ 13 ॥
चतुरश्रासनारूढश्चतुरो दिव्यवाहनः । विवस्वन्मंडलाग्नेयवासो वसुसमृद्धिदः ॥ 14 ॥
महेश्वरप्रियो दांतः मेरुगोत्रप्रदक्षिणः । ग्रहमंडलमध्यस्थो ग्रसितार्को ग्रहाधिपः ॥ 15 ॥
द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः । औदुंबरनगावास उदारो रोहिणीपतिः ॥ 16 ॥
नित्योदयो मुनिस्तुत्यो नित्यानंदफलप्रदः । सकलाह्लादनकरः पलाशसमिधप्रियः ॥ 17 ॥
एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम् ॥
इति श्री चंद्र अष्टोत्तरशतनाम स्तोत्रम् ।
Browse Related Categories: