Vedic · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं-वेँत्थ ब्रह्मणो रूपम् । यदस्य त्वं-यँदस्य देवेष्वथ नु मीमाम्स्यमेव ते मन्ये विदितम् ॥ 1॥
नाहं मन्ये सुवेदेति नो न वेदेति वेद च । यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ 2॥
यस्यामतं तस्य मतं मतं-यँस्य न वेद सः । अविज्ञातं-विँजानतां-विँज्ञातमविजानताम् ॥ 3॥
प्रतिबोधविदितं मतममृतत्वं हि विंदते । आत्मना विंदते वीर्यं-विँद्यया विंदतेऽमृतम् ॥ 4॥
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवंति ॥ 5॥
॥ इति केनोपनिषदि द्वितीयः खंडः ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.