Kanda 5 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) हिर॑ण्यवर्णा॒-श्शुच॑य॒-श्शुच॑यो॒ हिर॑ण्यवर्णा॒ हिर॑ण्यवर्णा॒-श्शुच॑यः । 1) हिर॑ण्यवर्णा॒ इति॒ हिर॑ण्य - व॒र्णाः॒ । 2) शुच॑यः पाव॒काः पा॑व॒का-श्शुच॑य॒-श्शुच॑यः पाव॒काः । 3) पा॒व॒का यासु॒ यासु॑ पाव॒काः पा॑व॒का यासु॑ । 4) यासु॑ जा॒तो जा॒तो यासु॒ यासु॑ जा॒तः । 5) जा॒तः क॒श्यपः॑ क॒श्यपो॑ जा॒तो जा॒तः क॒श्यपः॑ । 6) क॒श्यपो॒ यासु॒ यासु॑ क॒श्यपः॑ क॒श्यपो॒ यासु॑ । 7) यास्विन्द्र॒ इन्द्रो॒ यासु॒ यास्विन्द्रः॑ । 8) इन्द्र॒ इतीन्द्रः॑ । 9) अ॒ग्निं-याँ या अ॒ग्नि म॒ग्निं-याः ँ। 10) या गर्भ॒-ङ्गर्भं॒-याँ या गर्भ᳚म् । 11) गर्भ॑-न्दधि॒रे द॑धि॒रे गर्भ॒-ङ्गर्भ॑-न्दधि॒रे । 12) द॒धि॒रे विरू॑पा॒ विरू॑पा दधि॒रे द॑धि॒रे विरू॑पाः । 13) विरू॑पा॒ स्ता स्ता विरू॑पा॒ विरू॑पा॒ स्ताः । 13) विरू॑पा॒ इति॒ वि - रू॒पाः॒ । 14) ता नो॑ न॒ स्ता स्ता नः॑ । 15) न॒ आप॒ आपो॑ नो न॒ आपः॑ । 16) आप॒-श्शग्ं श माप॒ आप॒-श्शम् । 17) शग्ग् स्यो॒ना-स्स्यो॒ना-श्शग्ं शग्ग् स्यो॒नाः । 18) स्यो॒ना भ॑वन्तु भवन्तु स्यो॒ना-स्स्यो॒ना भ॑वन्तु । 19) भ॒व॒न्त्विति॑ भवन्तु । 20) यासा॒ग्ं॒ राजा॒ राजा॒ यासां॒-याँसा॒ग्ं॒ राजा᳚ । 21) राजा॒ वरु॑णो॒ वरु॑णो॒ राजा॒ राजा॒ वरु॑णः । 22) वरु॑णो॒ याति॒ याति॒ वरु॑णो॒ वरु॑णो॒ याति॑ । 23) याति॒ मद्ध्ये॒ मद्ध्ये॒ याति॒ याति॒ मद्ध्ये᳚ । 24) मद्ध्ये॑ सत्यानृ॒ते स॑त्यानृ॒ते मद्ध्ये॒ मद्ध्ये॑ सत्यानृ॒ते । 25) स॒त्या॒नृ॒ते अ॑व॒पश्य॑-न्नव॒पश्यन्᳚ थ्सत्यानृ॒ते स॑त्यानृ॒ते अ॑व॒पश्यन्न्॑ । 25) स॒त्या॒नृ॒ते इति॑ सत्य - अ॒नृ॒ते । 26) अ॒व॒पश्य॒न् जना॑ना॒-ञ्जना॑ना मव॒पश्य॑-न्नव॒पश्य॒न् जना॑नाम् । 26) अ॒व॒पश्य॒न्नित्य॑व - पश्यन्न्॑ । 27) जना॑ना॒मिति॒ जना॑नाम् । 28) म॒धु॒श्चुत॒-श्शुच॑य॒-श्शुच॑यो मधु॒श्चुतो॑ मधु॒श्चुत॒-श्शुच॑यः । 28) म॒धु॒श्चुत॒ इति॑ मधु - श्चुतः॑ । 29) शुच॑यो॒ या या-श्शुच॑य॒-श्शुच॑यो॒ याः । 30) याः पा॑व॒काः पा॑व॒का या याः पा॑व॒काः । 31) पा॒व॒का स्ता स्ताः पा॑व॒काः पा॑व॒का स्ताः । 32) ता नो॑ न॒ स्ता स्ता नः॑ । 33) न॒ आप॒ आपो॑ नो न॒ आपः॑ । 34) आप॒-श्शग्ं श माप॒ आप॒-श्शम् । 35) शग्ग् स्यो॒ना-स्स्यो॒ना-श्शग्ं शग्ग् स्यो॒नाः । 36) स्यो॒ना भ॑वन्तु भवन्तु स्यो॒ना-स्स्यो॒ना भ॑वन्तु । 37) भ॒व॒न्त्विति॑ भवन्तु । 38) यासा᳚-न्दे॒वा दे॒वा यासां॒-याँसा᳚-न्दे॒वाः । 39) दे॒वा दि॒वि दि॒वि दे॒वा दे॒वा दि॒वि । 40) दि॒वि कृ॒ण्वन्ति॑ कृ॒ण्वन्ति॑ दि॒वि दि॒वि कृ॒ण्वन्ति॑ । 41) कृ॒ण्वन्ति॑ भ॒क्ष-म्भ॒क्ष-ङ्कृ॒ण्वन्ति॑ कृ॒ण्वन्ति॑ भ॒क्षम् । 42) भ॒क्षं-याँ या भ॒क्ष-म्भ॒क्षं-याः ँ। 43) या अ॒न्तरि॑क्षे अ॒न्तरि॑क्षे॒ या या अ॒न्तरि॑क्षे । 44) अ॒न्तरि॑क्षे बहु॒धा ब॑हु॒धा ऽन्तरि॑क्षे अ॒न्तरि॑क्षे बहु॒धा । 45) ब॒हु॒धा भव॑न्ति॒ भव॑न्ति बहु॒धा ब॑हु॒धा भव॑न्ति । 45) ब॒हु॒धेति॑ बहु - धा । 46) भव॒न्त्विति॒ भव॑न्ति । 47) याः पृ॑थि॒वी-म्पृ॑थि॒वीं-याँ याः पृ॑थि॒वीम् । 48) पृ॒थि॒वी-म्पय॑सा॒ पय॑सा पृथि॒वी-म्पृ॑थि॒वी-म्पय॑सा । 49) पय॑सो॒न्द-न्त्यु॒न्दन्ति॒ पय॑सा॒ पय॑सो॒न्दन्ति॑ । 50) उ॒न्दन्ति॑ शु॒क्रा-श्शु॒क्रा उ॒न्द-न्त्यु॒न्दन्ति॑ शु॒क्राः । ॥ 1 ॥ (50/56)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) शु॒क्रा स्ता स्ता-श्शु॒क्रा-श्शु॒क्रा स्ताः । 2) ता नो॑ न॒ स्ता स्ता नः॑ । 3) न॒ आप॒ आपो॑ नो न॒ आपः॑ । 4) आप॒-श्शग्ं श माप॒ आप॒-श्शम् । 5) शग्ग् स्यो॒ना-स्स्यो॒ना-श्शग्ं शग्ग् स्यो॒नाः । 6) स्यो॒ना भ॑वन्तु भवन्तु स्यो॒ना-स्स्यो॒ना भ॑वन्तु । 7) भ॒व॒न्त्विति॑ भवन्तु । 8) शि॒वेन॑ मा मा शि॒वेन॑ शि॒वेन॑ मा । 9) मा॒ चक्षु॑षा॒ चक्षु॑षा मा मा॒ चक्षु॑षा । 10) चक्षु॑षा पश्यत पश्यत॒ चक्षु॑षा॒ चक्षु॑षा पश्यत । 11) प॒श्य॒ ता॒प॒ आ॒पः॒ प॒श्य॒त॒ प॒श्य॒ ता॒पः॒ । 12) आ॒प॒-श्शि॒वया॑ शि॒वया॑ ऽऽप आप-श्शि॒वया᳚ । 13) शि॒वया॑ त॒नुवा॑ त॒नुवा॑ शि॒वया॑ शि॒वया॑ त॒नुवा᳚ । 14) त॒नुवोपोप॑ त॒नुवा॑ त॒नुवोप॑ । 15) उप॑ स्पृशत स्पृश॒तो पोप॑ स्पृशत । 16) स्पृ॒श॒त॒ त्वच॒-न्त्वचग्ग्॑ स्पृशत स्पृशत॒ त्वच᳚म् । 17) त्वच॑-म्मे मे॒ त्वच॒-न्त्वच॑-म्मे । 18) म॒ इति॑ मे । 19) सर्वाग्ं॑ अ॒ग्नीग्ं र॒ग्नी-न्थ्सर्वा॒-न्थ्सर्वाग्ं॑ अ॒ग्नीन् । 20) अ॒ग्नीग्ं र॑फ्सु॒षदो॑ अफ्सु॒षदो॑ अ॒ग्नीग्ं र॒ग्नीग्ं र॑फ्सु॒षदः॑ । 21) अ॒फ्सु॒षदो॑ हुवे हुवे अफ्सु॒षदो॑ अफ्सु॒षदो॑ हुवे । 21) अ॒फ्सु॒षद॒ इत्य॑फ्सु - सदः॑ । 22) हु॒वे॒ वो॒ वो॒ हु॒वे॒ हु॒वे॒ वः॒ । 23) वो॒ मयि॒ मयि॑ वो वो॒ मयि॑ । 24) मयि॒ वर्चो॒ वर्चो॒ मयि॒ मयि॒ वर्चः॑ । 25) वर्चो॒ बल॒-म्बलं॒-वँर्चो॒ वर्चो॒ बल᳚म् । 26) बल॒ मोज॒ ओजो॒ बल॒-म्बल॒ मोजः॑ । 27) ओजो॒ नि न्योज॒ ओजो॒ नि । 28) नि ध॑त्त धत्त॒ नि नि ध॑त्त । 29) ध॒त्तेति॑ धत्त । 30) यद॒दो॑ ऽदो य-द्यद॒दः । 31) अ॒द-स्स॑म्प्रय॒ती-स्स॑म्प्रय॒ती र॒दो॑ ऽद-स्स॑म्प्रय॒तीः । 32) स॒म्प्र॒य॒ती रहा॒ वहौ॑ सम्प्रय॒ती-स्स॑म्प्रय॒ती रहौ᳚ । 32) स॒म्प्र॒य॒तीरिति॑ सं - प्र॒य॒तीः । 33) अहा॒ वन॑द॒ता न॑द॒ताहा॒ वहा॒ वन॑दत । 34) अन॑दता ह॒ते ह॒ते ऽन॑द॒ता न॑दता ह॒ते । 35) ह॒त इति॑ ह॒ते । 36) तस्मा॒दा तस्मा॒-त्तस्मा॒दा । 37) आ न॒द्यो॑ न॒द्य॑ आ न॒द्यः॑ । 38) न॒द्यो॑ नाम॒ नाम॑ न॒द्यो॑ न॒द्यो॑ नाम॑ । 39) नाम॑ स्थ स्थ॒ नाम॒ नाम॑ स्थ । 40) स्थ॒ ता ता स्थ॑ स्थ॒ ता । 41) ता वो॑ व॒ स्ता ता वः॑ । 42) वो॒ नामा॑नि॒ नामा॑नि वो वो॒ नामा॑नि । 43) नामा॑नि सिन्धव-स्सिन्धवो॒ नामा॑नि॒ नामा॑नि सिन्धवः । 44) सि॒न्ध॒व॒ इति॑ सिन्धवः । 45) य-त्प्रेषि॑ताः॒ प्रेषि॑ता॒ य-द्य-त्प्रेषि॑ताः । 46) प्रेषि॑ता॒ वरु॑णेन॒ वरु॑णेन॒ प्रेषि॑ताः॒ प्रेषि॑ता॒ वरु॑णेन । 46) प्रेषि॑ता॒ इति॒ प्र - इ॒षि॒ताः॒ । 47) वरु॑णेन॒ ता स्ता वरु॑णेन॒ वरु॑णेन॒ ताः । 48) ता-श्शीभ॒ग्ं॒ शीभ॒-न्ता स्ता-श्शीभ᳚म् । 49) शीभग्ं॑ स॒मव॑ल्गत स॒मव॑ल्गत॒ शीभ॒ग्ं॒ शीभग्ं॑ स॒मव॑ल्गत । 50) स॒मव॑ल्ग॒तेति॑ सं - अव॑ल्गत । ॥ 2 ॥ (50/53)
1) तदा᳚प्नो दाप्नो॒-त्त-त्तदा᳚प्नोत् । 2) आ॒प्नो॒ दिन्द्र॒ इन्द्र॑ आप्नो दाप्नो॒ दिन्द्रः॑ । 3) इन्द्रो॑ वो व॒ इन्द्र॒ इन्द्रो॑ वः । 4) वो॒ य॒ती-र्य॒ती-र्वो॑ वो य॒तीः । 5) य॒ती स्तस्मा॒-त्तस्मा᳚-द्य॒ती-र्य॒ती स्तस्मा᳚त् । 6) तस्मा॒ दाप॒ आप॒ स्तस्मा॒-त्तस्मा॒ दापः॑ । 7) आपो॒ अन्वन् वाप॒ आपो॒ अनु॑ । 8) अनु॑ स्थन स्थ॒नान् वनु॑ स्थन । 9) स्थ॒नेति॑ स्थन । 10) अ॒प॒का॒मग्ग् स्यन्द॑माना॒-स्स्यन्द॑माना अपका॒म म॑पका॒मग्ग् स्यन्द॑मानाः । 10) अ॒प॒का॒ममित्य॑प - का॒मम् । 11) स्यन्द॑माना॒ अवी॑वर॒ता वी॑वरत॒ स्यन्द॑माना॒-स्स्यन्द॑माना॒ अवी॑वरत । 12) अवी॑वरत वो॒ वो ऽवी॑वर॒ता वी॑वरत वः । 13) वो॒ हिक॒ग्ं॒ हिकं॑-वोँ वो॒ हिक᳚म् । 14) हिक॒मिति॒ हिक᳚म् । 15) इन्द्रो॑ वो व॒ इन्द्र॒ इन्द्रो॑ वः । 16) व॒-श्शक्ति॑भि॒-श्शक्ति॑भि-र्वो व॒-श्शक्ति॑भिः । 17) शक्ति॑भि-र्देवी-र्देवी॒-श्शक्ति॑भि॒-श्शक्ति॑भि-र्देवीः । 17) शक्ति॑भि॒रिति॒ शक्ति॑ - भिः॒ । 18) दे॒वी॒ स्तस्मा॒-त्तस्मा᳚-द्देवी-र्देवी॒ स्तस्मा᳚त् । 19) तस्मा॒-द्वा-र्वा स्तस्मा॒-त्तस्मा॒-द्वाः । 20) वा-र्नाम॒ नाम॒ वा-र्वा-र्नाम॑ । 21) नाम॑ वो वो॒ नाम॒ नाम॑ वः । 22) वो॒ हि॒तग्ं हि॒तं-वोँ॑ वो हि॒तम् । 23) हि॒तमिति॑ हि॒तम् । 24) एको॑ दे॒वो दे॒व एक॒ एको॑ दे॒वः । 25) दे॒वो अप्यपि॑ दे॒वो दे॒वो अपि॑ । 26) अप्य॑ तिष्ठ दतिष्ठ॒ दप्य प्य॑तिष्ठत् । 27) अ॒ति॒ष्ठ॒-थ्स्यन्द॑माना॒-स्स्यन्द॑माना अतिष्ठ दतिष्ठ॒-थ्स्यन्द॑मानाः । 28) स्यन्द॑माना यथाव॒शं-यँ॑थाव॒शग्ग् स्यन्द॑माना॒-स्स्यन्द॑माना यथाव॒शम् । 29) य॒था॒व॒शमिति॑ यथा - व॒शम् । 30) उदा॑निषु रानिषु॒ रुदु दा॑निषुः । 31) आ॒नि॒षु॒-र्म॒ही-र्म॒ही रा॑निषु रानिषु-र्म॒हीः । 32) म॒ही रितीति॑ म॒ही-र्म॒ही रिति॑ । 33) इति॒ तस्मा॒-त्तस्मा॒दि तीति॒ तस्मा᳚त् । 34) तस्मा॑ दुद॒क मु॑द॒क-न्तस्मा॒-त्तस्मा॑ दुद॒कम् । 35) उ॒द॒क मु॑च्यत उच्यत उद॒क मु॑द॒क मु॑च्यते । 36) उ॒च्य॒त॒ इत्यु॑च्यते । 37) आपो॑ भ॒द्रा भ॒द्रा आप॒ आपो॑ भ॒द्राः । 38) भ॒द्रा घृ॒त-ङ्घृ॒त-म्भ॒द्रा भ॒द्रा घृ॒तम् । 39) घृ॒त मिदि-द्घृ॒त-ङ्घृ॒त मित् । 40) इदाप॒ आप॒ इदि दापः॑ । 41) आप॑ आसु रासु॒ राप॒ आप॑ आसुः । 42) आ॒सु॒ र॒ग्नीषोमा॑ व॒ग्नीषोमा॑ वासु रासुर॒ ग्नीषोमौ᳚ । 43) अ॒ग्नीषोमौ॑ बिभ्रति बिभ्र त्य॒ग्नीषोमा॑ व॒ग्नीषोमौ॑ बिभ्रति । 43) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । 44) बि॒भ्र॒ त्याप॒ आपो॑ बिभ्रति बिभ्र॒ त्यापः॑ । 45) आप॒ इदिदाप॒ आप॒ इत् । 46) इ-त्ता स्ता इदि-त्ताः । 47) ता इति॒ ताः । 48) ती॒व्रो रसो॒ रस॑ स्ती॒व्र स्ती॒व्रो रसः॑ । 49) रसो॑ मधु॒पृचा᳚-म्मधु॒पृचा॒ग्ं॒ रसो॒ रसो॑ मधु॒पृचा᳚म् । 50) म॒धु॒पृचा॑ मरङ्ग॒मो अ॑रङ्ग॒मो म॑धु॒पृचा᳚-म्मधु॒पृचा॑ मरङ्ग॒मः । 50) म॒धु॒पृचा॒मिति॑ मधु - पृचा᳚म् । ॥ 3 ॥ (50/54)
1) अ॒र॒ङ्ग॒म आ ऽर॑ङ्ग॒मो अ॑रङ्ग॒म आ । 1) अ॒र॒ङ्ग॒म इत्य॑रं - ग॒मः । 2) आ मा॒ मा ऽऽमा᳚ । 3) मा॒ प्रा॒णेन॑ प्रा॒णेन॑ मा मा प्रा॒णेन॑ । 4) प्रा॒णेन॑ स॒ह स॒ह प्रा॒णेन॑ प्रा॒णेन॑ स॒ह । 4) प्रा॒णेनेति॑ प्र - अ॒नेन॑ । 5) स॒ह वर्च॑सा॒ वर्च॑सा स॒ह स॒ह वर्च॑सा । 6) वर्च॑सा ग-न्ग॒न्॒. वर्च॑सा॒ वर्च॑सा गन्न् । 7) ग॒न्निति॑ गन्न् । 8) आदि दिदा दादित् । 9) इ-त्प॑श्यामि पश्या॒मीदि-त्प॑श्यामि । 10) प॒श्या॒ म्यु॒तोत प॑श्यामि पश्या म्यु॒त । 11) उ॒त वा॑ वो॒तोत वा᳚ । 12) वा॒ शृ॒णो॒मि॒ शृ॒णो॒मि॒ वा॒ वा॒ शृ॒णो॒मि॒ । 13) शृ॒णो॒म्या शृ॑णोमि शृणो॒म्या । 14) आ मा॒ मा ऽऽमा᳚ । 15) मा॒ घोषो॒ घोषो॑ मा मा॒ घोषः॑ । 16) घोषो॑ गच्छति गच्छति॒ घोषो॒ घोषो॑ गच्छति । 17) ग॒च्छ॒ति॒ वाग् वाग् ग॑च्छति गच्छति॒ वाक् । 18) वा-न्नो॑ नो॒ वाग् वा-न्नः॑ । 19) न॒ आ॒सा॒ मा॒सा॒-न्नो॒ न॒ आ॒सा॒म् । 20) आ॒सा॒मित्या॑साम् । 21) मन्ये॑ भेजा॒नो भे॑जा॒नो मन्ये॒ मन्ये॑ भेजा॒नः । 22) भे॒जा॒नो अ॒मृत॑स्या॒ मृत॑स्य भेजा॒नो भे॑जा॒नो अ॒मृत॑स्य । 23) अ॒मृत॑स्य॒ तर्हि॒ तर्ह्य॒मृत॑स्या॒ मृत॑स्य॒ तर्हि॑ । 24) तर्हि॒ हिर॑ण्यवर्णा॒ हिर॑ण्यवर्णा॒ स्तर्हि॒ तर्हि॒ हिर॑ण्यवर्णाः । 25) हिर॑ण्यवर्णा॒ अतृ॑प॒ मतृ॑प॒ग्ं॒ हिर॑ण्यवर्णा॒ हिर॑ण्यवर्णा॒ अतृ॑पम् । 25) हिर॑ण्यवर्णा॒ इति॒ हिर॑ण्य - व॒र्णाः॒ । 26) अतृ॑पं-यँ॒दा य॒दा ऽतृ॑प॒ मतृ॑पं-यँ॒दा । 27) य॒दा वो॑ वो य॒दा य॒दा वः॑ । 28) व॒ इति॑ वः । 29) आपो॒ हि ह्याप॒ आपो॒ हि । 30) हि ष्ठ स्थ हि हि ष्ठ । 31) स्था म॑यो॒भुवो॑ मयो॒भुव॒-स्स्थ स्था म॑यो॒भुवः॑ । 32) म॒यो॒भुव॒ स्ता स्ता म॑यो॒भुवो॑ मयो॒भुव॒ स्ताः । 32) म॒यो॒भुव॒ इति॑ मयः - भुवः॑ । 33) ता नो॑ न॒ स्ता स्ता नः॑ । 34) न॒ ऊ॒र्ज ऊ॒र्जे नो॑ न ऊ॒र्जे । 35) ऊ॒र्जे द॑धातन दधातनो॒र्ज ऊ॒र्जे द॑धातन । 36) द॒धा॒त॒नेति॑ दधातन । 37) म॒हे रणा॑य॒ रणा॑य म॒हे म॒हे रणा॑य । 38) रणा॑य॒ चक्ष॑से॒ चक्ष॑से॒ रणा॑य॒ रणा॑य॒ चक्ष॑से । 39) चक्ष॑स॒ इति॒ चक्ष॑से । 40) यो वो॑ वो॒ यो यो वः॑ । 41) व॒-श्शि॒वत॑म-श्शि॒वत॑मो वो व-श्शि॒वत॑मः । 42) शि॒वत॑मो॒ रसो॒ रस॑-श्शि॒वत॑म-श्शि॒वत॑मो॒ रसः॑ । 42) शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ । 43) रस॒ स्तस्य॒ तस्य॒ रसो॒ रस॒ स्तस्य॑ । 44) तस्य॑ भाजयत भाजयत॒ तस्य॒ तस्य॑ भाजयत । 45) भा॒ज॒य॒ ते॒हेह भा॑जयत भाजयते॒ह । 46) इ॒ह नो॑ न इ॒हे ह नः॑ । 47) न॒ इति नः॑ । 48) उ॒श॒ती रि॑वे वोश॒ती रु॑श॒ती रि॑व । 49) इ॒व॒ मा॒तरो॑ मा॒तर॑ इवेव मा॒तरः॑ । 50) मा॒तर॒ इति॑ मा॒तरः॑ । 51) तस्मा॒ अर॒ मर॒-न्तस्मै॒ तस्मा॒ अर᳚म् । 52) अर॑-ङ्गमाम गमा॒मा र॒ मर॑-ङ्गमाम । 53) ग॒मा॒म॒ वो॒ वो॒ ग॒मा॒म॒ ग॒मा॒म॒ वः॒ । 54) वो॒ यस्य॒ यस्य॑ वो वो॒ यस्य॑ । 55) यस्य॒ क्षया॑य॒ क्षया॑य॒ यस्य॒ यस्य॒ क्षया॑य । 56) क्षया॑य॒ जिन्व॑थ॒ जिन्व॑थ॒ क्षया॑य॒ क्षया॑य॒ जिन्व॑थ । 57) जिन्व॒थेति॒ जिन्व॑थ । 58) आपो॑ ज॒नय॑थ ज॒नय॒थाप॒ आपो॑ ज॒नय॑थ । 59) ज॒नय॑था च च ज॒नय॑थ ज॒नय॑था च । 60) च॒ नो॒ न॒श्च॒ च॒ नः॒ । 61) न॒ इति नः॑ । 62) दि॒वि श्र॑यस्व श्रयस्व दि॒वि दि॒वि श्र॑यस्व । 63) श्र॒य॒स्वा॒ न्तरि॑क्षे अ॒न्तरि॑क्षे श्रयस्व श्रयस्वा॒ न्तरि॑क्षे । 64) अ॒न्तरि॑क्षे यतस्व यतस्वा॒ न्तरि॑क्षे अ॒न्तरि॑क्षे यतस्व । 65) य॒त॒स्व॒ पृ॒थि॒व्या पृ॑थि॒व्या य॑तस्व यतस्व पृथि॒व्या । 66) पृ॒थि॒व्या सग्ं स-म्पृ॑थि॒व्या पृ॑थि॒व्या सम् । 67) स-म्भ॑व भव॒ सग्ं स-म्भ॑व । 68) भ॒व॒ ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स-म्भ॑व भव ब्रह्मवर्च॒सम् । 69) ब्र॒ह्म॒व॒र्च॒स म॑स्यसि ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स म॑सि । 69) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 70) अ॒सि॒ ब्र॒ह्म॒व॒र्च॒साय॑ ब्रह्मवर्च॒साया᳚स्यसि ब्रह्मवर्च॒साय॑ । 71) ब्र॒ह्म॒व॒र्च॒साय॑ त्वा त्वा ब्रह्मवर्च॒साय॑ ब्रह्मवर्च॒साय॑ त्वा । 71) ब्र॒ह्म॒व॒र्च॒सायेति॑ ब्रह्म - व॒र्च॒साय॑ । 72) त्वेति॑ त्वा । ॥ 4 ॥ (72/79) ॥ अ. 1 ॥
1) अ॒पा-ङ्ग्रहा॒-न्ग्रहा॑ न॒पा म॒पा-ङ्ग्रहान्॑ । 2) ग्रहा᳚-न्गृह्णाति गृह्णाति॒ ग्रहा॒-न्ग्रहा᳚-न्गृह्णाति । 3) गृ॒ह्णा॒ त्ये॒त दे॒त-द्गृ॑ह्णाति गृह्णा त्ये॒तत् । 4) ए॒त-द्वाव वावैत दे॒त-द्वाव । 5) वाव रा॑ज॒सूयग्ं॑ राज॒सूयं॒-वाँव वाव रा॑ज॒सूय᳚म् । 6) रा॒ज॒सूयं॒-यँ-द्य-द्रा॑ज॒सूयग्ं॑ राज॒सूयं॒-यँत् । 6) रा॒ज॒सूय॒मिति॑ राज - सूय᳚म् । 7) यदे॒त ए॒ते य-द्यदे॒ते । 8) ए॒ते ग्रहा॒ ग्रहा॑ ए॒त ए॒ते ग्रहाः᳚ । 9) ग्रहा᳚-स्स॒व-स्स॒वो ग्रहा॒ ग्रहा᳚-स्स॒वः । 10) स॒वो᳚ ऽग्नि र॒ग्नि-स्स॒व-स्स॒वो᳚ ऽग्निः । 11) अ॒ग्नि-र्व॑रुणस॒वो व॑रुणस॒वो᳚ ऽग्नि र॒ग्नि-र्व॑रुणस॒वः । 12) व॒रु॒ण॒स॒वो रा॑ज॒सूयग्ं॑ राज॒सूयं॑-वँरुणस॒वो व॑रुणस॒वो रा॑ज॒सूय᳚म् । 12) व॒रु॒ण॒स॒व इति॑ वरुण - स॒वः । 13) रा॒ज॒सूय॑ मग्निस॒वो᳚ ऽग्निस॒वो रा॑ज॒सूयग्ं॑ राज॒सूय॑ मग्निस॒वः । 13) रा॒ज॒सूय॒मिति॑ राज - सूय᳚म् । 14) अ॒ग्नि॒स॒व श्चित्य॒ श्चित्यो᳚ ऽग्निस॒वो᳚ ऽग्निस॒व श्चित्यः॑ । 14) अ॒ग्नि॒स॒व इत्य॑ग्नि - स॒वः । 15) चित्य॒ स्ताभ्या॒-न्ताभ्या॒-ञ्चित्य॒ श्चित्य॒ स्ताभ्या᳚म् । 16) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व । 17) ए॒व सू॑यते सूयत ए॒वैव सू॑यते । 18) सू॒य॒ते ऽथो॒ अथो॑ सूयते सूय॒ते ऽथो᳚ । 19) अथो॑ उ॒भा वु॒भा वथो॒ अथो॑ उ॒भौ । 19) अथो॒ इत्यथो᳚ । 20) उ॒भा वे॒वै वोभा वु॒भा वे॒व । 21) ए॒व लो॒कौ लो॒का वे॒वैव लो॒कौ । 22) लो॒का व॒भ्य॑भि लो॒कौ लो॒का व॒भि । 23) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 24) ज॒य॒ति॒ यो यो ज॑यति जयति॒ यः । 25) यश्च॑ च॒ यो यश्च॑ । 26) च॒ रा॒ज॒सूये॑न राज॒सूये॑न च च राज॒सूये॑न । 27) रा॒ज॒सूये॑ नेजा॒न स्ये॑जा॒नस्य॑ राज॒सूये॑न राज॒सूये॑ नेजा॒नस्य॑ । 27) रा॒ज॒सूये॒नेति॑ राज - सूये॑न । 28) ई॒जा॒नस्य॒ यो य ई॑जा॒नस्ये॑ जा॒नस्य॒ यः । 29) यश्च॑ च॒ यो यश्च॑ । 30) चा॒ग्नि॒चितो᳚ ऽग्नि॒चित॑श्च चाग्नि॒चितः॑ । 31) अ॒ग्नि॒चित॒ आप॒ आपो᳚ ऽग्नि॒चितो᳚ ऽग्नि॒चित॒ आपः॑ । 31) अ॒ग्नि॒चित॒ इत्य॑ग्नि - चितः॑ । 32) आपो॑ भवन्ति भव॒-न्त्याप॒ आपो॑ भवन्ति । 33) भ॒व॒-न्त्याप॒ आपो॑ भवन्ति भव॒-न्त्यापः॑ । 34) आपो॒ वै वा आप॒ आपो॒ वै । 35) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 36) अ॒ग्ने-र्भ्रातृ॑व्या॒ भ्रातृ॑व्या अ॒ग्ने र॒ग्ने-र्भ्रातृ॑व्याः । 37) भ्रातृ॑व्या॒ य-द्य-द्भ्रातृ॑व्या॒ भ्रातृ॑व्या॒ यत् । 38) यद॒पो॑ ऽपो य-द्यद॒पः । 39) अ॒पो᳚ ऽग्ने र॒ग्ने र॒पो᳚(1॒) ऽपो᳚ ऽग्नेः । 40) अ॒ग्ने र॒धस्ता॑ द॒धस्ता॑ द॒ग्ने र॒ग्ने र॒धस्ता᳚त् । 41) अ॒धस्ता॑ दुप॒दधा᳚ त्युप॒दधा᳚ त्य॒धस्ता॑ द॒धस्ता॑ दुप॒दधा॑ति । 42) उ॒प॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्या उप॒दधा᳚ त्युप॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै । 42) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 43) भ्रातृ॑व्याभिभूत्यै॒ भव॑ति॒ भव॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑ति । 43) भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । 44) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ । 45) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ । 46) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य । 47) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः । 48) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति । 49) भ॒व॒ त्य॒मृत॑ म॒मृत॑-म्भवति भव त्य॒मृत᳚म् । 50) अ॒मृतं॒-वैँ वा अ॒मृत॑ म॒मृतं॒-वैँ । ॥ 5 ॥ (50/59)
1) वा आप॒ आपो॒ वै वा आपः॑ । 2) आप॒ स्तस्मा॒-त्तस्मा॒ दाप॒ आप॒ स्तस्मा᳚त् । 3) तस्मा॑ द॒द्भि र॒द्भि स्तस्मा॒-त्तस्मा॑ द॒द्भिः । 4) अ॒द्भि रव॑तान्त॒ मव॑तान्त म॒द्भि र॒द्भि रव॑तान्तम् । 4) अ॒द्भिरित्य॑त् - भिः । 5) अव॑तान्त म॒भ्य॑भ्य व॑तान्त॒ मव॑तान्त म॒भि । 5) अव॑तान्त॒मित्यव॑ - ता॒न्त॒म् । 6) अ॒भि षि॑ञ्चन्ति सिञ्च-न्त्य॒भ्य॑भि षि॑ञ्चन्ति । 7) सि॒ञ्च॒न्ति॒ न न सि॑ञ्चन्ति सिञ्चन्ति॒ न । 8) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् । 9) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 10) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति । 11) ऋ॒च्छ॒ति॒ सर्व॒ग्ं॒ सर्व॑ मृच्छ त्यृच्छति॒ सर्व᳚म् । 12) सर्व॒ मायु॒ रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ । 13) आयु॑ रेत्ये॒ त्यायु॒ रायु॑ रेति । 14) ए॒ति॒ यस्य॒ यस्यै᳚ त्येति॒ यस्य॑ । 15) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः । 16) ए॒ता उ॑पधी॒यन्त॑ उपधी॒यन्त॑ ए॒ता ए॒ता उ॑पधी॒यन्ते᳚ । 17) उ॒प॒धी॒यन्ते॒ यो य उ॑पधी॒यन्त॑ उपधी॒यन्ते॒ यः । 17) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । 18) य उ॑ वु॒ यो य उ॑ । 19) उ॒ च॒ च॒ वु॒ च॒ । 20) चै॒ना॒ ए॒ना॒श्च॒ चै॒नाः॒ । 21) ए॒ना॒ ए॒व मे॒व मे॑ना एना ए॒वम् । 22) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 23) वेदान्न॒ मन्नं॒-वेँद॒ वेदान्न᳚म् । 24) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 25) वा आप॒ आपो॒ वै वा आपः॑ । 26) आपः॑ प॒शवः॑ प॒शव॒ आप॒ आपः॑ प॒शवः॑ । 27) प॒शव॒ आप॒ आपः॑ प॒शवः॑ प॒शव॒ आपः॑ । 28) आपो ऽन्न॒ मन्न॒ माप॒ आपो ऽन्न᳚म् । 29) अन्न॑-म्प॒शवः॑ प॒शवो ऽन्न॒ मन्न॑-म्प॒शवः॑ । 30) प॒शवो᳚ ऽन्ना॒दो᳚ ऽन्ना॒दः प॒शवः॑ प॒शवो᳚ ऽन्ना॒दः । 31) अ॒न्ना॒दः प॑शु॒मा-न्प॑शु॒मा न॑न्ना॒दो᳚ ऽन्ना॒दः प॑शु॒मान् । 31) अ॒न्ना॒द इत्य॑न्न - अ॒दः । 32) प॒शु॒मा-न्भ॑वति भवति पशु॒मा-न्प॑शु॒मा-न्भ॑वति । 32) प॒शु॒मानिति॑ पशु - मान् । 33) भ॒व॒ति॒ यस्य॒ यस्य॑ भवति भवति॒ यस्य॑ । 34) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः । 35) ए॒ता उ॑पधी॒यन्त॑ उपधी॒यन्त॑ ए॒ता ए॒ता उ॑पधी॒यन्ते᳚ । 36) उ॒प॒धी॒यन्ते॒ यो य उ॑पधी॒यन्त॑ उपधी॒यन्ते॒ यः । 36) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । 37) य उ॑ वु॒ यो य उ॑ । 38) उ॒ च॒ च॒ वु॒ च॒ । 39) चै॒ना॒ ए॒ना॒श्च॒ चै॒नाः॒ । 40) ए॒ना॒ ए॒व मे॒व मे॑ना एना ए॒वम् । 41) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 42) वेद॒ द्वाद॑श॒ द्वाद॑श॒ वेद॒ वेद॒ द्वाद॑श । 43) द्वाद॑श भवन्ति भवन्ति॒ द्वाद॑श॒ द्वाद॑श भवन्ति । 44) भ॒व॒न्ति॒ द्वाद॑श॒ द्वाद॑श भवन्ति भवन्ति॒ द्वाद॑श । 45) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 46) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः । 47) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रेण॑ संवँथ्स॒रेण॑ संवँथ्स॒र-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रेण॑ । 47) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 48) सं॒वँ॒थ्स॒रे णै॒वैव सं॑वँथ्स॒रेण॑ संवँथ्स॒रेणै॒व । 48) सं॒वँ॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ । 49) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 50) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् । ॥ 6 ॥ (50/58)
1) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ । 2) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 3) रु॒न्धे॒ पात्रा॑णि॒ पात्रा॑णि रुन्धे रुन्धे॒ पात्रा॑णि । 4) पात्रा॑णि भवन्ति भवन्ति॒ पात्रा॑णि॒ पात्रा॑णि भवन्ति । 5) भ॒व॒न्ति॒ पात्रे॒ पात्रे॑ भवन्ति भवन्ति॒ पात्रे᳚ । 6) पात्रे॒ वै वै पात्रे॒ पात्रे॒ वै । 7) वा अन्न॒ मन्नं॒-वैँ वा अन्न᳚म् । 8) अन्न॑ मद्यते ऽद्य॒ते ऽन्न॒ मन्न॑ मद्यते । 9) अ॒द्य॒ते॒ सयो॑नि॒ सयो᳚ न्यद्यते ऽद्यते॒ सयो॑नि । 10) सयो᳚ न्ये॒वैव सयो॑नि॒ सयो᳚ न्ये॒व । 10) सयो॒नीति॒ स - यो॒नि॒ । 11) ए॒वान्न॒ मन्न॑ मे॒वै वान्न᳚म् । 12) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ । 13) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 14) रु॒न्ध॒ आ रु॑न्धे रुन्ध॒ आ । 15) आ द्वा॑द॒शा-द्द्वा॑द॒शादा द्वा॑द॒शात् । 16) द्वा॒द॒शा-त्पुरु॑षा॒-त्पुरु॑षा-द्द्वाद॒शा-द्द्वा॑द॒शा-त्पुरु॑षात् । 17) पुरु॑षा॒ दन्न॒ मन्न॒-म्पुरु॑षा॒-त्पुरु॑षा॒ दन्न᳚म् । 18) अन्न॑ मत्त्य॒ त्त्यन्न॒ मन्न॑ मत्ति । 19) अ॒त्त्यथो॒ अथो॑ अत्त्य॒ त्त्यथो᳚ । 20) अथो॒ पात्रा॒-त्पात्रा॒ दथो॒ अथो॒ पात्रा᳚त् । 20) अथो॒ इत्यथो᳚ । 21) पात्रा॒-न्न न पात्रा॒-त्पात्रा॒-न्न । 22) न छि॑द्यते छिद्यते॒ न न छि॑द्यते । 23) छि॒द्य॒ते॒ यस्य॒ यस्य॑ छिद्यते छिद्यते॒ यस्य॑ । 24) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः । 25) ए॒ता उ॑पधी॒यन्त॑ उपधी॒यन्त॑ ए॒ता ए॒ता उ॑पधी॒यन्ते᳚ । 26) उ॒प॒धी॒यन्ते॒ यो य उ॑पधी॒यन्त॑ उपधी॒यन्ते॒ यः । 26) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । 27) य उ॑ वु॒ यो य उ॑ । 28) उ॒ च॒ च॒ वु॒ च॒ । 29) चै॒ना॒ ए॒ना॒श्च॒ चै॒नाः॒ । 30) ए॒ना॒ ए॒व मे॒व मे॑ना एना ए॒वम् । 31) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 32) वेद॑ कु॒म्भाः कु॒म्भा वेद॒ वेद॑ कु॒म्भाः । 33) कु॒म्भाश्च॑ च कु॒म्भाः कु॒म्भाश्च॑ । 34) च॒ कु॒म्भीः कु॒म्भीश्च॑ च कु॒म्भीः । 35) कु॒म्भीश्च॑ च कु॒म्भीः कु॒म्भीश्च॑ । 36) च॒ मि॒थु॒नानि॑ मिथु॒नानि॑ च च मिथु॒नानि॑ । 37) मि॒थु॒नानि॑ भवन्ति भवन्ति मिथु॒नानि॑ मिथु॒नानि॑ भवन्ति । 38) भ॒व॒न्ति॒ मि॒थु॒नस्य॑ मिथु॒नस्य॑ भवन्ति भवन्ति मिथु॒नस्य॑ । 39) मि॒थु॒नस्य॒ प्रजा᳚त्यै॒ प्रजा᳚त्यै मिथु॒नस्य॑ मिथु॒नस्य॒ प्रजा᳚त्यै । 40) प्रजा᳚त्यै॒ प्र प्र प्रजा᳚त्यै॒ प्रजा᳚त्यै॒ प्र । 40) प्रजा᳚त्या॒ इति॒ प्र - जा॒त्यै॒ । 41) प्र प्र॒जया᳚ प्र॒जया॒ प्र प्र प्र॒जया᳚ । 42) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 42) प्र॒जयेति॑ प्र - जया᳚ । 43) प॒शुभि॑-र्मिथु॒नै-र्मि॑थु॒नैः प॒शुभिः॑ प॒शुभि॑-र्मिथु॒नैः । 43) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 44) मि॒थु॒नै-र्जा॑यते जायते मिथु॒नै-र्मि॑थु॒नै-र्जा॑यते । 45) जा॒य॒ते॒ यस्य॒ यस्य॑ जायते जायते॒ यस्य॑ । 46) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः । 47) ए॒ता उ॑पधी॒यन्त॑ उपधी॒यन्त॑ ए॒ता ए॒ता उ॑पधी॒यन्ते᳚ । 48) उ॒प॒धी॒यन्ते॒ यो य उ॑पधी॒यन्त॑ उपधी॒यन्ते॒ यः । 48) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । 49) य उ॑ वु॒ यो य उ॑ । 50) उ॒ च॒ च॒ वु॒ च॒ । ॥ 7 ॥ (50/57)
1) चै॒ना॒ ए॒ना॒श्च॒ चै॒नाः॒ । 2) ए॒ना॒ ए॒व मे॒व मे॑ना एना ए॒वम् । 3) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 4) वेद॒ शुक् छुग् वेद॒ वेद॒ शुक् । 5) शुग् वै वै शुक् छुग् वै । 6) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 7) अ॒ग्नि-स्स सो᳚ ऽग्नि र॒ग्नि-स्सः । 8) सो᳚ ऽद्ध्व॒र्यु म॑द्ध्व॒र्युग्ं स सो᳚ ऽद्ध्व॒र्युम् । 9) अ॒द्ध्व॒र्युं-यँज॑मानं॒-यँज॑मान मद्ध्व॒र्यु म॑द्ध्व॒र्युं-यँज॑मानम् । 10) यज॑मान-म्प्र॒जाः प्र॒जा यज॑मानं॒-यँज॑मान-म्प्र॒जाः । 11) प्र॒जा-श्शु॒चा शु॒चा प्र॒जाः प्र॒जा-श्शु॒चा । 11) प्र॒जा इति॑ प्र - जाः । 12) शु॒चा ऽर्प॑य त्यर्पयति शु॒चा शु॒चा ऽर्प॑यति । 13) अ॒र्प॒य॒ति॒ य-द्यद॑र्पय त्यर्पयति॒ यत् । 14) यद॒पो॑ ऽपो य-द्यद॒पः । 15) अ॒प उ॑प॒दधा᳚ त्युप॒दधा᳚ त्य॒पो॑ ऽप उ॑प॒दधा॑ति । 16) उ॒प॒दधा॑ति॒ शुच॒ग्ं॒ शुच॑ मुप॒दधा᳚ त्युप॒दधा॑ति॒ शुच᳚म् । 16) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 17) शुच॑ मे॒वैव शुच॒ग्ं॒ शुच॑ मे॒व । 18) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 19) अ॒स्य॒ श॒म॒य॒ति॒ श॒म॒य॒त्य॒ स्या॒स्य॒ श॒म॒य॒ति॒ । 20) श॒म॒य॒ति॒ न न श॑मयति शमयति॒ न । 21) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् । 22) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 23) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति । 24) ऋ॒च्छ॒ त्य॒द्ध्व॒र्यु र॑द्ध्व॒र्युर्-ऋ॑च्छ त्यृच्छ त्यद्ध्व॒र्युः । 25) अ॒द्ध्व॒र्यु-र्न नाद्ध्व॒र्यु र॑द्ध्व॒र्यु-र्न । 26) न यज॑मानो॒ यज॑मानो॒ न न यज॑मानः । 27) यज॑मान॒-श्शाम्य॑न्ति॒ शाम्य॑न्ति॒ यज॑मानो॒ यज॑मान॒-श्शाम्य॑न्ति । 28) शाम्य॑न्ति प्र॒जाः प्र॒जा-श्शाम्य॑न्ति॒ शाम्य॑न्ति प्र॒जाः । 29) प्र॒जा यत्र॒ यत्र॑ प्र॒जाः प्र॒जा यत्र॑ । 29) प्र॒जा इति॑ प्र - जाः । 30) यत्रै॒ता ए॒ता यत्र॒ यत्रै॒ताः । 31) ए॒ता उ॑पधी॒यन्त॑ उपधी॒यन्त॑ ए॒ता ए॒ता उ॑पधी॒यन्ते᳚ । 32) उ॒प॒धी॒यन्ते॒ ऽपा म॒पा मु॑पधी॒यन्त॑ उपधी॒यन्ते॒ ऽपाम् । 32) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । 33) अ॒पां-वैँ वा अ॒पा म॒पां-वैँ । 34) वा ए॒ता न्ये॒तानि॒ वै वा ए॒तानि॑ । 35) ए॒तानि॒ हृद॑यानि॒ हृद॑या न्ये॒ता न्ये॒तानि॒ हृद॑यानि । 36) हृद॑यानि॒ य-द्यद्धृद॑यानि॒ हृद॑यानि॒ यत् । 37) यदे॒ता ए॒ता य-द्यदे॒ताः । 38) ए॒ता आप॒ आप॑ ए॒ता ए॒ता आपः॑ । 39) आपो॒ य-द्यदाप॒ आपो॒ यत् । 40) यदे॒ता ए॒ता य-द्यदे॒ताः । 41) ए॒ता अ॒पो॑ ऽप ए॒ता ए॒ता अ॒पः । 42) अ॒प उ॑प॒दधा᳚ त्युप॒दधा᳚ त्य॒पो॑ ऽप उ॑प॒दधा॑ति । 43) उ॒प॒दधा॑ति दि॒व्याभि॑-र्दि॒व्याभि॑ रुप॒दधा᳚ त्युप॒दधा॑ति दि॒व्याभिः॑ । 43) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 44) दि॒व्याभि॑ रे॒वैव दि॒व्याभि॑-र्दि॒व्याभि॑ रे॒व । 45) ए॒वैना॑ एना ए॒वै वैनाः᳚ । 46) ए॒ना॒-स्सग्ं स मे॑ना एना॒-स्सम् । 47) सग्ं सृ॑जति सृजति॒ सग्ं सग्ं सृ॑जति । 48) सृ॒ज॒ति॒ वर्षु॑को॒ वर्षु॑क-स्सृजति सृजति॒ वर्षु॑कः । 49) वर्षु॑कः प॒र्जन्यः॑ प॒र्जन्यो॒ वर्षु॑को॒ वर्षु॑कः प॒र्जन्यः॑ । 50) प॒र्जन्यो॑ भवति भवति प॒र्जन्यः॑ प॒र्जन्यो॑ भवति । ॥ 8 ॥ (50/55)
1) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 2) यो वै वै यो यो वै । 3) वा ए॒तासा॑ मे॒तासां॒-वैँ वा ए॒तासा᳚म् । 4) ए॒तासा॑ मा॒यत॑न मा॒यत॑न मे॒तासा॑ मे॒तासा॑ मा॒यत॑नम् । 5) आ॒यत॑न॒-ङ्क्लृप्ति॒-ङ्क्लृप्ति॑ मा॒यत॑न मा॒यत॑न॒-ङ्क्लृप्ति᳚म् । 5) आ॒यत॑न॒मित्या᳚ - यत॑नम् । 6) क्लृप्तिं॒-वेँद॒ वेद॒ क्लृप्ति॒-ङ्क्लृप्तिं॒-वेँद॑ । 7) वेदा॒ यत॑नवा ना॒यत॑नवा॒न्॒. वेद॒ वेदा॒ यत॑नवान् । 8) आ॒यत॑नवा-न्भवति भव त्या॒यत॑नवा ना॒यत॑नवा-न्भवति । 8) आ॒यत॑नवा॒नित्या॒यत॑न - वा॒न् । 9) भ॒व॒ति॒ कल्प॑ते॒ कल्प॑ते भवति भवति॒ कल्प॑ते । 10) कल्प॑ते ऽस्मा अस्मै॒ कल्प॑ते॒ कल्प॑ते ऽस्मै । 11) अ॒स्मा॒ अ॒नु॒सी॒त म॑नुसी॒त म॑स्मा अस्मा अनुसी॒तम् । 12) अ॒नु॒सी॒त मुपोपा॑ नुसी॒त म॑नुसी॒त मुप॑ । 12) अ॒नु॒सी॒तमित्य॑नु - सी॒तम् । 13) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 14) द॒धा॒ त्ये॒त दे॒त-द्द॑धाति दधा त्ये॒तत् । 15) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 16) वा आ॑सा मासां॒-वैँ वा आ॑साम् । 17) आ॒सा॒ मा॒यत॑न मा॒यत॑न मासा मासा मा॒यत॑नम् । 18) आ॒यत॑न मे॒षैषा ऽऽयत॑न मा॒यत॑न मे॒षा । 18) आ॒यत॑न॒मित्या᳚ - यत॑नम् । 19) ए॒षा क्लृप्तिः॒ क्लृप्ति॑ रे॒षैषा क्लृप्तिः॑ । 20) क्लृप्ति॒-र्यो यः क्लृप्तिः॒ क्लृप्ति॒-र्यः । 21) य ए॒व मे॒वं-योँ य ए॒वम् । 22) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 23) वेदा॒यत॑नवा ना॒यत॑नवा॒न्॒. वेद॒ वेदा॒यत॑नवान् । 24) आ॒यत॑नवा-न्भवति भव त्या॒यत॑नवा ना॒यत॑नवा-न्भवति । 24) आ॒यत॑नवा॒नित्या॒यत॑न - वा॒न् । 25) भ॒व॒ति॒ कल्प॑ते॒ कल्प॑ते भवति भवति॒ कल्प॑ते । 26) कल्प॑ते ऽस्मा अस्मै॒ कल्प॑ते॒ कल्प॑ते ऽस्मै । 27) अ॒स्मै॒ द्व॒न्द्व-न्द्व॒न्द्व म॑स्मा अस्मै द्व॒न्द्वम् । 28) द्व॒न्द्व म॒न्या अ॒न्या द्व॒न्द्व-न्द्व॒न्द्व म॒न्याः । 28) द्व॒न्द्वमिति॑ द्वं - द्वम् । 29) अ॒न्या उपोपा॒ न्या अ॒न्या उप॑ । 30) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 31) द॒धा॒ति॒ चत॑स्र॒ श्चत॑स्रो दधाति दधाति॒ चत॑स्रः । 32) चत॑स्रो॒ मद्ध्ये॒ मद्ध्ये॒ चत॑स्र॒ श्चत॑स्रो॒ मद्ध्ये᳚ । 33) मद्ध्ये॒ धृत्यै॒ धृत्यै॒ मद्ध्ये॒ मद्ध्ये॒ धृत्यै᳚ । 34) धृत्या॒ अन्न॒ मन्न॒-न्धृत्यै॒ धृत्या॒ अन्न᳚म् । 35) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 36) वा इष्ट॑का॒ इष्ट॑का॒ वै वा इष्ट॑काः । 37) इष्ट॑का ए॒तदे॒ तदिष्ट॑का॒ इष्ट॑का ए॒तत् । 38) ए॒त-त्खलु॒ खल्वे॒त दे॒त-त्खलु॑ । 39) खलु॒ वै वै खलु॒ खलु॒ वै । 40) वै सा॒क्षा-थ्सा॒क्षा-द्वै वै सा॒क्षात् । 41) सा॒क्षा दन्न॒ मन्नग्ं॑ सा॒क्षा-थ्सा॒क्षा दन्न᳚म् । 41) सा॒क्षादिति॑ स - अ॒क्षात् । 42) अन्नं॒-यँ-द्यदन्न॒ मन्नं॒-यँत् । 43) यदे॒ष ए॒ष य-द्यदे॒षः । 44) ए॒ष च॒रु श्च॒रु रे॒ष ए॒ष च॒रुः । 45) च॒रु-र्य-द्यच् च॒रु श्च॒रु-र्यत् । 46) यदे॒त मे॒तं-यँ-द्यदे॒तम् । 47) ए॒त-ञ्च॒रु-ञ्च॒रु मे॒त मे॒त-ञ्च॒रुम् । 48) च॒रु मु॑प॒दधा᳚ त्युप॒दधा॑ति च॒रु-ञ्च॒रु मु॑प॒दधा॑ति । 49) उ॒प॒दधा॑ति सा॒क्षा-थ्सा॒क्षा दु॑प॒दधा᳚ त्युप॒दधा॑ति सा॒क्षात् । 49) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 50) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व । 50) सा॒क्षादिति॑ स - अ॒क्षात् । ॥ 9 ॥ (50/59)
1) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 2) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् । 3) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ । 4) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 5) रु॒न्धे॒ म॒द्ध्य॒तो म॑द्ध्य॒तो रु॑न्धे रुन्धे मद्ध्य॒तः । 6) म॒द्ध्य॒त उपोप॑ मद्ध्य॒तो म॑द्ध्य॒त उप॑ । 7) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 8) द॒धा॒ति॒ म॒द्ध्य॒तो म॑द्ध्य॒तो द॑धाति दधाति मद्ध्य॒तः । 9) म॒द्ध्य॒त ए॒वैव म॑द्ध्य॒तो म॑द्ध्य॒त ए॒व । 10) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 11) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् । 12) अन्न॑-न्दधाति दधा॒ त्यन्न॒ मन्न॑-न्दधाति । 13) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 14) तस्मा᳚-न्मद्ध्य॒तो म॑द्ध्य॒ तस्तस्मा॒-त्तस्मा᳚-न्मद्ध्य॒तः । 15) म॒द्ध्य॒तो ऽन्न॒ मन्न॑-म्मद्ध्य॒तो म॑द्ध्य॒तो ऽन्न᳚म् । 16) अन्न॑ मद्यते ऽद्य॒ते ऽन्न॒ मन्न॑ मद्यते । 17) अ॒द्य॒ते॒ बा॒र्॒ह॒स्प॒त्यो बा॑र्हस्प॒त्यो᳚ ऽद्यते ऽद्यते बार्हस्प॒त्यः । 18) बा॒र्॒ह॒स्प॒त्यो भ॑वति भवति बार्हस्प॒त्यो बा॑र्हस्प॒त्यो भ॑वति । 19) भ॒व॒ति॒ ब्रह्म॒ ब्रह्म॑ भवति भवति॒ ब्रह्म॑ । 20) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै । 21) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 22) दे॒वाना॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाना᳚-न्दे॒वाना॒-म्बृह॒स्पतिः॑ । 23) बृह॒स्पति॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑णा । 24) ब्रह्म॑णै॒ वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व । 25) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 26) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् । 27) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ । 28) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 29) रु॒न्धे॒ ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒सग्ं रु॑न्धे रुन्धे ब्रह्मवर्च॒सम् । 30) ब्र॒ह्म॒व॒र्च॒स म॑स्यसि ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स म॑सि । 30) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 31) अ॒सि॒ ब्र॒ह्म॒व॒र्च॒साय॑ ब्रह्मवर्च॒साया᳚स्यसि ब्रह्मवर्च॒साय॑ । 32) ब्र॒ह्म॒व॒र्च॒साय॑ त्वा त्वा ब्रह्मवर्च॒साय॑ ब्रह्मवर्च॒साय॑ त्वा । 32) ब्र॒ह्म॒व॒र्च॒सायेति॑ ब्रह्म - व॒र्च॒साय॑ । 33) त्वेतीति॑ त्वा॒ त्वेति॑ । 34) इत्या॑हा॒हे तीत्या॑ह । 35) आ॒ह॒ ते॒ज॒स्वी ते॑ज॒ स्व्या॑हाह तेज॒स्वी । 36) ते॒ज॒स्वी ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒सी ते॑ज॒स्वी ते॑ज॒स्वी ब्र॑ह्मवर्च॒सी । 37) ब्र॒ह्म॒व॒र्च॒सी भ॑वति भवति ब्रह्मवर्च॒सी ब्र॑ह्मवर्च॒सी भ॑वति । 37) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । 38) भ॒व॒ति॒ यस्य॒ यस्य॑ भवति भवति॒ यस्य॑ । 39) यस्यै॒ष ए॒ष यस्य॒ यस्यै॒षः । 40) ए॒ष उ॑पधी॒यत॑ उपधी॒यत॑ ए॒ष ए॒ष उ॑पधी॒यते᳚ । 41) उ॒प॒धी॒यते॒ यो य उ॑पधी॒यत॑ उपधी॒यते॒ यः । 41) उ॒प॒धी॒यत॒ इत्यु॑प - धी॒यते᳚ । 42) य उ॑ वु॒ यो य उ॑ । 43) उ॒ च॒ च॒ वु॒ च॒ । 44) चै॒न॒ मे॒न॒-ञ्च॒ चै॒न॒म् । 45) ए॒न॒ मे॒व मे॒व मे॑न मेन मे॒वम् । 46) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 47) वेदेति॒ वेद॑ । ॥ 10 ॥ (47/51) ॥ अ. 2 ॥
1) भू॒ते॒ष्ट॒का उपोप॑ भूतेष्ट॒का भू॑तेष्ट॒का उप॑ । 1) भू॒ते॒ष्ट॒का इति॑ भूत - इ॒ष्ट॒काः । 2) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 3) द॒धा॒ त्यत्रा॒त्रा त्रा᳚त्र दधाति दधा॒ त्यत्रा᳚त्र । 4) अत्रा᳚त्र॒ वै वा अत्रा॒त्रा त्रा᳚त्र॒ वै । 4) अत्रा॒त्रेत्यत्र॑ - अ॒त्र॒ । 5) वै मृ॒त्यु-र्मृ॒त्यु-र्वै वै मृ॒त्युः । 6) मृ॒त्यु-र्जा॑यते जायते मृ॒त्यु-र्मृ॒त्यु-र्जा॑यते । 7) जा॒य॒ते॒ यत्र॑यत्र॒ यत्र॑यत्र जायते जायते॒ यत्र॑यत्र । 8) यत्र॑यत्रै॒ वैव यत्र॑यत्र॒ यत्र॑यत्रै॒व । 8) यत्र॑य॒त्रेति॒ यत्र॑ - य॒त्र॒ । 9) ए॒व मृ॒त्यु-र्मृ॒त्यु रे॒वैव मृ॒त्युः । 10) मृ॒त्यु-र्जाय॑ते॒ जाय॑ते मृ॒त्यु-र्मृ॒त्यु-र्जाय॑ते । 11) जाय॑ते॒ तत॒ स्ततो॒ जाय॑ते॒ जाय॑ते॒ ततः॑ । 12) तत॑ ए॒वैव तत॒ स्तत॑ ए॒व । 13) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 14) ए॒न॒ मवा वै॑न मेन॒ मव॑ । 15) अव॑ यजते यज॒ते ऽवाव॑ यजते । 16) य॒ज॒ते॒ तस्मा॒-त्तस्मा᳚-द्यजते यजते॒ तस्मा᳚त् । 17) तस्मा॑ दग्नि॒चि द॑ग्नि॒चि-त्तस्मा॒-त्तस्मा॑ दग्नि॒चित् । 18) अ॒ग्नि॒चि-थ्सर्व॒ग्ं॒ सर्व॑ मग्नि॒चि द॑ग्नि॒चि-थ्सर्व᳚म् । 18) अ॒ग्नि॒चिदित्य॑ग्नि - चित् । 19) सर्व॒ मायु॒ रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ । 20) आयु॑ रेत्ये॒ त्यायु॒ रायु॑ रेति । 21) ए॒ति॒ सर्वे॒ सर्व॑ एत्येति॒ सर्वे᳚ । 22) सर्वे॒ हि हि सर्वे॒ सर्वे॒ हि । 23) ह्य॑स्यास्य॒ हि ह्य॑स्य । 24) अ॒स्य॒ मृ॒त्यवो॑ मृ॒त्यवो᳚ ऽस्यास्य मृ॒त्यवः॑ । 25) मृ॒त्यवो ऽवे᳚ष्टा॒ अवे᳚ष्टा मृ॒त्यवो॑ मृ॒त्यवो ऽवे᳚ष्टाः । 26) अवे᳚ष्टा॒ स्तस्मा॒-त्तस्मा॒ दवे᳚ष्टा॒ अवे᳚ष्टा॒ स्तस्मा᳚त् । 26) अवे᳚ष्टा॒ इत्यव॑ - इ॒ष्टाः॒ । 27) तस्मा॑ दग्नि॒चि द॑ग्नि॒चि-त्तस्मा॒-त्तस्मा॑ दग्नि॒चित् । 28) अ॒ग्नि॒चि-न्न नाग्नि॒चि द॑ग्नि॒चि-न्न । 28) अ॒ग्नि॒चिदित्य॑ग्नि - चित् । 29) नाभिच॑रित॒वा अ॒भिच॑रित॒वै न नाभिच॑रित॒वै । 30) अ॒भिच॑रित॒वै प्र॒त्य-क्प्र॒त्यग॒ भिच॑रित॒वा अ॒भिच॑रित॒वै प्र॒त्यक् । 30) अ॒भिच॑रित॒वा इत्य॒भि - च॒रि॒त॒वै । 31) प्र॒त्य गे॑न मेन-म्प्र॒त्य-क्प्र॒त्य गे॑नम् । 32) ए॒न॒ म॒भि॒चा॒रो॑ ऽभिचा॒र ए॑न मेन मभिचा॒रः । 33) अ॒भि॒चा॒र-स्स्तृ॑णुते स्तृणुते ऽभिचा॒रो॑ ऽभिचा॒र-स्स्तृ॑णुते । 33) अ॒भि॒चा॒र इत्य॑भि - चा॒रः । 34) स्तृ॒णु॒ते॒ सू॒यते॑ सू॒यते᳚ स्तृणुते स्तृणुते सू॒यते᳚ । 35) सू॒यते॒ वै वै सू॒यते॑ सू॒यते॒ वै । 36) वा ए॒ष ए॒ष वै वा ए॒षः । 37) ए॒ष यो य ए॒ष ए॒ष यः । 38) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 39) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 40) चि॒नु॒ते दे॑वसु॒वा-न्दे॑वसु॒वा-ञ्चि॑नु॒ते चि॑नु॒ते दे॑वसु॒वाम् । 41) दे॒व॒सु॒वा मे॒ता न्ये॒तानि॑ देवसु॒वा-न्दे॑वसु॒वा मे॒तानि॑ । 41) दे॒व॒सु॒वामिति॑ देव - सु॒वाम् । 42) ए॒तानि॑ ह॒वीग्ंषि॑ ह॒वी ग्ग्ष्ये॒ता न्ये॒तानि॑ ह॒वीग्ंषि॑ । 43) ह॒वीग्ंषि॑ भवन्ति भवन्ति ह॒वीग्ंषि॑ ह॒वीग्ंषि॑ भवन्ति । 44) भ॒व॒-न्त्ये॒ताव॑न्त ए॒ताव॑न्तो भवन्ति भव-न्त्ये॒ताव॑न्तः । 45) ए॒ताव॑न्तो॒ वै वा ए॒ताव॑न्त ए॒ताव॑न्तो॒ वै । 46) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 47) दे॒वानाग्ं॑ स॒वा-स्स॒वा दे॒वाना᳚-न्दे॒वानाग्ं॑ स॒वाः । 48) स॒वा स्ते ते स॒वा-स्स॒वा स्ते । 49) त ए॒वैव ते त ए॒व । 50) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । ॥ 11 ॥ (50/59)
1) अ॒स्मै॒ स॒वा-न्थ्स॒वा न॑स्मा अस्मै स॒वान् । 2) स॒वा-न्प्र प्र स॒वा-न्थ्स॒वा-न्प्र । 3) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति । 4) य॒च्छ॒न्ति॒ ते ते य॑च्छन्ति यच्छन्ति॒ ते । 5) त ए॑न मेन॒-न्ते त ए॑नम् । 6) ए॒न॒ग्ं॒ सु॒व॒न्ते॒ सु॒व॒न्त॒ ए॒न॒ मे॒न॒ग्ं॒ सु॒व॒न्ते॒ । 7) सु॒व॒न्ते॒ स॒व-स्स॒व-स्सु॑वन्ते सुवन्ते स॒वः । 8) स॒वो᳚ ऽग्नि र॒ग्नि-स्स॒व-स्स॒वो᳚ ऽग्निः । 9) अ॒ग्नि-र्व॑रुणस॒वो व॑रुणस॒वो᳚ ऽग्नि र॒ग्नि-र्व॑रुणस॒वः । 10) व॒रु॒ण॒स॒वो रा॑ज॒सूयग्ं॑ राज॒सूयं॑-वँरुणस॒वो व॑रुणस॒वो रा॑ज॒सूय᳚म् । 10) व॒रु॒ण॒स॒व इति॑ वरुण - स॒वः । 11) रा॒ज॒सूय॑-म्ब्रह्मस॒वो ब्र॑ह्मस॒वो रा॑ज॒सूयग्ं॑ राज॒सूय॑-म्ब्रह्मस॒वः । 11) रा॒ज॒सूय॒मिति॑ राज - सूय᳚म् । 12) ब्र॒ह्म॒स॒व श्चित्य॒ श्चित्यो᳚ ब्रह्मस॒वो ब्र॑ह्मस॒व श्चित्यः॑ । 12) ब्र॒ह्म॒स॒व इति॑ ब्रह्म - स॒वः । 13) चित्यो॑ दे॒वस्य॑ दे॒वस्य॒ चित्य॒ श्चित्यो॑ दे॒वस्य॑ । 14) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा । 15) त्वा॒ स॒वि॒तु-स्स॑वि॒तु स्त्वा᳚ त्वा सवि॒तुः । 16) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे । 17) प्र॒स॒व इतीति॑ प्रस॒वे प्र॑स॒व इति॑ । 17) प्र॒स॒व इति॑ प्र - स॒वे । 18) इत्या॑हा॒हे तीत्या॑ह । 19) आ॒ह॒ स॒वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत आहाह सवि॒तृप्र॑सूतः । 20) स॒वि॒तृप्र॑सूत ए॒वैव स॑वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत ए॒व । 20) स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । 21) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 22) ए॒न॒-म्ब्रह्म॑णा॒ ब्रह्म॑णैन मेन॒-म्ब्रह्म॑णा । 23) ब्रह्म॑णा दे॒वता॑भि-र्दे॒वता॑भि॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा दे॒वता॑भिः । 24) दे॒वता॑भि र॒भ्य॑भि दे॒वता॑भि-र्दे॒वता॑भि र॒भि । 25) अ॒भि षि॑ञ्चति सिञ्च त्य॒भ्य॑भि षि॑ञ्चति । 26) सि॒ञ्च॒ त्यन्न॑स्यान्न॒स्या न्न॑स्यान्नस्य सिञ्चति सिञ्च॒ त्यन्न॑स्यान्नस्य । 27) अन्न॑स्यान्नस्या॒ भ्य॑भ्यन्न॑स्यान्न॒स्या न्न॑स्यान्नस्या॒भि । 27) अन्न॑स्यान्न॒स्येत्यन्न॑स्य - अ॒न्न॒स्य॒ । 28) अ॒भि षि॑ञ्चति सिञ्च त्य॒भ्य॑भि षि॑ञ्चति । 29) सि॒ञ्च॒ त्यन्न॑स्यान्न॒स्या न्न॑स्यान्नस्य सिञ्चति सिञ्च॒ त्यन्न॑स्यान्नस्य । 30) अन्न॑स्यान्न॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या॒ अन्न॑स्यान्न॒स्या न्न॑स्यान्न॒स्या व॑रुद्ध्यै । 30) अन्न॑स्यान्न॒स्येत्यन्न॑स्य - अ॒न्न॒स्य॒ । 31) अव॑रुद्ध्यै पु॒रस्ता᳚-त्पु॒रस्ता॒ दव॑रुद्ध्या॒ अव॑रुद्ध्यै पु॒रस्ता᳚त् । 31) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 32) पु॒रस्ता᳚-त्प्र॒त्यञ्च॑-म्प्र॒त्यञ्च॑-म्पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्प्र॒त्यञ्च᳚म् । 33) प्र॒त्यञ्च॑ म॒भ्य॑भि प्र॒त्यञ्च॑-म्प्र॒त्यञ्च॑ म॒भि । 34) अ॒भि षि॑ञ्चति सिञ्च त्य॒भ्य॑भि षि॑ञ्चति । 35) सि॒ञ्च॒ति॒ पु॒रस्ता᳚-त्पु॒रस्ता᳚-थ्सिञ्चति सिञ्चति पु॒रस्ता᳚त् । 36) पु॒रस्ता॒ द्धि हि पु॒रस्ता᳚-त्पु॒रस्ता॒ द्धि । 37) हि प्र॑ती॒चीन॑-म्प्रती॒चीन॒ग्ं॒ हि हि प्र॑ती॒चीन᳚म् । 38) प्र॒ती॒चीन॒ मन्न॒ मन्न॑-म्प्रती॒चीन॑-म्प्रती॒चीन॒ मन्न᳚म् । 39) अन्न॑ म॒द्यते॒ ऽद्यते ऽन्न॒ मन्न॑ म॒द्यते᳚ । 40) अ॒द्यते॑ शीर्ष॒त-श्शी॑र्ष॒तो᳚ ऽद्यते॒ ऽद्यते॑ शीर्ष॒तः । 41) शी॒र्॒ष॒तो᳚(1॒) ऽभ्य॑भि शी॑र्ष॒त-श्शी॑र्ष॒तो॑ ऽभि । 42) अ॒भि षि॑ञ्चति सिञ्च त्य॒भ्य॑भि षि॑ञ्चति । 43) सि॒ञ्च॒ति॒ शी॒र्॒ष॒त-श्शी॑र्ष॒त-स्सि॑ञ्चति सिञ्चति शीर्ष॒तः । 44) शी॒र्॒ष॒तो हि हि शी॑र्ष॒त-श्शी॑र्ष॒तो हि । 45) ह्यन्न॒ मन्न॒ग्ं॒ हि ह्यन्न᳚म् । 46) अन्न॑ म॒द्यते॒ ऽद्यते ऽन्न॒ मन्न॑ म॒द्यते᳚ । 47) अ॒द्यत॒ आ ऽद्यते॒ ऽद्यत॒ आ । 48) आ मुखा॒-न्मुखा॒दा मुखा᳚त् । 49) मुखा॑ द॒न्वव॑स्रावय त्य॒न्वव॑स्रावयति॒ मुखा॒-न्मुखा॑ द॒न्वव॑स्रावयति । 50) अ॒न्वव॑स्रावयति मुख॒तो मु॑ख॒तो᳚ ऽन्वव॑स्रावय त्य॒न्वव॑स्रावयति मुख॒तः । 50) अ॒न्वव॑स्रावय॒तीत्य॑नु - अव॑स्रावयति । ॥ 12 ॥ (50/59)
1) मु॒ख॒त ए॒वैव मु॑ख॒तो मु॑ख॒त ए॒व । 2) ए॒वास्मा॑ अस्मा ए॒वैवा स्मै᳚ । 3) अ॒स्मा॒ अ॒न्नाद्य॑ म॒न्नाद्य॑ मस्मा अस्मा अ॒न्नाद्य᳚म् । 4) अ॒न्नाद्य॑-न्दधाति दधा त्य॒न्नाद्य॑ म॒न्नाद्य॑-न्दधाति । 4) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 5) द॒धा॒ त्य॒ग्ने र॒ग्ने-र्द॑धाति दधा त्य॒ग्नेः । 6) अ॒ग्ने स्त्वा᳚ त्वा॒ ऽग्ने र॒ग्ने स्त्वा᳚ । 7) त्वा॒ साम्रा᳚ज्येन॒ साम्रा᳚ज्येन त्वा त्वा॒ साम्रा᳚ज्येन । 8) साम्रा᳚ज्येना॒ भ्य॑भि साम्रा᳚ज्येन॒ साम्रा᳚ज्येना॒भि । 8) साम्रा᳚ज्ये॒नेति॒ सां - रा॒ज्ये॒न॒ । 9) अ॒भि षि॑ञ्चामि सिञ्चा म्य॒भ्य॑भि षि॑ञ्चामि । 10) सि॒ञ्चा॒मीतीति॑ सिञ्चामि सिञ्चा॒मीति॑ । 11) इत्या॑हा॒हे तीत्या॑ह । 12) आ॒है॒ष ए॒ष आ॑हा है॒षः । 13) ए॒ष वै वा ए॒ष ए॒ष वै । 14) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 15) अ॒ग्ने-स्स॒व-स्स॒वो᳚ ऽग्ने र॒ग्ने-स्स॒वः । 16) स॒व स्तेन॒ तेन॑ स॒व-स्स॒व स्तेन॑ । 17) तेनै॒वैव तेन॒ तेनै॒व । 18) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 19) ए॒न॒ म॒भ्या᳚(1॒)भ्ये॑न मेन म॒भि । 20) अ॒भि षि॑ञ्चति सिञ्च त्य॒भ्य॑भि षि॑ञ्चति । 21) सि॒ञ्च॒ति॒ बृह॒स्पते॒-र्बृह॒स्पते᳚-स्सिञ्चति सिञ्चति॒ बृह॒स्पतेः᳚ । 22) बृह॒स्पते᳚ स्त्वा त्वा॒ बृह॒स्पते॒-र्बृह॒स्पते᳚ स्त्वा । 23) त्वा॒ साम्रा᳚ज्येन॒ साम्रा᳚ज्येन त्वा त्वा॒ साम्रा᳚ज्येन । 24) साम्रा᳚ज्येना॒भ्य॑भि साम्रा᳚ज्येन॒ साम्रा᳚ज्येना॒भि । 24) साम्रा᳚ज्ये॒नेति॒ सां - रा॒ज्ये॒न॒ । 25) अ॒भि षि॑ञ्चामि सिञ्चा म्य॒भ्य॑भि षि॑ञ्चामि । 26) सि॒ञ्चा॒मीतीति॑ सिञ्चामि सिञ्चा॒मीति॑ । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒ह॒ ब्रह्म॒ ब्रह्मा॑ हाह॒ ब्रह्म॑ । 29) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै । 30) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 31) दे॒वाना॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाना᳚-न्दे॒वाना॒-म्बृह॒स्पतिः॑ । 32) बृह॒स्पति॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑णा । 33) ब्रह्म॑ णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व । 34) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 35) ए॒न॒ म॒भ्या᳚(1॒)भ्ये॑न मेन म॒भि । 36) अ॒भि षि॑ञ्चति सिञ्च त्य॒भ्य॑भि षि॑ञ्चति । 37) सि॒ञ्च॒तीन्द्र॒ स्येन्द्र॑स्य सिञ्चति सिञ्च॒तीन्द्र॑स्य । 38) इन्द्र॑स्य त्वा॒ त्वेन्द्र॒ स्येन्द्र॑स्य त्वा । 39) त्वा॒ साम्रा᳚ज्येन॒ साम्रा᳚ज्येन त्वा त्वा॒ साम्रा᳚ज्येन । 40) साम्रा᳚ज्येना॒ भ्य॑भि साम्रा᳚ज्येन॒ साम्रा᳚ज्येना॒भि । 40) साम्रा᳚ज्ये॒नेति॒ सां - रा॒ज्ये॒न॒ । 41) अ॒भि षि॑ञ्चामि सिञ्चा म्य॒भ्य॑भि षि॑ञ्चामि । 42) सि॒ञ्चा॒मीतीति॑ सिञ्चामि सिञ्चा॒मीति॑ । 43) इत्या॑हा॒हे तीत्या॑ह । 44) आ॒हे॒न्द्रि॒य मि॑न्द्रि॒य मा॑हा हेन्द्रि॒यम् । 45) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व । 46) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ । 47) अ॒स्मि॒-न्नु॒परि॑ष्टा दु॒परि॑ष्टा दस्मि-न्नस्मि-न्नु॒परि॑ष्टात् । 48) उ॒परि॑ष्टा-द्दधाति दधा त्यु॒परि॑ष्टा दु॒परि॑ष्टा-द्दधाति । 49) द॒धा॒ त्ये॒त दे॒त-द्द॑धाति दधा त्ये॒तत् । 50) ए॒त-द्वै वा ए॒त दे॒त-द्वै । ॥ 13 ॥ (50/54)
1) वै रा॑ज॒सूय॑स्य राज॒सूय॑स्य॒ वै वै रा॑ज॒सूय॑स्य । 2) रा॒ज॒सूय॑स्य रू॒पग्ं रू॒पग्ं रा॑ज॒सूय॑स्य राज॒सूय॑स्य रू॒पम् । 2) रा॒ज॒सूय॒स्येति॑ राज - सूय॑स्य । 3) रू॒पं-योँ यो रू॒पग्ं रू॒पं-यः ँ। 4) य ए॒व मे॒वं-योँ य ए॒वम् । 5) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 6) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् । 7) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 8) चि॒नु॒त उ॒भा वु॒भौ चि॑नु॒ते चि॑नु॒त उ॒भौ । 9) उ॒भा वे॒वैवोभा वु॒भा वे॒व । 10) ए॒व लो॒कौ लो॒का वे॒वैव लो॒कौ । 11) लो॒का व॒भ्य॑भि लो॒कौ लो॒का व॒भि । 12) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 13) ज॒य॒ति॒ यो यो ज॑यति जयति॒ यः । 14) यश्च॑ च॒ यो यश्च॑ । 15) च॒ रा॒ज॒सूये॑न राज॒सूये॑न च च राज॒सूये॑न । 16) रा॒ज॒सूये॑ नेजा॒न स्ये॑जा॒नस्य॑ राज॒सूये॑न राज॒सूये॑ नेजा॒नस्य॑ । 16) रा॒ज॒सूये॒नेति॑ राज - सूये॑न । 17) ई॒जा॒नस्य॒ यो य ई॑जा॒न स्ये॑जा॒नस्य॒ यः । 18) यश्च॑ च॒ यो यश्च॑ । 19) चा॒ग्नि॒चितो᳚ ऽग्नि॒चित॑श्च चाग्नि॒चितः॑ । 20) अ॒ग्नि॒चित॒ इन्द्र॒ स्येन्द्र॑स्या ग्नि॒चितो᳚ ऽग्नि॒चित॒ इन्द्र॑स्य । 20) अ॒ग्नि॒चित॒ इत्य॑ग्नि - चितः॑ । 21) इन्द्र॑स्य सुषुवा॒णस्य॑ सुषुवा॒ण स्येन्द्र॒ स्येन्द्र॑स्य सुषुवा॒णस्य॑ । 22) सु॒षु॒वा॒णस्य॑ दश॒धा द॑श॒धा सु॑षुवा॒णस्य॑ सुषुवा॒णस्य॑ दश॒धा । 23) द॒श॒धेन्द्रि॒य मि॑न्द्रि॒य-न्द॑श॒धा द॑श॒धेन्द्रि॒यम् । 23) द॒श॒धेति॑ दश - धा । 24) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् । 25) वी॒र्य॑-म्परा॒ परा॑ वी॒र्यं॑-वीँ॒र्य॑-म्परा᳚ । 26) परा॑ ऽपत दपत॒-त्परा॒ परा॑ ऽपतत् । 27) अ॒प॒त॒-त्त-त्तद॑पत दपत॒-त्तत् । 28) त-द्दे॒वा दे॒वा स्त-त्त-द्दे॒वाः । 29) दे॒वा-स्सौ᳚त्राम॒ण्या सौ᳚त्राम॒ण्या दे॒वा दे॒वा-स्सौ᳚त्राम॒ण्या । 30) सौ॒त्रा॒म॒ण्या सग्ं सग्ं सौ᳚त्राम॒ण्या सौ᳚त्राम॒ण्या सम् । 31) स म॑भर-न्नभर॒-न्थ्सग्ं स म॑भरन्न् । 32) अ॒भ॒र॒-न्थ्सू॒यते॑ सू॒यते॑ ऽभर-न्नभर-न्थ्सू॒यते᳚ । 33) सू॒यते॒ वै वै सू॒यते॑ सू॒यते॒ वै । 34) वा ए॒ष ए॒ष वै वा ए॒षः । 35) ए॒ष यो य ए॒ष ए॒ष यः । 36) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 37) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 38) चि॒नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्निम् । 39) अ॒ग्नि-ञ्चि॒त्वा चि॒त्वा ऽग्नि म॒ग्नि-ञ्चि॒त्वा । 40) चि॒त्वा सौ᳚त्राम॒ण्या सौ᳚त्राम॒ण्या चि॒त्वा चि॒त्वा सौ᳚त्राम॒ण्या । 41) सौ॒त्रा॒म॒ण्या य॑जेत यजेत सौत्राम॒ण्या सौ᳚त्राम॒ण्या य॑जेत । 42) य॒जे॒ते॒न्द्रि॒य मि॑न्द्रि॒यं-यँ॑जेत यजेतेन्द्रि॒यम् । 43) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व । 44) ए॒व वी॒र्यं॑-वीँ॒र्य॑ मे॒वैव वी॒र्य᳚म् । 45) वी॒र्यग्ं॑ स॒म्भृत्य॑ स॒म्भृत्य॑ वी॒र्यं॑-वीँ॒र्यग्ं॑ स॒म्भृत्य॑ । 46) स॒म्भृ त्या॒त्म-न्ना॒त्म-न्थ्स॒म्भृत्य॑ स॒म्भृ त्या॒त्मन्न् । 46) स॒म्भृत्येति॑ सं - भृत्य॑ । 47) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 48) ध॒त्त॒ इति॑ धत्ते । ॥ 14 ॥ (48/53) ॥ अ. 3 ॥
1) स॒जू रब्दो ऽब्द॑-स्स॒जू-स्स॒जू रब्दः॑ । 1) स॒जूरिति॑ स - जूः । 2) अब्दो ऽया॑वभि॒ रया॑वभि॒ रब्दो ऽब्दो ऽया॑वभिः । 3) अया॑वभि-स्स॒जू-स्स॒जू रया॑वभि॒ रया॑वभि-स्स॒जूः । 3) अया॑वभि॒रित्यया॑व - भिः॒ । 4) स॒जू रु॒षा उ॒षा-स्स॒जू-स्स॒जू रु॒षाः । 4) स॒जूरिति॑ स - जूः । 5) उ॒षा अरु॑णीभि॒ ररु॑णीभि रु॒षा उ॒षा अरु॑णीभिः । 6) अरु॑णीभि-स्स॒जू-स्स॒जू ररु॑णीभि॒ ररु॑णीभि-स्स॒जूः । 7) स॒जू-स्सूर्य॒-स्सूर्य॑-स्स॒जू-स्स॒जू-स्सूर्यः॑ । 7) स॒जूरिति॑ स - जूः । 8) सूर्य॒ एत॑शे॒ नैत॑शेन॒ सूर्य॒-स्सूर्य॒ एत॑शेन । 9) एत॑शेन स॒जोषौ॑ स॒जोषा॒ वेत॑शे॒ नैत॑शेन स॒जोषौ᳚ । 10) स॒जोषा॑ व॒श्विना॒ ऽश्विना॑ स॒जोषौ॑ स॒जोषा॑ व॒श्विना᳚ । 10) स॒जोषा॒विति॑ स - जोषौ᳚ । 11) अ॒श्विना॒ दग्ंसो॑भि॒-र्दग्ंसो॑भि र॒श्विना॒ ऽश्विना॒ दग्ंसो॑भिः । 12) दग्ंसो॑भि-स्स॒जू-स्स॒जू-र्दग्ंसो॑भि॒-र्दग्ंसो॑भि-स्स॒जूः । 12) दग्ंसो॑भि॒रिति॒ दग्ंसः॑ - भिः॒ । 13) स॒जू र॒ग्नि र॒ग्नि-स्स॒जू-स्स॒जू र॒ग्निः । 13) स॒जूरिति॑ स - जूः । 14) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः । 15) वै॒श्वा॒न॒र इडा॑भि॒ रिडा॑भि-र्वैश्वान॒रो वै᳚श्वान॒र इडा॑भिः । 16) इडा॑भि-र्घृ॒तेन॑ घृ॒तेने डा॑भि॒ रिडा॑भि-र्घृ॒तेन॑ । 17) घृ॒तेन॒ स्वाहा॒ स्वाहा॑ घृ॒तेन॑ घृ॒तेन॒ स्वाहा᳚ । 18) स्वाहा॑ संवँथ्स॒र-स्सं॑वँथ्स॒र-स्स्वाहा॒ स्वाहा॑ संवँथ्स॒रः । 19) सं॒वँ॒थ्स॒रो वै वै सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वै । 19) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 20) वा अब्दो ऽब्दो॒ वै वा अब्दः॑ । 21) अब्दो॒ मासा॒ मासा॒ अब्दो ऽब्दो॒ मासाः᳚ । 22) मासा॒ अया॑वा॒ अया॑वा॒ मासा॒ मासा॒ अया॑वाः । 23) अया॑वा उ॒षा उ॒षा अया॑वा॒ अया॑वा उ॒षाः । 24) उ॒षा अरु॒ ण्यरु॑ ण्यु॒षा उ॒षा अरु॑णी । 25) अरु॑णी॒ सूर्य॒-स्सूर्यो ऽरु॒ ण्यरु॑णी॒ सूर्यः॑ । 26) सूर्य॒ एत॑श॒ एत॑श॒-स्सूर्य॒-स्सूर्य॒ एत॑शः । 27) एत॑श इ॒मे इ॒मे एत॑श॒ एत॑श इ॒मे । 28) इ॒मे अ॒श्विना॒ ऽश्विने॒मे इ॒मे अ॒श्विना᳚ । 28) इ॒मे इती॒मे । 29) अ॒श्विना॑ संवँथ्स॒र-स्सं॑वँथ्स॒रो᳚ ऽश्विना॒ ऽश्विना॑ संवँथ्स॒रः । 30) सं॒वँ॒थ्स॒रो᳚ ऽग्नि र॒ग्नि-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो᳚ ऽग्निः । 30) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 31) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः । 32) वै॒श्वा॒न॒रः प॒शवः॑ प॒शवो॑ वैश्वान॒रो वै᳚श्वान॒रः प॒शवः॑ । 33) प॒शव॒ इडेडा॑ प॒शवः॑ प॒शव॒ इडा᳚ । 34) इडा॑ प॒शवः॑ प॒शव॒ इडेडा॑ प॒शवः॑ । 35) प॒शवो॑ घृ॒त-ङ्घृ॒त-म्प॒शवः॑ प॒शवो॑ घृ॒तम् । 36) घृ॒तग्ं सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र-ङ्घृ॒त-ङ्घृ॒तग्ं सं॑वँथ्स॒रम् । 37) सं॒वँ॒थ्स॒र-म्प॒शवः॑ प॒शव॑-स्संवँथ्स॒रग्ं सं॑वँथ्स॒र-म्प॒शवः॑ । 37) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 38) प॒शवो ऽन्वनु॑ प॒शवः॑ प॒शवो ऽनु॑ । 39) अनु॒ प्र प्राण्वनु॒ प्र । 40) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते । 41) जा॒य॒न्ते॒ सं॒वँ॒थ्स॒रेण॑ संवँथ्स॒रेण॑ जायन्ते जायन्ते संवँथ्स॒रेण॑ । 42) सं॒वँ॒थ्स॒रे णै॒वैव सं॑वँथ्स॒रेण॑ संवँथ्स॒रेणै॒व । 42) सं॒वँ॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ । 43) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 44) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् । 45) प॒शू-न्प्र प्र प॒शू-न्प॒शू-न्प्र । 46) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति । 47) ज॒न॒य॒ति॒ द॒र्भ॒स्त॒म्बे द॑र्भस्त॒म्बे ज॑नयति जनयति दर्भस्त॒म्बे । 48) द॒र्भ॒स्त॒म्बे जु॑होति जुहोति दर्भस्त॒म्बे द॑र्भस्त॒म्बे जु॑होति । 48) द॒र्भ॒स्त॒म्ब इति॑ दर्भ - स्त॒म्बे । 49) जु॒हो॒ति॒ य-द्यज् जु॑होति जुहोति॒ यत् । 50) य-द्वै वै य-द्य-द्वै । ॥ 15 ॥ (50/63)
1) वा अ॒स्या अ॒स्या वै वा अ॒स्याः । 2) अ॒स्या अ॒मृत॑ म॒मृत॑ म॒स्या अ॒स्या अ॒मृत᳚म् । 3) अ॒मृतं॒-यँ-द्यद॒मृत॑ म॒मृतं॒-यँत् । 4) य-द्वी॒र्यं॑-वीँ॒र्यं॑-यँ-द्य-द्वी॒र्य᳚म् । 5) वी॒र्य॑-न्त-त्त-द्वी॒र्यं॑-वीँ॒र्य॑-न्तत् । 6) त-द्द॒र्भा द॒र्भा स्त-त्त-द्द॒र्भाः । 7) द॒र्भा स्तस्मि॒ग्ग्॒ स्तस्मि॑-न्द॒र्भा द॒र्भा स्तस्मिन्न्॑ । 8) तस्मि॑न् जुहोति जुहोति॒ तस्मि॒ग्ग्॒ स्तस्मि॑न् जुहोति । 9) जु॒हो॒ति॒ प्र प्र जु॑होति जुहोति॒ प्र । 10) प्रैवैव प्र प्रैव । 11) ए॒व जा॑यते जायत ए॒वैव जा॑यते । 12) जा॒य॒ते॒ ऽन्ना॒दो᳚ ऽन्ना॒दो जा॑यते जायते ऽन्ना॒दः । 13) अ॒न्ना॒दो भ॑वति भव त्यन्ना॒दो᳚ ऽन्ना॒दो भ॑वति । 13) अ॒न्ना॒द इत्य॑न्न - अ॒दः । 14) भ॒व॒ति॒ यस्य॒ यस्य॑ भवति भवति॒ यस्य॑ । 15) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् । 16) ए॒व-ञ्जुह्व॑ति॒ जुह्व॑ त्ये॒व मे॒व-ञ्जुह्व॑ति । 17) जुह्व॑ त्ये॒ता ए॒ता जुह्व॑ति॒ जुह्व॑ त्ये॒ताः । 18) ए॒ता वै वा ए॒ता ए॒ता वै । 19) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ । 20) दे॒वता॑ अ॒ग्ने र॒ग्ने-र्दे॒वता॑ दे॒वता॑ अ॒ग्नेः । 21) अ॒ग्नेः पु॒रस्ता᳚द्भागाः पु॒रस्ता᳚द्भागा अ॒ग्ने र॒ग्नेः पु॒रस्ता᳚द्भागाः । 22) पु॒रस्ता᳚द्भागा॒ स्ता स्ताः पु॒रस्ता᳚द्भागाः पु॒रस्ता᳚द्भागा॒ स्ताः । 22) पु॒रस्ता᳚द्भागा॒ इति॑ पु॒रस्ता᳚त् - भा॒गाः॒ । 23) ता ए॒वैव ता स्ता ए॒व । 24) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति । 25) प्री॒णा॒ त्यथो॒ अथो᳚ प्रीणाति प्रीणा॒ त्यथो᳚ । 26) अथो॒ चक्षु॒ श्चक्षु॒ रथो॒ अथो॒ चक्षुः॑ । 26) अथो॒ इत्यथो᳚ । 27) चक्षु॑ रे॒वैव चक्षु॒ श्चक्षु॑ रे॒व । 28) ए॒वाग्ने र॒ग्ने रे॒वै वाग्नेः । 29) अ॒ग्नेः पु॒रस्ता᳚-त्पु॒रस्ता॑ द॒ग्ने र॒ग्नेः पु॒रस्ता᳚त् । 30) पु॒रस्ता॒-त्प्रति॒ प्रति॑ पु॒रस्ता᳚-त्पु॒रस्ता॒-त्प्रति॑ । 31) प्रति॑ दधाति दधाति॒ प्रति॒ प्रति॑ दधाति । 32) द॒धा॒ त्यन॒न्धो ऽन॑न्धो दधाति दधा॒ त्यन॑न्धः । 33) अन॑न्धो भवति भव॒ त्यन॒न्धो ऽन॑न्धो भवति । 34) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 35) य ए॒व मे॒वं-योँ य ए॒वम् । 36) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 37) वेदाप॒ आपो॒ वेद॒ वेदापः॑ । 38) आपो॒ वै वा आप॒ आपो॒ वै । 39) वा इ॒द मि॒दं-वैँ वा इ॒दम् । 40) इ॒द मग्रे ऽग्र॑ इ॒द मि॒द मग्रे᳚ । 41) अग्रे॑ सलि॒लग्ं स॑लि॒ल मग्रे ऽग्रे॑ सलि॒लम् । 42) स॒लि॒ल मा॑सी दासी-थ्सलि॒लग्ं स॑लि॒ल मा॑सीत् । 43) आ॒सी॒-थ्स स आ॑सी दासी॒-थ्सः । 44) स प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्स स प्र॒जाप॑तिः । 45) प्र॒जाप॑तिः पुष्करप॒र्णे पु॑ष्करप॒र्णे प्र॒जाप॑तिः प्र॒जाप॑तिः पुष्करप॒र्णे । 45) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 46) पु॒ष्क॒र॒प॒र्णे वातो॒ वातः॑ पुष्करप॒र्णे पु॑ष्करप॒र्णे वातः॑ । 46) पु॒ष्क॒र॒प॒र्ण इति॑ पुष्कर - प॒र्णे । 47) वातो॑ भू॒तो भू॒तो वातो॒ वातो॑ भू॒तः । 48) भू॒तो॑ ऽलेलाय दलेलाय-द्भू॒तो भू॒तो॑ ऽलेलायत् । 49) अ॒ले॒ला॒य॒-थ्स सो॑ ऽलेलाय दलेलाय॒-थ्सः । 50) स प्र॑ति॒ष्ठा-म्प्र॑ति॒ष्ठाग्ं स स प्र॑ति॒ष्ठाम् । ॥ 16 ॥ (50/55)
1) प्र॒ति॒ष्ठा-न्न न प्र॑ति॒ष्ठा-म्प्र॑ति॒ष्ठा-न्न । 1) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । 2) नावि॑न्दता विन्दत॒ न नावि॑न्दत । 3) अ॒वि॒न्द॒त॒ स सो॑ ऽविन्दता विन्दत॒ सः । 4) स ए॒त दे॒त-थ्स स ए॒तत् । 5) ए॒त द॒पा म॒पा मे॒त दे॒त द॒पाम् । 6) अ॒पा-ङ्कु॒लाय॑-ङ्कु॒लाय॑ म॒पा म॒पा-ङ्कु॒लाय᳚म् । 7) कु॒लाय॑ मपश्य दपश्य-त्कु॒लाय॑-ङ्कु॒लाय॑ मपश्यत् । 8) अ॒प॒श्य॒-त्तस्मि॒ग्ग्॒ स्तस्मि॑-न्नपश्य दपश्य॒-त्तस्मिन्न्॑ । 9) तस्मि॑-न्न॒ग्नि म॒ग्नि-न्तस्मि॒ग्ग्॒ स्तस्मि॑-न्न॒ग्निम् । 10) अ॒ग्नि म॑चिनुता चिनुता॒ग्नि म॒ग्नि म॑चिनुत । 11) अ॒चि॒नु॒त॒ त-त्तद॑चिनु ताचिनुत॒ तत् । 12) तदि॒य मि॒य-न्त-त्तदि॒यम् । 13) इ॒य म॑भव दभव दि॒य मि॒य म॑भवत् । 14) अ॒भ॒व॒-त्तत॒ स्ततो॑ ऽभव दभव॒-त्ततः॑ । 15) ततो॒ वै वै तत॒ स्ततो॒ वै । 16) वै स स वै वै सः । 17) स प्रति॒ प्रति॒ स स प्रति॑ । 18) प्रत्य॑तिष्ठ दतिष्ठ॒-त्प्रति॒ प्रत्य॑तिष्ठत् । 19) अ॒ति॒ष्ठ॒-द्यां-याँ म॑तिष्ठ दतिष्ठ॒-द्याम् । 20) या-म्पु॒रस्ता᳚-त्पु॒रस्ता॒-द्यां-याँ-म्पु॒रस्ता᳚त् । 21) पु॒रस्ता॑ दु॒पाद॑धा दु॒पाद॑धा-त्पु॒रस्ता᳚-त्पु॒रस्ता॑ दु॒पाद॑धात् । 22) उ॒पाद॑धा॒-त्त-त्तदु॒पाद॑धा दु॒पाद॑धा॒-त्तत् । 22) उ॒पाद॑धा॒दित्यु॑प - अद॑धात् । 23) तच्छिर॒-श्शिर॒ स्त-त्तच्छिरः॑ । 24) शिरो॑ ऽभव दभव॒ च्छिर॒-श्शिरो॑ ऽभवत् । 25) अ॒भ॒व॒-थ्सा सा ऽभ॑व दभव॒-थ्सा । 26) सा प्राची॒ प्राची॒ सा सा प्राची᳚ । 27) प्राची॒ दिग् दि-क्प्राची॒ प्राची॒ दिक् । 28) दिग् यां-याँ-न्दिग् दिग् याम् । 29) या-न्द॑क्षिण॒तो द॑क्षिण॒तो यां-याँ-न्द॑क्षिण॒तः । 30) द॒क्षि॒ण॒त उ॒पाद॑धा दु॒पाद॑धा-द्दक्षिण॒तो द॑क्षिण॒त उ॒पाद॑धात् । 31) उ॒पाद॑धा॒-थ्स स उ॒पाद॑धा दु॒पाद॑धा॒-थ्सः । 31) उ॒पाद॑धा॒दित्यु॑प - अद॑धात् । 32) स दक्षि॑णो॒ दक्षि॑ण॒-स्स स दक्षि॑णः । 33) दक्षि॑णः प॒क्षः प॒क्षो दक्षि॑णो॒ दक्षि॑णः प॒क्षः । 34) प॒क्षो॑ ऽभव दभव-त्प॒क्षः प॒क्षो॑ ऽभवत् । 35) अ॒भ॒व॒-थ्सा सा ऽभ॑व दभव॒-थ्सा । 36) सा द॑क्षि॒णा द॑क्षि॒णा सा सा द॑क्षि॒णा । 37) द॒क्षि॒णा दिग् दिग् द॑क्षि॒णा द॑क्षि॒णा दिक् । 38) दिग् यां-याँ-न्दिग् दिग् याम् । 39) या-म्प॒श्चा-त्प॒श्चा-द्यां-याँ-म्प॒श्चात् । 40) प॒श्चा दु॒पाद॑धा दु॒पाद॑धा-त्प॒श्चा-त्प॒श्चा दु॒पाद॑धात् । 41) उ॒पाद॑धा॒-त्त-त्तदु॒पाद॑धा दु॒पाद॑धा॒-त्तत् । 41) उ॒पाद॑धा॒दित्यु॑प - अद॑धात् । 42) त-त्पुच्छ॒-म्पुच्छ॒-न्त-त्त-त्पुच्छ᳚म् । 43) पुच्छ॑ मभव दभव॒-त्पुच्छ॒-म्पुच्छ॑ मभवत् । 44) अ॒भ॒व॒-थ्सा सा ऽभ॑व दभव॒-थ्सा । 45) सा प्र॒तीची᳚ प्र॒तीची॒ सा सा प्र॒तीची᳚ । 46) प्र॒तीची॒ दिग् दि-क्प्र॒तीची᳚ प्र॒तीची॒ दिक् । 47) दिग् यां-याँ-न्दिग् दिग् याम् । 48) या मु॑त्तर॒त उ॑त्तर॒तो यां-याँ मु॑त्तर॒तः । 49) उ॒त्त॒र॒त उ॒पाद॑धा दु॒पाद॑धा दुत्तर॒त उ॑त्तर॒त उ॒पाद॑धात् । 49) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 50) उ॒पाद॑धा॒-थ्स स उ॒पाद॑धा दु॒पाद॑धा॒-थ्सः । 50) उ॒पाद॑धा॒दित्यु॑प - अद॑धात् । ॥ 17 ॥ (50/56)
1) स उत्त॑र॒ उत्त॑र॒-स्स स उत्त॑रः । 2) उत्त॑रः प॒क्षः प॒क्ष उत्त॑र॒ उत्त॑रः प॒क्षः । 2) उत्त॑र॒ इत्युत् - त॒रः॒ । 3) प॒क्षो॑ ऽभव दभव-त्प॒क्षः प॒क्षो॑ ऽभवत् । 4) अ॒भ॒व॒-थ्सा सा ऽभ॑व दभव॒-थ्सा । 5) सोदी॒ च्युदी॑ची॒ सा सोदी॑ची । 6) उदी॑ची॒ दिग् दिगुदी॒ च्युदी॑ची॒ दिक् । 7) दिग् यां-याँ-न्दिग् दिग् याम् । 8) या मु॒परि॑ष्टा दु॒परि॑ष्टा॒-द्यां-याँ मु॒परि॑ष्टात् । 9) उ॒परि॑ष्टा दु॒पाद॑धा दु॒पाद॑धा दु॒परि॑ष्टा दु॒परि॑ष्टा दु॒पाद॑धात् । 10) उ॒पाद॑धा॒-त्त-त्तदु॒पाद॑धा दु॒पाद॑धा॒-त्तत् । 10) उ॒पाद॑धा॒दित्यु॑प - अद॑धात् । 11) त-त्पृ॒ष्ठ-म्पृ॒ष्ठ-न्त-त्त-त्पृ॒ष्ठम् । 12) पृ॒ष्ठ म॑भव दभव-त्पृ॒ष्ठ-म्पृ॒ष्ठ म॑भवत् । 13) अ॒भ॒व॒-थ्सा सा ऽभ॑व दभव॒-थ्सा । 14) सोर्ध्वो र्ध्वा सा सोर्ध्वा । 15) ऊ॒र्ध्वा दिग् दिगू॒र्ध्वो र्ध्वा दिक् । 16) दिगि॒य मि॒य-न्दिग् दिगि॒यम् । 17) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ । 18) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 19) अ॒ग्निः पञ्चे᳚ष्टकः॒ पञ्चे᳚ष्टको॒ ऽग्नि र॒ग्निः पञ्चे᳚ष्टकः । 20) पञ्चे᳚ष्टक॒ स्तस्मा॒-त्तस्मा॒-त्पञ्चे᳚ष्टकः॒ पञ्चे᳚ष्टक॒ स्तस्मा᳚त् । 20) पञ्चे᳚ष्टक॒ इति॒ पञ्च॑ - इ॒ष्ट॒कः॒ । 21) तस्मा॒-द्य-द्य-त्तस्मा॒-त्तस्मा॒-द्यत् । 22) यद॒स्या म॒स्यां-यँ-द्यद॒स्याम् । 23) अ॒स्या-ङ्खन॑न्ति॒ खन॑-न्त्य॒स्या म॒स्या-ङ्खन॑न्ति । 24) खन॑-न्त्य॒भ्य॑भि खन॑न्ति॒ खन॑-न्त्य॒भि । 25) अ॒भीष्ट॑का॒ मिष्ट॑का म॒भ्य॑भी ष्ट॑काम् । 26) इष्ट॑का-न्तृ॒न्दन्ति॑ तृ॒न्दन्ती ष्ट॑का॒ मिष्ट॑का-न्तृ॒न्दन्ति॑ । 27) तृ॒न्द-न्त्य॒भ्य॑भि तृ॒न्दन्ति॑ तृ॒न्द-न्त्य॒भि । 28) अ॒भि शर्क॑रा॒ग्ं॒ शर्क॑रा म॒भ्य॑भि शर्क॑राम् । 29) शर्क॑रा॒ग्ं॒ सर्वा॒ सर्वा॒ शर्क॑रा॒ग्ं॒ शर्क॑रा॒ग्ं॒ सर्वा᳚ । 30) सर्वा॒ वै वै सर्वा॒ सर्वा॒ वै । 31) वा इ॒य मि॒यं-वैँ वा इ॒यम् । 32) इ॒यं-वँयो᳚भ्यो॒ वयो᳚भ्य इ॒य मि॒यं-वँयो᳚भ्यः । 33) वयो᳚भ्यो॒ नक्त॒-न्नक्तं॒-वँयो᳚भ्यो॒ वयो᳚भ्यो॒ नक्त᳚म् । 33) वयो᳚भ्य॒ इति॒ वयः॑ - भ्यः॒ । 34) नक्त॑-न्दृ॒शे दृ॒शे नक्त॒-न्नक्त॑-न्दृ॒शे । 35) दृ॒शे दी᳚प्यते दीप्यते दृ॒शे दृ॒शे दी᳚प्यते । 36) दी॒प्य॒ते॒ तस्मा॒-त्तस्मा᳚-द्दीप्यते दीप्यते॒ तस्मा᳚त् । 37) तस्मा॑ दि॒मा मि॒मा-न्तस्मा॒-त्तस्मा॑ दि॒माम् । 38) इ॒मां-वँयाग्ं॑सि॒ वयाग्ं॑सी॒मा मि॒मां-वँयाग्ं॑सि । 39) वयाग्ं॑सि॒ नक्त॒-न्नक्तं॒-वँयाग्ं॑सि॒ वयाग्ं॑सि॒ नक्त᳚म् । 40) नक्त॒-न्न न नक्त॒-न्नक्त॒-न्न । 41) नाध्यधि॒ न नाधि॑ । 42) अध्या॑सत आस॒ते ऽध्य ध्या॑सते । 43) आ॒स॒ते॒ यो य आ॑सत आसते॒ यः । 44) य ए॒व मे॒वं-योँ य ए॒वम् । 45) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 46) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् । 47) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 48) चि॒नु॒ते प्रति॒ प्रति॑ चिनु॒ते चि॑नु॒ते प्रति॑ । 49) प्रत्ये॒वैव प्रति॒ प्रत्ये॒व । 50) ए॒व ति॑ष्ठति तिष्ठ त्ये॒वैव ति॑ष्ठति । ॥ 18 ॥ (50/54)
1) ति॒ष्ठ॒ त्य॒भ्य॑भि ति॑ष्ठति तिष्ठ त्य॒भि । 2) अ॒भि दिशो॒ दिशो॒ ऽभ्य॑भि दिशः॑ । 3) दिशो॑ जयति जयति॒ दिशो॒ दिशो॑ जयति । 4) ज॒य॒ त्या॒ग्ने॒य आ᳚ग्ने॒यो ज॑यति जय त्याग्ने॒यः । 5) आ॒ग्ने॒यो वै वा आ᳚ग्ने॒य आ᳚ग्ने॒यो वै । 6) वै ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो वै वै ब्रा᳚ह्म॒णः । 7) ब्रा॒ह्म॒ण स्तस्मा॒-त्तस्मा᳚-द्ब्राह्म॒णो ब्रा᳚ह्म॒ण स्तस्मा᳚त् । 8) तस्मा᳚-द्ब्राह्म॒णाय॑ ब्राह्म॒णाय॒ तस्मा॒-त्तस्मा᳚-द्ब्राह्म॒णाय॑ । 9) ब्रा॒ह्म॒णाय॒ सर्वा॑सु॒ सर्वा॑सु ब्राह्म॒णाय॑ ब्राह्म॒णाय॒ सर्वा॑सु । 10) सर्वा॑सु दि॒क्षु दि॒क्षु सर्वा॑सु॒ सर्वा॑सु दि॒क्षु । 11) दि॒क्ष्व र्धु॑क॒ मर्धु॑क-न्दि॒क्षु दि॒क्ष्व र्धु॑कम् । 12) अर्धु॑क॒ग्ग्॒ स्वाग् स्वा मर्धु॑क॒ मर्धु॑क॒ग्ग्॒ स्वाम् । 13) स्वा मे॒वैव स्वाग् स्वा मे॒व । 14) ए॒व त-त्तदे॒ वैव तत् । 15) त-द्दिश॒-न्दिश॒-न्त-त्त-द्दिश᳚म् । 16) दिश॒ मन्वनु॒ दिश॒-न्दिश॒ मनु॑ । 17) अन्वे᳚ त्ये॒त्यन् वन् वे॑ति । 18) ए॒त्य॒पा म॒पा मे᳚त्ये त्य॒पाम् । 19) अ॒पां-वैँ वा अ॒पा म॒पां-वैँ । 20) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 21) अ॒ग्निः कु॒लाय॑-ङ्कु॒लाय॑ म॒ग्नि र॒ग्निः कु॒लाय᳚म् । 22) कु॒लाय॒-न्तस्मा॒-त्तस्मा᳚-त्कु॒लाय॑-ङ्कु॒लाय॒-न्तस्मा᳚त् । 23) तस्मा॒ दाप॒ आप॒ स्तस्मा॒-त्तस्मा॒ दापः॑ । 24) आपो॒ ऽग्नि म॒ग्नि माप॒ आपो॒ ऽग्निम् । 25) अ॒ग्निग्ं हारु॑का॒ हारु॑का अ॒ग्नि म॒ग्निग्ं हारु॑काः । 26) हारु॑का॒-स्स्वाग् स्वाग्ं हारु॑का॒ हारु॑का॒-स्स्वाम् । 27) स्वा मे॒वैव स्वाग् स्वा मे॒व । 28) ए॒व त-त्तदे॒ वैव तत् । 29) त-द्योनिं॒-योँनि॒-न्त-त्त-द्योनि᳚म् । 30) योनि॒-म्प्र प्र योनिं॒-योँनि॒-म्प्र । 31) प्र वि॑शन्ति विशन्ति॒ प्र प्र वि॑शन्ति । 32) वि॒श॒न्तीति॑ विशन्ति । ॥ 19 ॥ (32/32) ॥ अ. 4 ॥
1) सं॒वँ॒थ्स॒र मुख्य॒ मुख्यग्ं॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र मुख्य᳚म् । 1) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 2) उख्य॑-म्भृ॒त्वा भृ॒त्वोख्य॒ मुख्य॑-म्भृ॒त्वा । 3) भृ॒त्वा द्वि॒तीये᳚ द्वि॒तीये॑ भृ॒त्वा भृ॒त्वा द्वि॒तीये᳚ । 4) द्वि॒तीये॑ संवँथ्स॒रे सं॑वँथ्स॒रे द्वि॒तीये᳚ द्वि॒तीये॑ संवँथ्स॒रे । 5) सं॒वँ॒थ्स॒र आ᳚ग्ने॒य मा᳚ग्ने॒यग्ं सं॑वँथ्स॒रे सं॑वँथ्स॒र आ᳚ग्ने॒यम् । 5) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 6) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् । 7) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः । 7) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 8) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । 9) व॒पे॒ दै॒न्द्र मै॒न्द्रं-वँ॑पे-द्वपे दै॒न्द्रम् । 10) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् । 11) एका॑दशकपालं-वैँश्वदे॒वं-वैँ᳚श्वदे॒व मेका॑दशकपाल॒ मेका॑दशकपालं-वैँश्वदे॒वम् । 11) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 12) वै॒श्व॒दे॒व-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वदे॒वं-वैँ᳚श्वदे॒व-न्द्वाद॑शकपालम् । 12) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 13) द्वाद॑शकपाल-म्बार्हस्प॒त्य-म्बा॑र्हस्प॒त्य-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-म्बार्हस्प॒त्यम् । 13) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 14) बा॒र्॒ह॒स्प॒त्य-ञ्च॒रु-ञ्च॒रु-म्बा॑र्हस्प॒त्य-म्बा॑र्हस्प॒त्य-ञ्च॒रुम् । 15) च॒रुं-वैँ᳚ष्ण॒वं-वैँ᳚ष्ण॒व-ञ्च॒रु-ञ्च॒रुं-वैँ᳚ष्ण॒वम् । 16) वै॒ष्ण॒व-न्त्रि॑कपा॒ल-न्त्रि॑कपा॒लं-वैँ᳚ष्ण॒वं-वैँ᳚ष्ण॒व-न्त्रि॑कपा॒लम् । 17) त्रि॒क॒पा॒ल-न्तृ॒तीये॑ तृ॒तीये᳚ त्रिकपा॒ल-न्त्रि॑कपा॒ल-न्तृ॒तीये᳚ । 17) त्रि॒क॒पा॒लमिति॑ त्रि - क॒पा॒लम् । 18) तृ॒तीये॑ संवँथ्स॒रे सं॑वँथ्स॒रे तृ॒तीये॑ तृ॒तीये॑ संवँथ्स॒रे । 19) सं॒वँ॒थ्स॒रे॑ ऽभि॒जिता॑ ऽभि॒जिता॑ संवँथ्स॒रे सं॑वँथ्स॒रे॑ ऽभि॒जिता᳚ । 19) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 20) अ॒भि॒जिता॑ यजेत यजेता भि॒जिता॑ ऽभि॒जिता॑ यजेत । 20) अ॒भि॒जितेत्य॑भि - जिता᳚ । 21) य॒जे॒त॒ य-द्य-द्य॑जेत यजेत॒ यत् । 22) यद॒ष्टाक॑पालो॒ ऽष्टाक॑पालो॒ य-द्यद॒ष्टाक॑पालः । 23) अ॒ष्टाक॑पालो॒ भव॑ति॒ भव॑ त्य॒ष्टाक॑पालो॒ ऽष्टाक॑पालो॒ भव॑ति । 23) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ । 24) भव॑ त्य॒ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा॒ भव॑ति॒ भव॑ त्य॒ष्टाक्ष॑रा । 25) अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒ त्र्य॑ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा गाय॒त्री । 25) अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । 26) गा॒य॒ त्र्या᳚ग्ने॒य मा᳚ग्ने॒य-ङ्गा॑य॒त्री गा॑य॒ त्र्या᳚ग्ने॒यम् । 27) आ॒ग्ने॒य-ङ्गा॑य॒त्र-ङ्गा॑य॒त्र मा᳚ग्ने॒य मा᳚ग्ने॒य-ङ्गा॑य॒त्रम् । 28) गा॒य॒त्र-म्प्रा॑तस्सव॒न-म्प्रा॑तस्सव॒न-ङ्गा॑य॒त्र-ङ्गा॑य॒त्र-म्प्रा॑तस्सव॒नम् । 29) प्रा॒त॒स्स॒व॒न-म्प्रा॑तस्सव॒नम् । 29) प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । 30) प्रा॒त॒स्स॒व॒न मे॒वैव प्रा॑तस्सव॒न-म्प्रा॑तस्सव॒न मे॒व । 30) प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । 31) ए॒व तेन॒ तेनै॒ वैव तेन॑ । 32) तेन॑ दाधार दाधार॒ तेन॒ तेन॑ दाधार । 33) दा॒धा॒र॒ गा॒य॒त्री-ङ्गा॑य॒त्री-न्दा॑धार दाधार गाय॒त्रीम् । 34) गा॒य॒त्री-ञ्छन्द॒ श्छन्दो॑ गाय॒त्री-ङ्गा॑य॒त्री-ञ्छन्दः॑ । 35) छन्दो॒ य-द्यच् छन्द॒ श्छन्दो॒ यत् । 36) यदेका॑दशकपाल॒ एका॑दशकपालो॒ य-द्यदेका॑दशकपालः । 37) एका॑दशकपालो॒ भव॑ति॒ भव॒ त्येका॑दशकपाल॒ एका॑दशकपालो॒ भव॑ति । 37) एका॑दशकपाल॒ इत्येका॑दश - क॒पा॒लः॒ । 38) भव॒ त्येका॑दशाक्ष॒ रैका॑दशाक्षरा॒ भव॑ति॒ भव॒ त्येका॑दशाक्षरा । 39) एका॑दशाक्षरा त्रि॒ष्टु-क्त्रि॒ष्टु गेका॑दशाक्ष॒ रैका॑दशाक्षरा त्रि॒ष्टुक् । 39) एका॑दशाक्ष॒रेत्येका॑दश - अ॒क्ष॒रा॒ । 40) त्रि॒ष्टु गै॒न्द्र मै॒न्द्र-न्त्रि॒ष्टु-क्त्रि॒ष्टु गै॒न्द्रम् । 41) ऐ॒न्द्र-न्त्रैष्टु॑भ॒-न्त्रैष्टु॑भ मै॒न्द्र मै॒न्द्र-न्त्रैष्टु॑भम् । 42) त्रैष्टु॑भ॒-म्माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन॒-न्त्रैष्टु॑भ॒-न्त्रैष्टु॑भ॒-म्माद्ध्य॑न्दिनम् । 43) माद्ध्य॑न्दिन॒ग्ं॒ सव॑न॒ग्ं॒ सव॑न॒-म्माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन॒ग्ं॒ सव॑नम् । 44) सव॑न॒-म्माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन॒ग्ं॒ सव॑न॒ग्ं॒ सव॑न॒-म्माद्ध्य॑न्दिनम् । 45) माद्ध्य॑न्दिन मे॒वैव माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन मे॒व । 46) ए॒व सव॑न॒ग्ं॒ सव॑न मे॒वैव सव॑नम् । 47) सव॑न॒-न्तेन॒ तेन॒ सव॑न॒ग्ं॒ सव॑न॒-न्तेन॑ । 48) तेन॑ दाधार दाधार॒ तेन॒ तेन॑ दाधार । 49) दा॒धा॒र॒ त्रि॒ष्टुभ॑-न्त्रि॒ष्टुभ॑-न्दाधार दाधार त्रि॒ष्टुभ᳚म् । 50) त्रि॒ष्टुभ॒-ञ्छन्द॒ श्छन्द॑ स्त्रि॒ष्टुभ॑-न्त्रि॒ष्टुभ॒-ञ्छन्दः॑ । ॥ 20 ॥ (50/65)
1) छन्दो॒ य-द्यच् छन्द॒ श्छन्दो॒ यत् । 2) य-द्द्वाद॑शकपालो॒ द्वाद॑शकपालो॒ य-द्य-द्द्वाद॑शकपालः । 3) द्वाद॑शकपालो॒ भव॑ति॒ भव॑ति॒ द्वाद॑शकपालो॒ द्वाद॑शकपालो॒ भव॑ति । 3) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । 4) भव॑ति॒ द्वाद॑शाक्षरा॒ द्वाद॑शाक्षरा॒ भव॑ति॒ भव॑ति॒ द्वाद॑शाक्षरा । 5) द्वाद॑शाक्षरा॒ जग॑ती॒ जग॑ती॒ द्वाद॑शाक्षरा॒ द्वाद॑शाक्षरा॒ जग॑ती । 5) द्वाद॑शाक्ष॒रेति॒ द्वाद॑शा - अ॒क्ष॒रा॒ । 6) जग॑ती वैश्वदे॒वं-वैँ᳚श्वदे॒व-ञ्जग॑ती॒ जग॑ती वैश्वदे॒वम् । 7) वै॒श्व॒दे॒व-ञ्जाग॑त॒-ञ्जाग॑तं-वैँश्वदे॒वं-वैँ᳚श्वदे॒व-ञ्जाग॑तम् । 7) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 8) जाग॑त-न्तृतीयसव॒न-न्तृ॑तीयसव॒न-ञ्जाग॑त॒-ञ्जाग॑त-न्तृतीयसव॒नम् । 9) तृ॒ती॒य॒स॒व॒न-न्तृ॑तीयसव॒नम् । 9) तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । 10) तृ॒ती॒य॒स॒व॒न मे॒वैव तृ॑तीयसव॒न-न्तृ॑तीयसव॒न मे॒व । 10) तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । 11) ए॒व तेन॒ तेनै॒ वैव तेन॑ । 12) तेन॑ दाधार दाधार॒ तेन॒ तेन॑ दाधार । 13) दा॒धा॒र॒ जग॑ती॒-ञ्जग॑ती-न्दाधार दाधार॒ जग॑तीम् । 14) जग॑ती॒-ञ्छन्द॒ श्छन्दो॒ जग॑ती॒-ञ्जग॑ती॒-ञ्छन्दः॑ । 15) छन्दो॒ य-द्यच् छन्द॒ श्छन्दो॒ यत् । 16) य-द्बा॑र्हस्प॒त्यो बा॑र्हस्प॒त्यो य-द्य-द्बा॑र्हस्प॒त्यः । 17) बा॒र्॒ह॒स्प॒त्य श्च॒रु श्च॒रु-र्बा॑र्हस्प॒त्यो बा॑र्हस्प॒त्य श्च॒रुः । 18) च॒रु-र्भव॑ति॒ भव॑ति च॒रु श्च॒रु-र्भव॑ति । 19) भव॑ति॒ ब्रह्म॒ ब्रह्म॒ भव॑ति॒ भव॑ति॒ ब्रह्म॑ । 20) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै । 21) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 22) दे॒वाना॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाना᳚-न्दे॒वाना॒-म्बृह॒स्पतिः॑ । 23) बृह॒स्पति॒-र्ब्रह्म॒ ब्रह्म॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑ । 24) ब्रह्मै॒ वैव ब्रह्म॒ ब्रह्मै॒व । 25) ए॒व तेन॒ तेनै॒ वैव तेन॑ । 26) तेन॑ दाधार दाधार॒ तेन॒ तेन॑ दाधार । 27) दा॒धा॒र॒ य-द्य-द्दा॑धार दाधार॒ यत् । 28) य-द्वै᳚ष्ण॒वो वै᳚ष्ण॒वो य-द्य-द्वै᳚ष्ण॒वः । 29) वै॒ष्ण॒व स्त्रि॑कपा॒ल स्त्रि॑कपा॒लो वै᳚ष्ण॒वो वै᳚ष्ण॒व स्त्रि॑कपा॒लः । 30) त्रि॒क॒पा॒लो भव॑ति॒ भव॑ति त्रिकपा॒ल स्त्रि॑कपा॒लो भव॑ति । 30) त्रि॒क॒पा॒ल इति॑ त्रि - क॒पा॒लः । 31) भव॑ति य॒ज्ञो य॒ज्ञो भव॑ति॒ भव॑ति य॒ज्ञः । 32) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै । 33) वै विष्णु॒-र्विष्णु॒-र्वै वै विष्णुः॑ । 34) विष्णु॑-र्य॒ज्ञं-यँ॒ज्ञं-विँष्णु॒-र्विष्णु॑-र्य॒ज्ञम् । 35) य॒ज्ञ मे॒ वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 36) ए॒व तेन॒ तेनै॒ वैव तेन॑ । 37) तेन॑ दाधार दाधार॒ तेन॒ तेन॑ दाधार । 38) दा॒धा॒र॒ य-द्य-द्दा॑धार दाधार॒ यत् । 39) य-त्तृ॒तीये॑ तृ॒तीये॒ य-द्य-त्तृ॒तीये᳚ । 40) तृ॒तीये॑ संवँथ्स॒रे सं॑वँथ्स॒रे तृ॒तीये॑ तृ॒तीये॑ संवँथ्स॒रे । 41) सं॒वँ॒थ्स॒रे॑ ऽभि॒जिता॑ ऽभि॒जिता॑ संवँथ्स॒रे सं॑वँथ्स॒रे॑ ऽभि॒जिता᳚ । 41) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 42) अ॒भि॒जिता॒ यज॑ते॒ यज॑ते ऽभि॒जिता॑ ऽभि॒जिता॒ यज॑ते । 42) अ॒भि॒जितेत्य॑भि - जिता᳚ । 43) यज॑ते॒ ऽभिजि॑त्या अ॒भिजि॑त्यै॒ यज॑ते॒ यज॑ते॒ ऽभिजि॑त्यै । 44) अ॒भिजि॑त्यै॒ य-द्यद॒भिजि॑त्या अ॒भिजि॑त्यै॒ यत् । 44) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । 45) य-थ्सं॑वँथ्स॒रग्ं सं॑वँथ्स॒रं-यँ-द्य-थ्सं॑वँथ्स॒रम् । 46) सं॒वँ॒थ्स॒र मुख्य॒ मुख्यग्ं॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र मुख्य᳚म् । 46) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 47) उख्य॑-म्बि॒भर्ति॑ बि॒भर्त्युख्य॒ मुख्य॑-म्बि॒भर्ति॑ । 48) बि॒भर्ती॒म मि॒म-म्बि॒भर्ति॑ बि॒भर्ती॒मम् । 49) इ॒म मे॒वैवे म मि॒म मे॒व । 50) ए॒व तेन॒ तेनै॒ वैव तेन॑ । ॥ 21 ॥ (50/60)
1) तेन॑ लो॒कम् ँलो॒क-न्तेन॒ तेन॑ लो॒कम् । 2) लो॒कग्ग् स्पृ॑णोति स्पृणोति लो॒कम् ँलो॒कग्ग् स्पृ॑णोति । 3) स्पृ॒णो॒ति॒ य-द्य-थ्स्पृ॑णोति स्पृणोति॒ यत् । 4) य-द्द्वि॒तीये᳚ द्वि॒तीये॒ य-द्य-द्द्वि॒तीये᳚ । 5) द्वि॒तीये॑ संवँथ्स॒रे सं॑वँथ्स॒रे द्वि॒तीये᳚ द्वि॒तीये॑ संवँथ्स॒रे । 6) सं॒वँ॒थ्स॒रे᳚ ऽग्नि म॒ग्निग्ं सं॑वँथ्स॒रे सं॑वँथ्स॒रे᳚ ऽग्निम् । 6) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 7) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 8) चि॒नु॒ते᳚ ऽन्तरि॑क्ष म॒न्तरि॑क्ष-ञ्चिनु॒ते चि॑नु॒ते᳚ ऽन्तरि॑क्षम् । 9) अ॒न्तरि॑क्ष मे॒वैवा न्तरि॑क्ष म॒न्तरि॑क्ष मे॒व । 10) ए॒व तेन॒ तेनै॒ वैव तेन॑ । 11) तेन॑ स्पृणोति स्पृणोति॒ तेन॒ तेन॑ स्पृणोति । 12) स्पृ॒णो॒ति॒ य-द्य-थ्स्पृ॑णोति स्पृणोति॒ यत् । 13) य-त्तृ॒तीये॑ तृ॒तीये॒ य-द्य-त्तृ॒तीये᳚ । 14) तृ॒तीये॑ संवँथ्स॒रे सं॑वँथ्स॒रे तृ॒तीये॑ तृ॒तीये॑ संवँथ्स॒रे । 15) सं॒वँ॒थ्स॒रे यज॑ते॒ यज॑ते संवँथ्स॒रे सं॑वँथ्स॒रे यज॑ते । 15) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 16) यज॑ते॒ ऽमु म॒मुं-यँज॑ते॒ यज॑ते॒ ऽमुम् । 17) अ॒मु मे॒वै वामु म॒मु मे॒व । 18) ए॒व तेन॒ तेनै॒ वैव तेन॑ । 19) तेन॑ लो॒कम् ँलो॒क-न्तेन॒ तेन॑ लो॒कम् । 20) लो॒कग्ग् स्पृ॑णोति स्पृणोति लो॒कम् ँलो॒कग्ग् स्पृ॑णोति । 21) स्पृ॒णो॒ त्ये॒त मे॒तग्ग् स्पृ॑णोति स्पृणो त्ये॒तम् । 22) ए॒तं-वैँ वा ए॒त मे॒तं-वैँ । 23) वै परः॒ परो॒ वै वै परः॑ । 24) पर॑ आट्णा॒र आ᳚ट्णा॒रः परः॒ पर॑ आट्णा॒रः । 25) आ॒ट्णा॒रः क॒क्षीवा᳚न् क॒क्षीवाग्ं॑ आट्णा॒र आ᳚ट्णा॒रः क॒क्षीवान्॑ । 26) क॒क्षीवाग्ं॑ औशि॒ज औ॑शि॒जः क॒क्षीवा᳚न् क॒क्षीवाग्ं॑ औशि॒जः । 26) क॒क्षीवा॒निति॑ क॒क्षी - वा॒न् । 27) औ॒शि॒जो वी॒तह॑व्यो वी॒तह॑व्य औशि॒ज औ॑शि॒जो वी॒तह॑व्यः । 28) वी॒तह॑व्य-श्श्राय॒स-श्श्रा॑य॒सो वी॒तह॑व्यो वी॒तह॑व्य-श्श्राय॒सः । 28) वी॒तह॑व्य॒ इति॑ वी॒त - ह॒व्यः॒ । 29) श्रा॒य॒स स्त्र॒सद॑स्यु स्त्र॒सद॑स्यु-श्श्राय॒स-श्श्रा॑य॒स स्त्र॒सद॑स्युः । 30) त्र॒सद॑स्युः पौरुकु॒थ्स्यः पौ॑रुकु॒थ्स्य स्त्र॒सद॑स्यु स्त्र॒सद॑स्युः पौरुकु॒थ्स्यः । 31) पौ॒रु॒कु॒थ्स्यः प्र॒जाका॑माः प्र॒जाका॑माः पौरुकु॒थ्स्यः पौ॑रुकु॒थ्स्यः प्र॒जाका॑माः । 31) पौ॒रु॒कु॒थ्स्य इति॑ पौरु - कु॒थ्स्यः । 32) प्र॒जाका॑मा अचिन्वता चिन्वत प्र॒जाका॑माः प्र॒जाका॑मा अचिन्वत । 32) प्र॒जाका॑मा॒ इति॑ प्र॒जा - का॒माः॒ । 33) अ॒चि॒न्व॒त॒ तत॒ स्ततो॑ ऽचिन्वता चिन्वत॒ ततः॑ । 34) ततो॒ वै वै तत॒ स्ततो॒ वै । 35) वै ते ते वै वै ते । 36) ते स॒हस्रग्ं॑सहस्रग्ं स॒हस्रग्ं॑सहस्र॒-न्ते ते स॒हस्रग्ं॑सहस्रम् । 37) स॒हस्रग्ं॑सहस्र-म्पु॒त्रा-न्पु॒त्रा-न्थ्स॒हस्रग्ं॑सहस्रग्ं स॒हस्रग्ं॑सहस्र-म्पु॒त्रान् । 37) स॒हस्रग्ं॑सहस्र॒मिति॑ स॒हस्रं᳚ - स॒ह॒स्र॒म् । 38) पु॒त्रा न॑विन्दन्ता विन्दन्त पु॒त्रा-न्पु॒त्रा न॑विन्दन्त । 39) अ॒वि॒न्द॒न्त॒ प्रथ॑ते॒ प्रथ॑ते ऽविन्दन्ता विन्दन्त॒ प्रथ॑ते । 40) प्रथ॑ते प्र॒जया᳚ प्र॒जया॒ प्रथ॑ते॒ प्रथ॑ते प्र॒जया᳚ । 41) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 41) प्र॒जयेति॑ प्र - जया᳚ । 42) प॒शुभि॒ स्ता-न्ता-म्प॒शुभिः॑ प॒शुभि॒ स्ताम् । 42) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 43) ता-म्मात्रा॒-म्मात्रा॒-न्ता-न्ता-म्मात्रा᳚म् । 44) मात्रा॑ माप्नो त्याप्नोति॒ मात्रा॒-म्मात्रा॑ माप्नोति । 45) आ॒प्नो॒ति॒ यां-याँ मा᳚प्नो त्याप्नोति॒ याम् । 46) या-न्ते ते यां-याँ-न्ते । 47) ते ऽग॑च्छ॒-न्नग॑च्छ॒-न्ते ते ऽग॑च्छन्न् । 48) अग॑च्छ॒न्॒. यो यो ऽग॑च्छ॒-न्नग॑च्छ॒न्॒. यः । 49) य ए॒व मे॒वं-योँ य ए॒वम् । 50) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 51) वि॒द्वा ने॒त मे॒तं-विँ॒द्वान्. वि॒द्वा ने॒तम् । 52) ए॒त म॒ग्नि म॒ग्नि मे॒त मे॒त म॒ग्निम् । 53) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 54) चि॒नु॒त इति॑ चिनु॒ते । ॥ 22 ॥ (54/63) ॥ अ. 5 ॥
1) प्र॒जाप॑ति र॒ग्नि म॒ग्नि-म्प्र॒जाप॑तिः प्र॒जाप॑ति र॒ग्निम् । 1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 2) अ॒ग्नि म॑चिनुता चिनुता॒ग्नि म॒ग्नि म॑चिनुत । 3) अ॒चि॒नु॒त॒ स सो॑ ऽचिनुता चिनुत॒ सः । 4) स क्षु॒रप॑विः, क्षु॒रप॑वि॒-स्स स क्षु॒रप॑विः । 5) क्षु॒रप॑वि-र्भू॒त्वा भू॒त्वा क्षु॒रप॑विः, क्षु॒रप॑वि-र्भू॒त्वा । 5) क्षु॒रप॑वि॒रिति॑ क्षु॒र - प॒विः॒ । 6) भू॒त्वा ऽति॑ष्ठ दतिष्ठ-द्भू॒त्वा भू॒त्वा ऽति॑ष्ठत् । 7) अ॒ति॒ष्ठ॒-त्त-न्त म॑तिष्ठ दतिष्ठ॒-त्तम् । 8) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः । 9) दे॒वा बिभ्य॑तो॒ बिभ्य॑तो दे॒वा दे॒वा बिभ्य॑तः । 10) बिभ्य॑तो॒ न न बिभ्य॑तो॒ बिभ्य॑तो॒ न । 11) नोपोप॒ न नोप॑ । 12) उपा॑य-न्नाय॒-न्नुपोपा॑यन्न् । 13) आ॒य॒-न्ते त आ॑य-न्नाय॒-न्ते । 14) ते छन्दो॑भि॒ श्छन्दो॑भि॒ स्ते ते छन्दो॑भिः । 15) छन्दो॑भि रा॒त्मान॑ मा॒त्मान॒-ञ्छन्दो॑भि॒ श्छन्दो॑भि रा॒त्मान᳚म् । 15) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 16) आ॒त्मान॑-ञ्छादयि॒त्वा छा॑दयि॒त्वा ऽऽत्मान॑ मा॒त्मान॑-ञ्छादयि॒त्वा । 17) छा॒द॒यि॒त्वोपोप॑ च्छादयि॒त्वा छा॑दयि॒त्वोप॑ । 18) उपा॑य-न्नाय॒-न्नुपोपा॑यन्न् । 19) आ॒य॒-न्त-त्तदा॑य-न्नाय॒-न्तत् । 20) तच् छन्द॑सा॒-ञ्छन्द॑सा॒-न्त-त्तच् छन्द॑साम् । 21) छन्द॑सा-ञ्छन्द॒स्त्व-ञ्छ॑न्द॒स्त्व-ञ्छन्द॑सा॒-ञ्छन्द॑सा-ञ्छन्द॒स्त्वम् । 22) छ॒न्द॒स्त्व-म्ब्रह्म॒ ब्रह्म॑ छन्द॒स्त्व-ञ्छ॑न्द॒स्त्व-म्ब्रह्म॑ । 22) छ॒न्द॒स्त्वमिति॑ छन्दः - त्वम् । 23) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै । 24) वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि । 25) छन्दाग्ं॑सि॒ ब्रह्म॑णो॒ ब्रह्म॑ण॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ ब्रह्म॑णः । 26) ब्रह्म॑ण ए॒त दे॒त-द्ब्रह्म॑णो॒ ब्रह्म॑ण ए॒तत् । 27) ए॒त-द्रू॒पग्ं रू॒प मे॒त दे॒त-द्रू॒पम् । 28) रू॒पं-यँ-द्य-द्रू॒पग्ं रू॒पं-यँत् । 29) य-त्कृ॑ष्णाजि॒न-ङ्कृ॑ष्णाजि॒नं-यँ-द्य-त्कृ॑ष्णाजि॒नम् । 30) कृ॒ष्णा॒जि॒न-ङ्कार्ष्णी॒ कार्ष्णी॑ कृष्णाजि॒न-ङ्कृ॑ष्णाजि॒न-ङ्कार्ष्णी᳚ । 30) कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । 31) कार्ष्णी॑ उपा॒नहा॑ वुपा॒नहौ॒ कार्ष्णी॒ कार्ष्णी॑ उपा॒नहौ᳚ । 31) कार्ष्णी॒ इति॒ कार्ष्णी᳚ । 32) उ॒पा॒नहा॒ वुपोपो॑ पा॒नहा॑ वुपा॒नहा॒ वुप॑ । 33) उप॑ मुञ्चते मुञ्चत॒ उपोप॑ मुञ्चते । 34) मु॒ञ्च॒ते॒ छन्दो॑भि॒ श्छन्दो॑भि-र्मुञ्चते मुञ्चते॒ छन्दो॑भिः । 35) छन्दो॑भि रे॒वैव छन्दो॑भि॒ श्छन्दो॑भि रे॒व । 35) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 36) ए॒वात्मान॑ मा॒त्मान॑ मे॒वै वात्मान᳚म् । 37) आ॒त्मान॑-ञ्छादयि॒त्वा छा॑दयि॒त्वा ऽऽत्मान॑ मा॒त्मान॑-ञ्छादयि॒त्वा । 38) छा॒द॒यि॒त्वा ऽग्नि म॒ग्नि-ञ्छा॑दयि॒त्वा छा॑दयि॒त्वा ऽग्निम् । 39) अ॒ग्नि मुपोपा॒ग्नि म॒ग्नि मुप॑ । 40) उप॑ चरति चर॒ त्युपोप॑ चरति । 41) च॒र॒ त्या॒त्मन॑ आ॒त्मन॑ श्चरति चर त्या॒त्मनः॑ । 42) आ॒त्मनो ऽहिग्ं॑साया॒ अहिग्ं॑साया आ॒त्मन॑ आ॒त्मनो ऽहिग्ं॑सायै । 43) अहिग्ं॑सायै देवनि॒धि-र्दे॑वनि॒धि रहिग्ं॑साया॒ अहिग्ं॑सायै देवनि॒धिः । 44) दे॒व॒नि॒धि-र्वै वै दे॑वनि॒धि-र्दे॑वनि॒धि-र्वै । 44) दे॒व॒नि॒धिरिति॑ देव - नि॒धिः । 45) वा ए॒ष ए॒ष वै वा ए॒षः । 46) ए॒ष नि न्ये॑ष ए॒ष नि । 47) नि धी॑यते धीयते॒ नि नि धी॑यते । 48) धी॒य॒ते॒ य-द्य-द्धी॑यते धीयते॒ यत् । 49) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 50) अ॒ग्नि र॒न्ये᳚(1॒) ऽन्ये᳚ ऽग्नि र॒ग्नि र॒न्ये । ॥ 23 ॥ (50/58)
1) अ॒न्ये वा॑ वा॒ ऽन्ये᳚ ऽन्ये वा᳚ । 2) वा॒ वै वै वा॑ वा॒ वै । 3) वै नि॒धिन्नि॒धिं-वैँ वै नि॒धिम् । 4) नि॒धि मगु॑प्त॒ मगु॑प्त-न्नि॒धि-न्नि॒धि मगु॑प्तम् । 4) नि॒धिमिति॑ नि - धिम् । 5) अगु॑प्तं-विँ॒न्दन्ति॑ वि॒न्द-न्त्यगु॑प्त॒ मगु॑प्तं-विँ॒न्दन्ति॑ । 6) वि॒न्दन्ति॒ न न वि॒न्दन्ति॑ वि॒न्दन्ति॒ न । 7) न वा॑ वा॒ न न वा᳚ । 8) वा॒ प्रति॒ प्रति॑ वा वा॒ प्रति॑ । 9) प्रति॒ प्र प्र प्रति॒ प्रति॒ प्र । 10) प्र जा॑नाति जानाति॒ प्र प्र जा॑नाति । 11) जा॒ना॒ त्यु॒खा मु॒खा-ञ्जा॑नाति जाना त्यु॒खाम् । 12) उ॒खा मोखा मु॒खा मा । 13) आ क्रा॑मति क्राम॒त्या क्रा॑मति । 14) क्रा॒म॒ त्या॒त्मान॑ मा॒त्मान॑-ङ्क्रामति क्राम त्या॒त्मान᳚म् । 15) आ॒त्मान॑ मे॒वै वात्मान॑ मा॒त्मान॑ मे॒व । 16) ए॒वाधि॒पा म॑धि॒पा मे॒वै वाधि॒पाम् । 17) अ॒धि॒पा-ङ्कु॑रुते कुरुते ऽधि॒पा म॑धि॒पा-ङ्कु॑रुते । 17) अ॒धि॒पामित्य॑धि - पाम् । 18) कु॒रु॒ते॒ गुप्त्यै॒ गुप्त्यै॑ कुरुते कुरुते॒ गुप्त्यै᳚ । 19) गुप्त्या॒ अथो॒ अथो॒ गुप्त्यै॒ गुप्त्या॒ अथो᳚ । 20) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 20) अथो॒ इत्यथो᳚ । 21) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः । 22) आ॒हु॒-र्न नाहु॑ राहु॒-र्न । 23) नाक्रम्या॒ ऽऽक्रम्या॒ न नाक्रम्या᳚ । 24) आ॒क्रम्येती त्या॒क्रम्या॒ ऽऽक्रम्येति॑ । 24) आ॒क्रम्येत्या᳚ - क्रम्या᳚ । 25) इति॑ नैर्-ऋ॒ती नैर्॑.ऋ॒ती तीति॑ नैर्-ऋ॒ती । 26) नै॒र्॒ऋ॒ त्यु॑खोखा नैर्॑.ऋ॒ती नैर्॑.ऋ॒ त्यु॑खा । 26) नै॒र्॒ऋ॒तीति॑ नैः - ऋ॒ती । 27) उ॒खा य-द्यदु॒खोखा यत् । 28) यदा॒क्रामे॑ दा॒क्रामे॒-द्य-द्यदा॒क्रामे᳚त् । 29) आ॒क्रामे॒-न्निर्-ऋ॑त्यै॒ निर्-ऋ॑त्या आ॒क्रामे॑ दा॒क्रामे॒-न्निर्-ऋ॑त्यै । 29) आ॒क्रामे॒दित्या᳚ - क्रामे᳚त् । 30) निर्-ऋ॑त्या आ॒त्मान॑ मा॒त्मान॒-न्निर्-ऋ॑त्यै॒ निर्-ऋ॑त्या आ॒त्मान᳚म् । 30) निर्-ऋ॑त्या॒ इति॒ निः - ऋ॒त्यै॒ । 31) आ॒त्मान॒ मप्य प्या॒त्मान॑ मा॒त्मान॒ मपि॑ । 32) अपि॑ दद्ध्या-द्दद्ध्या॒ दप्यपि॑ दद्ध्यात् । 33) द॒द्ध्या॒-त्तस्मा॒-त्तस्मा᳚-द्दद्ध्या-द्दद्ध्या॒-त्तस्मा᳚त् । 34) तस्मा॒-न्न न तस्मा॒-त्तस्मा॒-न्न । 35) नाक्रम्या॒ ऽऽक्रम्या॒ न नाक्रम्या᳚ । 36) आ॒क्रम्या॑ पुरुषशी॒र्॒ष-म्पु॑रुषशी॒र्॒ष मा॒क्रम्या॒ ऽऽक्रम्या॑ पुरुषशी॒र्॒षम् । 36) आ॒क्रम्येत्या᳚ - क्रम्या᳚ । 37) पु॒रु॒ष॒शी॒र्॒ष मुपोप॑ पुरुषशी॒र्॒ष-म्पु॑रुषशी॒र्॒ष मुप॑ । 37) पु॒रु॒ष॒शी॒र्॒षमिति॑ पुरुष - शी॒र्॒षम् । 38) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 39) द॒धा॒ति॒ गुप्त्यै॒ गुप्त्यै॑ दधाति दधाति॒ गुप्त्यै᳚ । 40) गुप्त्या॒ अथो॒ अथो॒ गुप्त्यै॒ गुप्त्या॒ अथो᳚ । 41) अथो॒ यथा॒ यथा ऽथो॒ अथो॒ यथा᳚ । 41) अथो॒ इत्यथो᳚ । 42) यथा᳚ ब्रू॒या-द्ब्रू॒या-द्यथा॒ यथा᳚ ब्रू॒यात् । 43) ब्रू॒या दे॒त दे॒त-द्ब्रू॒या-द्ब्रू॒या दे॒तत् । 44) ए॒त-न्मे॑ म ए॒त दे॒त-न्मे᳚ । 45) मे॒ गो॒पा॒य॒ गो॒पा॒य॒ मे॒ मे॒ गो॒पा॒य॒ । 46) गो॒पा॒ये तीति॑ गोपाय गोपा॒येति॑ । 47) इति॑ ता॒दृ-क्ता॒दृ गितीति॑ ता॒दृक् । 48) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 49) ए॒व त-त्तदे॒ वैव तत् । 50) त-त्प्र॒जाप॑तिः प्र॒जाप॑ति॒ स्त-त्त-त्प्र॒जाप॑तिः । ॥ 24 ॥ (50/60)
1) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै । 1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 2) वा अथ॒र्वा ऽथ॑र्वा॒ वै वा अथ॑र्वा । 3) अथ॑र्वा॒ ऽग्नि र॒ग्नि रथ॒र्वा ऽथ॑र्वा॒ ऽग्निः । 4) अ॒ग्नि रे॒वै वाग्नि र॒ग्नि रे॒व । 5) ए॒व द॒द्ध्य-न्द॒द्ध्य ंए॒वैव द॒द्ध्यम् । 6) द॒द्ध्य ंआ॑थर्व॒ण आ॑थर्व॒णो द॒द्ध्य-न्द॒द्ध्य ंआ॑थर्व॒णः । 7) आ॒थ॒र्व॒ण स्तस्य॒ तस्या॑थर्व॒ण आ॑थर्व॒ण स्तस्य॑ । 8) तस्येष्ट॑का॒ इष्ट॑का॒ स्तस्य॒ तस्येष्ट॑काः । 9) इष्ट॑का अ॒स्था न्य॒स्थानीष्ट॑का॒ इष्ट॑का अ॒स्थानि॑ । 10) अ॒स्था न्ये॒त मे॒त म॒स्था न्य॒स्था न्ये॒तम् । 11) ए॒तग्ं ह॑ है॒त मे॒तग्ं ह॑ । 12) ह॒ वाव वाव ह॑ ह॒ वाव । 13) वाव त-त्त-द्वाव वाव तत् । 14) तदृषि॒र्॒ ऋषि॒ स्त-त्तदृषिः॑ । 15) ऋषि॑ र॒भ्यनू॑वाचा॒ भ्यनू॑वा॒च र्षि॒र्॒ ऋषि॑ र॒भ्यनू॑वाच । 16) अ॒भ्यनू॑वा॒चेन्द्र॒ इन्द्रो॒ ऽभ्यनू॑वाचा॒ भ्यनू॑वा॒चेन्द्रः॑ । 16) अ॒भ्यनू॑वा॒चेत्य॑भि - अनू॑वाच । 17) इन्द्रो॑ दधी॒चो द॑धी॒च इन्द्र॒ इन्द्रो॑ दधी॒चः । 18) द॒धी॒चो अ॒स्थभि॑ र॒स्थभि॑-र्दधी॒चो द॑धी॒चो अ॒स्थभिः॑ । 19) अ॒स्थभि॒ रितीत्य॒ स्थभि॑ र॒स्थभि॒ रिति॑ । 19) अ॒स्थभि॒रित्य॒स्थ - भिः॒ । 20) इति॒ य-द्यदितीति॒ यत् । 21) यदिष्ट॑काभि॒ रिष्ट॑काभि॒-र्य-द्यदिष्ट॑काभिः । 22) इष्ट॑काभि र॒ग्नि म॒ग्नि मिष्ट॑काभि॒ रिष्ट॑काभि र॒ग्निम् । 23) अ॒ग्नि-ञ्चि॒नोति॑ चि॒नो त्य॒ग्नि म॒ग्नि-ञ्चि॒नोति॑ । 24) चि॒नोति॒ सात्मा॑न॒ग्ं॒ सात्मा॑न-ञ्चि॒नोति॑ चि॒नोति॒ सात्मा॑नम् । 25) सात्मा॑न मे॒वैव सात्मा॑न॒ग्ं॒ सात्मा॑न मे॒व । 25) सात्मा॑न॒मिति॒ स - आ॒त्मा॒न॒म् । 26) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् । 27) अ॒ग्नि-ञ्चि॑नुते चिनुते॒ ऽग्नि म॒ग्नि-ञ्चि॑नुते । 28) चि॒नु॒ते॒ सात्मा॒ सात्मा॑ चिनुते चिनुते॒ सात्मा᳚ । 29) सात्मा॒ ऽमुष्मि॑-न्न॒मुष्मि॒-न्थ्सात्मा॒ सात्मा॒ ऽमुष्मिन्न्॑ । 29) सात्मेति॒ स - आ॒त्मा॒ । 30) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 31) लो॒के भ॑वति भवति लो॒के लो॒के भ॑वति । 32) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 33) य ए॒व मे॒वं-योँ य ए॒वम् । 34) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 35) वेद॒ शरी॑र॒ग्ं॒ शरी॑रं॒-वेँद॒ वेद॒ शरी॑रम् । 36) शरी॑रं॒-वैँ वै शरी॑र॒ग्ं॒ शरी॑रं॒-वैँ । 37) वा ए॒त दे॒त-द्वै वा ए॒तत् । 38) ए॒त द॒ग्ने र॒ग्ने रे॒त दे॒त द॒ग्नेः । 39) अ॒ग्ने-र्य-द्यद॒ग्ने र॒ग्ने-र्यत् । 40) यच् चित्य॒ श्चित्यो॒ य-द्यच् चित्यः॑ । 41) चित्य॑ आ॒त्मा ऽऽत्मा चित्य॒ श्चित्य॑ आ॒त्मा । 42) आ॒त्मा वै᳚श्वान॒रो वै᳚श्वान॒र आ॒त्मा ऽऽत्मा वै᳚श्वान॒रः । 43) वै॒श्वा॒न॒रो य-द्य-द्वै᳚श्वान॒रो वै᳚श्वान॒रो यत् । 44) यच् चि॒ते चि॒ते य-द्यच् चि॒ते । 45) चि॒ते वै᳚श्वान॒रं-वैँ᳚श्वान॒र-ञ्चि॒ते चि॒ते वै᳚श्वान॒रम् । 46) वै॒श्वा॒न॒र-ञ्जु॒होति॑ जु॒होति॑ वैश्वान॒रं-वैँ᳚श्वान॒र-ञ्जु॒होति॑ । 47) जु॒होति॒ शरी॑र॒ग्ं॒ शरी॑र-ञ्जु॒होति॑ जु॒होति॒ शरी॑रम् । 48) शरी॑र मे॒वैव शरी॑र॒ग्ं॒ शरी॑र मे॒व । 49) ए॒व स॒ग्ग्॒स्कृत्य॑ स॒ग्ग्॒स्कृ त्यै॒वैव स॒ग्ग्॒स्कृत्य॑ । 50) स॒ग्ग्॒स्कृत्या॒ भ्यारो॑ह त्य॒भ्यारो॑हति स॒ग्ग्॒स्कृत्य॑ स॒ग्ग्॒स्कृत्या॒ भ्यारो॑हति । ॥ 25 ॥ (50/55)
1) अ॒भ्यारो॑हति॒ शरी॑र॒ग्ं॒ शरी॑र म॒भ्यारो॑ह त्य॒भ्यारो॑हति॒ शरी॑रम् । 1) अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । 2) शरी॑रं॒-वैँ वै शरी॑र॒ग्ं॒ शरी॑रं॒-वैँ । 3) वा ए॒त दे॒त-द्वै वा ए॒तत् । 4) ए॒त-द्यज॑मानो॒ यज॑मान ए॒त दे॒त-द्यज॑मानः । 5) यज॑मान॒-स्सग्ं सं-यँज॑मानो॒ यज॑मान॒-स्सम् । 6) सग्ग् स्कु॑रुते कुरुते॒ सग्ं सग्ग् स्कु॑रुते । 7) कु॒रु॒ते॒ य-द्य-त्कु॑रुते कुरुते॒ यत् । 8) यद॒ग्नि म॒ग्निं-यँ-द्यद॒ग्निम् । 9) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 10) चि॒नु॒ते य-द्यच् चि॑नु॒ते चि॑नु॒ते यत् । 11) यच् चि॒ते चि॒ते य-द्यच् चि॒ते । 12) चि॒ते वै᳚श्वान॒रं-वैँ᳚श्वान॒र-ञ्चि॒ते चि॒ते वै᳚श्वान॒रम् । 13) वै॒श्वा॒न॒र-ञ्जु॒होति॑ जु॒होति॑ वैश्वान॒रं-वैँ᳚श्वान॒र-ञ्जु॒होति॑ । 14) जु॒होति॒ शरी॑र॒ग्ं॒ शरी॑र-ञ्जु॒होति॑ जु॒होति॒ शरी॑रम् । 15) शरी॑र मे॒वैव शरी॑र॒ग्ं॒ शरी॑र मे॒व । 16) ए॒व स॒ग्ग्॒स्कृत्य॑ स॒ग्ग्॒स्कृ त्यै॒वैव स॒ग्ग्॒स्कृत्य॑ । 17) स॒ग्ग्॒स्कृ त्या॒त्मना॒ ऽऽत्मना॑ स॒ग्ग्॒स्कृत्य॑ स॒ग्ग्॒स्कृ त्या॒त्मना᳚ । 18) आ॒त्मना॒ ऽभ्यारो॑ह त्य॒भ्यारो॑ह त्या॒त्मना॒ ऽऽत्मना॒ ऽभ्यारो॑हति । 19) अ॒भ्यारो॑हति॒ तस्मा॒-त्तस्मा॑ द॒भ्यारो॑ह त्य॒भ्यारो॑हति॒ तस्मा᳚त् । 19) अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । 20) तस्मा॒-त्तस्य॒ तस्य॒ तस्मा॒-त्तस्मा॒-त्तस्य॑ । 21) तस्य॒ न न तस्य॒ तस्य॒ न । 22) नावाव॒ न नाव॑ । 23) अव॑ द्यन्ति द्य॒-न्त्यवाव॑ द्यन्ति । 24) द्य॒न्ति॒ जीव॒न् जीव॑-न्द्यन्ति द्यन्ति॒ जीवन्न्॑ । 25) जीव॑-न्ने॒वैव जीव॒न् जीव॑-न्ने॒व । 26) ए॒व दे॒वा-न्दे॒वा ने॒वैव दे॒वान् । 27) दे॒वा नप्यपि॑ दे॒वा-न्दे॒वा नपि॑ । 28) अप्ये᳚ त्ये॒ त्यप्य प्ये॑ति । 29) ए॒ति॒ वै॒श्वा॒न॒र्या वै᳚श्वान॒-र्यैत्ये॑ति वैश्वान॒र्या । 30) वै॒श्वा॒न॒र्य र्च र्चा वै᳚श्वान॒र्या वै᳚श्वान॒र्य र्चा । 31) ऋ॒चा पुरी॑ष॒-म्पुरी॑ष मृ॒च र्चा पुरी॑षम् । 32) पुरी॑ष॒ मुपोप॒ पुरी॑ष॒-म्पुरी॑ष॒ मुप॑ । 33) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 34) द॒धा॒ ती॒य मि॒य-न्द॑धाति दधा ती॒यम् । 35) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ । 36) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 37) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः । 38) वै॒श्वा॒न॒र स्तस्य॒ तस्य॑ वैश्वान॒रो वै᳚श्वान॒र स्तस्य॑ । 39) तस्यै॒ षैषा तस्य॒ तस्यै॒षा । 40) ए॒षा चिति॒ श्चिति॑ रे॒षैषा चितिः॑ । 41) चिति॒-र्य-द्यच् चिति॒ श्चिति॒-र्यत् । 42) य-त्पुरी॑ष॒-म्पुरी॑षं॒-यँ-द्य-त्पुरी॑षम् । 43) पुरी॑ष म॒ग्नि म॒ग्नि-म्पुरी॑ष॒-म्पुरी॑ष म॒ग्निम् । 44) अ॒ग्नि मे॒वै वाग्नि म॒ग्नि मे॒व । 45) ए॒व वै᳚श्वान॒रं-वैँ᳚श्वान॒र मे॒वैव वै᳚श्वान॒रम् । 46) वै॒श्वा॒न॒र-ञ्चि॑नुते चिनुते वैश्वान॒रं-वैँ᳚श्वान॒र-ञ्चि॑नुते । 47) चि॒नु॒त॒ ए॒षैषा चि॑नुते चिनुत ए॒षा । 48) ए॒षा वै वा ए॒षैषा वै । 49) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 50) अ॒ग्नेः प्रि॒या प्रि॒या ऽग्ने र॒ग्नेः प्रि॒या । 51) प्रि॒या त॒नू स्त॒नूः प्रि॒या प्रि॒या त॒नूः । 52) त॒नू-र्य-द्य-त्त॒नू स्त॒नू-र्यत् । 53) य-द्वै᳚श्वान॒रो वै᳚श्वान॒रो य-द्य-द्वै᳚श्वान॒रः । 54) वै॒श्वा॒न॒रः प्रि॒या-म्प्रि॒यां-वैँ᳚श्वान॒रो वै᳚श्वान॒रः प्रि॒याम् । 55) प्रि॒या मे॒वैव प्रि॒या-म्प्रि॒या मे॒व । 56) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 57) अ॒स्य॒ त॒नुव॑-न्त॒नुव॑ मस्यास्य त॒नुव᳚म् । 58) त॒नुव॒ मवाव॑ त॒नुव॑-न्त॒नुव॒ मव॑ । 59) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 60) रु॒न्ध॒ इति॑ रुन्धे । ॥ 26 ॥ (60/62) ॥ अ. 6 ॥
1) अ॒ग्ने-र्वै वा अ॒ग्ने र॒ग्ने-र्वै । 2) वै दी॒क्षया॑ दी॒क्षया॒ वै वै दी॒क्षया᳚ । 3) दी॒क्षया॑ दे॒वा दे॒वा दी॒क्षया॑ दी॒क्षया॑ दे॒वाः । 4) दे॒वा वि॒राजं॑-विँ॒राज॑-न्दे॒वा दे॒वा वि॒राज᳚म् । 5) वि॒राज॑ माप्नुव-न्नाप्नुवन् वि॒राजं॑-विँ॒राज॑ माप्नुवन्न् । 5) वि॒राज॒मिति॑ वि - राज᳚म् । 6) आ॒प्नु॒व॒-न्ति॒स्र स्ति॒स्र आ᳚प्नुव-न्नाप्नुव-न्ति॒स्रः । 7) ति॒स्रो रात्री॒ रात्री᳚ स्ति॒स्र स्ति॒स्रो रात्रीः᳚ । 8) रात्री᳚-र्दीक्षि॒तो दी᳚क्षि॒तो रात्री॒ रात्री᳚-र्दीक्षि॒तः । 9) दी॒क्षि॒त-स्स्या᳚-थ्स्या-द्दीक्षि॒तो दी᳚क्षि॒त-स्स्या᳚त् । 10) स्या॒-त्त्रि॒पदा᳚ त्रि॒पदा᳚ स्या-थ्स्या-त्त्रि॒पदा᳚ । 11) त्रि॒पदा॑ वि॒रा-ड्वि॒रा-ट्त्रि॒पदा᳚ त्रि॒पदा॑ वि॒राट् । 11) त्रि॒पदेति॑ त्रि - पदा᳚ । 12) वि॒रा-ड्वि॒राजं॑-विँ॒राजं॑-विँ॒रा-ड्वि॒रा-ड्वि॒राज᳚म् । 12) वि॒राडिति॑ वि - राट् । 13) वि॒राज॑ माप्नो त्याप्नोति वि॒राजं॑-विँ॒राज॑ माप्नोति । 13) वि॒राज॒मिति॑ वि - राज᳚म् । 14) आ॒प्नो॒ति॒ ष-ट्थ्षडा᳚प्नो त्याप्नोति॒ षट् । 15) षड् रात्री॒ रात्री॒ ष्ष-ट्थ्षड् रात्रीः᳚ । 16) रात्री᳚-र्दीक्षि॒तो दी᳚क्षि॒तो रात्री॒ रात्री᳚-र्दीक्षि॒तः । 17) दी॒क्षि॒त-स्स्या᳚-थ्स्या-द्दीक्षि॒तो दी᳚क्षि॒त-स्स्या᳚त् । 18) स्या॒-थ्ष-ट्थ्ष-ट्थ्स्या᳚-थ्स्या॒-थ्षट् । 19) ष-ड्वै वै ष-ट्थ्ष-ड्वै । 20) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 21) ऋ॒तव॑-स्संवँथ्स॒र-स्सं॑वँथ्स॒र ऋ॒तव॑ ऋ॒तव॑-स्संवँथ्स॒रः । 22) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रः । 22) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 23) सं॒वँ॒थ्स॒रो वि॒रा-ड्वि॒रा-ट्थ्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वि॒राट् । 23) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 24) वि॒रा-ड्वि॒राजं॑-विँ॒राजं॑-विँ॒रा-ड्वि॒रा-ड्वि॒राज᳚म् । 24) वि॒राडिति॑ वि - राट् । 25) वि॒राज॑ माप्नो त्याप्नोति वि॒राजं॑-विँ॒राज॑ माप्नोति । 25) वि॒राज॒मिति॑ वि - राज᳚म् । 26) आ॒प्नो॒ति॒ दश॒ दशा᳚प्नो त्याप्नोति॒ दश॑ । 27) दश॒ रात्री॒ रात्री॒-र्दश॒ दश॒ रात्रीः᳚ । 28) रात्री᳚-र्दीक्षि॒तो दी᳚क्षि॒तो रात्री॒ रात्री᳚-र्दीक्षि॒तः । 29) दी॒क्षि॒त-स्स्या᳚-थ्स्या-द्दीक्षि॒तो दी᳚क्षि॒त-स्स्या᳚त् । 30) स्या॒-द्दशा᳚क्षरा॒ दशा᳚क्षरा स्या-थ्स्या॒-द्दशा᳚क्षरा । 31) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् । 31) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । 32) वि॒रा-ड्वि॒राजं॑-विँ॒राजं॑-विँ॒रा-ड्वि॒रा-ड्वि॒राज᳚म् । 32) वि॒राडिति॑ वि - राट् । 33) वि॒राज॑ माप्नो त्याप्नोति वि॒राजं॑-विँ॒राज॑ माप्नोति । 33) वि॒राज॒मिति॑ वि - राज᳚म् । 34) आ॒प्नो॒ति॒ द्वाद॑श॒ द्वाद॑शाप्नो त्याप्नोति॒ द्वाद॑श । 35) द्वाद॑श॒ रात्री॒ रात्री॒-र्द्वाद॑श॒ द्वाद॑श॒ रात्रीः᳚ । 36) रात्री᳚-र्दीक्षि॒तो दी᳚क्षि॒तो रात्री॒ रात्री᳚-र्दीक्षि॒तः । 37) दी॒क्षि॒त-स्स्या᳚-थ्स्या-द्दीक्षि॒तो दी᳚क्षि॒त-स्स्या᳚त् । 38) स्या॒-द्द्वाद॑श॒ द्वाद॑श स्या-थ्स्या॒-द्द्वाद॑श । 39) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 40) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः । 41) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रः । 41) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 42) सं॒वँ॒थ्स॒रो वि॒रा-ड्वि॒रा-ट्थ्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वि॒राट् । 42) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 43) वि॒रा-ड्वि॒राजं॑-विँ॒राजं॑-विँ॒रा-ड्वि॒रा-ड्वि॒राज᳚म् । 43) वि॒राडिति॑ वि - राट् । 44) वि॒राज॑ माप्नो त्याप्नोति वि॒राजं॑-विँ॒राज॑ माप्नोति । 44) वि॒राज॒मिति॑ वि - राज᳚म् । 45) आ॒प्नो॒ति॒ त्रयो॑दश॒ त्रयो॑दशाप्नो त्याप्नोति॒ त्रयो॑दश । 46) त्रयो॑दश॒ रात्री॒ रात्री॒ स्त्रयो॑दश॒ त्रयो॑दश॒ रात्रीः᳚ । 46) त्रयो॑द॒शेति॒ त्रयः॑ - द॒श॒ । 47) रात्री᳚-र्दीक्षि॒तो दी᳚क्षि॒तो रात्री॒ रात्री᳚-र्दीक्षि॒तः । 48) दी॒क्षि॒त-स्स्या᳚-थ्स्या-द्दीक्षि॒तो दी᳚क्षि॒त-स्स्या᳚त् । 49) स्या॒-त्त्रयो॑दश॒ त्रयो॑दश स्या-थ्स्या॒-त्त्रयो॑दश । 50) त्रयो॑दश॒ मासा॒ मासा॒ स्त्रयो॑दश॒ त्रयो॑दश॒ मासाः᳚ । 50) त्रयो॑द॒शेति॒ त्रयः॑ - द॒श॒ । ॥ 27 ॥ (50/67)
1) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः । 2) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रः । 2) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 3) सं॒वँ॒थ्स॒रो वि॒रा-ड्वि॒रा-ट्थ्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वि॒राट् । 3) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 4) वि॒रा-ड्वि॒राजं॑-विँ॒राजं॑-विँ॒रा-ड्वि॒रा-ड्वि॒राज᳚म् । 4) वि॒राडिति॑ वि - राट् । 5) वि॒राज॑ माप्नो त्याप्नोति वि॒राजं॑-विँ॒राज॑ माप्नोति । 5) वि॒राज॒मिति॑ वि - राज᳚म् । 6) आ॒प्नो॒ति॒ पञ्च॑दश॒ पञ्च॑दशाप्नो त्याप्नोति॒ पञ्च॑दश । 7) पञ्च॑दश॒ रात्री॒ रात्रीः॒ पञ्च॑दश॒ पञ्च॑दश॒ रात्रीः᳚ । 7) पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । 8) रात्री᳚-र्दीक्षि॒तो दी᳚क्षि॒तो रात्री॒ रात्री᳚-र्दीक्षि॒तः । 9) दी॒क्षि॒त-स्स्या᳚-थ्स्या-द्दीक्षि॒तो दी᳚क्षि॒त-स्स्या᳚त् । 10) स्या॒-त्पञ्च॑दश॒ पञ्च॑दश स्या-थ्स्या॒-त्पञ्च॑दश । 11) पञ्च॑दश॒ वै वै पञ्च॑दश॒ पञ्च॑दश॒ वै । 11) पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । 12) वा अ॑र्धमा॒सस्या᳚ र्धमा॒सस्य॒ वै वा अ॑र्धमा॒सस्य॑ । 13) अ॒र्ध॒मा॒सस्य॒ रात्र॑यो॒ रात्र॑यो ऽर्धमा॒सस्या᳚ र्धमा॒सस्य॒ रात्र॑यः । 13) अ॒र्ध॒मा॒सस्येत्य॑र्ध - मा॒सस्य॑ । 14) रात्र॑यो ऽर्धमास॒शो᳚ ऽर्धमास॒शो रात्र॑यो॒ रात्र॑यो ऽर्धमास॒शः । 15) अ॒र्ध॒मा॒स॒श-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो᳚ ऽर्धमास॒शो᳚ ऽर्धमास॒श-स्सं॑वँथ्स॒रः । 15) अ॒र्ध॒मा॒स॒श इत्य॑र्धमास - शः । 16) सं॒वँ॒थ्स॒र आ᳚प्यत आप्यते संवँथ्स॒र-स्सं॑वँथ्स॒र आ᳚प्यते । 16) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 17) आ॒प्य॒ते॒ सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒र आ᳚प्यत आप्यते संवँथ्स॒रः । 18) सं॒वँ॒थ्स॒रो वि॒रा-ड्वि॒राट् -थ्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वि॒राट् । 18) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 19) वि॒रा-ड्वि॒राजं॑-विँ॒राजं॑-विँ॒रा-ड्वि॒रा-ड्वि॒राज᳚म् । 19) वि॒राडिति॑ वि - राट् । 20) वि॒राज॑ माप्नो त्याप्नोति वि॒राजं॑-विँ॒राज॑ माप्नोति । 20) वि॒राज॒मिति॑ वि - राज᳚म् । 21) आ॒प्नो॒ति॒ स॒प्तद॑श स॒प्तद॑शाप्नो त्याप्नोति स॒प्तद॑श । 22) स॒प्तद॑श॒ रात्री॒ रात्री᳚-स्स॒प्तद॑श स॒प्तद॑श॒ रात्रीः᳚ । 22) स॒प्तद॒शेति॑ स॒प्त - द॒श॒ । 23) रात्री᳚-र्दीक्षि॒तो दी᳚क्षि॒तो रात्री॒ रात्री᳚-र्दीक्षि॒तः । 24) दी॒क्षि॒त-स्स्या᳚-थ्स्या-द्दीक्षि॒तो दी᳚क्षि॒त-स्स्या᳚त् । 25) स्या॒-द्द्वाद॑श॒ द्वाद॑श स्या-थ्स्या॒-द्द्वाद॑श । 26) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 27) मासाः॒ पञ्च॒ पञ्च॒ मासा॒ मासाः॒ पञ्च॑ । 28) पञ्च॒ र्तव॑ ऋ॒तवः॒ पञ्च॒ पञ्च॒ र्तवः॑ । 29) ऋ॒तव॒-स्स स ऋ॒तव॑ ऋ॒तव॒-स्सः । 30) स सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-स्स स सं॑वँथ्स॒रः । 31) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रः । 31) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 32) सं॒वँ॒थ्स॒रो वि॒रा-ड्वि॒रा-ट्थ्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वि॒राट् । 32) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 33) वि॒रा-ड्वि॒राजं॑-विँ॒राजं॑-विँ॒रा-ड्वि॒रा-ड्वि॒राज᳚म् । 33) वि॒राडिति॑ वि - राट् । 34) वि॒राज॑ माप्नो त्याप्नोति वि॒राजं॑-विँ॒राज॑ माप्नोति । 34) वि॒राज॒मिति॑ वि - राज᳚म् । 35) आ॒प्नो॒ति॒ चतु॑र्विग्ंशति॒-ञ्चतु॑र्विग्ंशति माप्नो त्याप्नोति॒ चतु॑र्विग्ंशतिम् । 36) चतु॑र्विग्ंशति॒ग्ं॒ रात्री॒ रात्री॒ श्चतु॑र्विग्ंशति॒-ञ्चतु॑र्विग्ंशति॒ग्ं॒ रात्रीः᳚ । 36) चतु॑र्विग्ंशति॒मिति॒ चतुः॑ - वि॒ग्ं॒श॒ति॒म् । 37) रात्री᳚-र्दीक्षि॒तो दी᳚क्षि॒तो रात्री॒ रात्री᳚-र्दीक्षि॒तः । 38) दी॒क्षि॒त-स्स्या᳚-थ्स्या-द्दीक्षि॒तो दी᳚क्षि॒त-स्स्या᳚त् । 39) स्या॒च् चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति स्या-थ्स्या॒च् चतु॑र्विग्ंशतिः । 40) चतु॑र्विग्ंशति रर्धमा॒सा अ॑र्धमा॒सा श्चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति रर्धमा॒साः । 40) चतु॑र्विग्ंशति॒रिति॒ चतुः॑ - वि॒ग्ं॒श॒तिः॒ । 41) अ॒र्ध॒मा॒सा-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो᳚ ऽर्धमा॒सा अ॑र्धमा॒सा-स्सं॑वँथ्स॒रः । 41) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः । 42) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रः । 42) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 43) सं॒वँ॒थ्स॒रो वि॒रा-ड्वि॒रा-ट्थ्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वि॒राट् । 43) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 44) वि॒रा-ड्वि॒राजं॑-विँ॒राजं॑-विँ॒रा-ड्वि॒रा-ड्वि॒राज᳚म् । 44) वि॒राडिति॑ वि - राट् । 45) वि॒राज॑ माप्नो त्याप्नोति वि॒राजं॑-विँ॒राज॑ माप्नोति । 45) वि॒राज॒मिति॑ वि - राज᳚म् । 46) आ॒प्नो॒ति॒ त्रि॒ग्ं॒शत॑-न्त्रि॒ग्ं॒शत॑ माप्नो त्याप्नोति त्रि॒ग्ं॒शत᳚म् । 47) त्रि॒ग्ं॒शत॒ग्ं॒ रात्री॒ रात्री᳚ स्त्रि॒ग्ं॒शत॑-न्त्रि॒ग्ं॒शत॒ग्ं॒ रात्रीः᳚ । 48) रात्री᳚-र्दीक्षि॒तो दी᳚क्षि॒तो रात्री॒ रात्री᳚-र्दीक्षि॒तः । 49) दी॒क्षि॒त-स्स्या᳚-थ्स्या-द्दीक्षि॒तो दी᳚क्षि॒त-स्स्या᳚त् । 50) स्या॒-त्त्रि॒ग्ं॒शद॑क्षरा त्रि॒ग्ं॒शद॑क्षरा स्या-थ्स्या-त्त्रि॒ग्ं॒शद॑क्षरा । ॥ 28 ॥ (50/74)
1) त्रि॒ग्ं॒शद॑क्षरा वि॒रा-ड्वि॒रा-ट्त्रि॒ग्ं॒शद॑क्षरा त्रि॒ग्ं॒शद॑क्षरा वि॒राट् । 1) त्रि॒ग्ं॒शद॑क्ष॒रेति॑ त्रि॒ग्ं॒शत् - अ॒क्ष॒रा॒ । 2) वि॒रा-ड्वि॒राजं॑-विँ॒राजं॑-विँ॒रा-ड्वि॒रा-ड्वि॒राज᳚म् । 2) वि॒राडिति॑ वि - राट् । 3) वि॒राज॑ माप्नो त्याप्नोति वि॒राजं॑-विँ॒राज॑ माप्नोति । 3) वि॒राज॒मिति॑ वि - राज᳚म् । 4) आ॒प्नो॒ति॒ मास॒-म्मास॑ माप्नो त्याप्नोति॒ मास᳚म् । 5) मास॑-न्दीक्षि॒तो दी᳚क्षि॒तो मास॒-म्मास॑-न्दीक्षि॒तः । 6) दी॒क्षि॒त-स्स्या᳚-थ्स्या-द्दीक्षि॒तो दी᳚क्षि॒त-स्स्या᳚त् । 7) स्या॒-द्यो य-स्स्या᳚-थ्स्या॒-द्यः । 8) यो मासो॒ मासो॒ यो यो मासः॑ । 9) मास॒-स्स स मासो॒ मास॒-स्सः । 10) स सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-स्स स सं॑वँथ्स॒रः । 11) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रः । 11) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 12) सं॒वँ॒थ्स॒रो वि॒रा-ड्वि॒रा-ट्थ्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वि॒राट् । 12) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 13) वि॒रा-ड्वि॒राजं॑-विँ॒राजं॑-विँ॒रा-ड्वि॒रा-ड्वि॒राज᳚म् । 13) वि॒राडिति॑ वि - राट् । 14) वि॒राज॑ माप्नो त्याप्नोति वि॒राजं॑-विँ॒राज॑ माप्नोति । 14) वि॒राज॒मिति॑ वि - राज᳚म् । 15) आ॒प्नो॒ति॒ च॒तुर॑ श्च॒तुर॑ आप्नो त्याप्नोति च॒तुरः॑ । 16) च॒तुरो॑ मा॒सो मा॒स श्च॒तुर॑ श्च॒तुरो॑ मा॒सः । 17) मा॒सो दी᳚क्षि॒तो दी᳚क्षि॒तो मा॒सो मा॒सो दी᳚क्षि॒तः । 18) दी॒क्षि॒त-स्स्या᳚-थ्स्या-द्दीक्षि॒तो दी᳚क्षि॒त-स्स्या᳚त् । 19) स्या॒च् च॒तुर॑ श्च॒तुर॑-स्स्या-थ्स्याच् च॒तुरः॑ । 20) च॒तुरो॒ वै वै च॒तुर॑ श्च॒तुरो॒ वै । 21) वा ए॒त मे॒तं-वैँ वा ए॒तम् । 22) ए॒त-म्मा॒सो मा॒स ए॒त मे॒त-म्मा॒सः । 23) मा॒सो वस॑वो॒ वस॑वो मा॒सो मा॒सो वस॑वः । 24) वस॑वो ऽबिभरु रबिभरु॒-र्वस॑वो॒ वस॑वो ऽबिभरुः । 25) अ॒बि॒भ॒रु॒ स्ते ते॑ ऽबिभरु रबिभरु॒ स्ते । 26) ते पृ॑थि॒वी-म्पृ॑थि॒वी-न्ते ते पृ॑थि॒वीम् । 27) पृ॒थि॒वी मा पृ॑थि॒वी-म्पृ॑थि॒वी मा । 28) आ ऽज॑य-न्नजय॒-न्ना ऽज॑यन्न् । 29) अ॒ज॒य॒-न्गा॒य॒त्री-ङ्गा॑य॒त्री म॑जय-न्नजय-न्गाय॒त्रीम् । 30) गा॒य॒त्री-ञ्छन्द॒ श्छन्दो॑ गाय॒त्री-ङ्गा॑य॒त्री-ञ्छन्दः॑ । 31) छन्दो॒ ऽष्टा व॒ष्टौ छन्द॒ श्छन्दो॒ ऽष्टौ । 32) अ॒ष्टौ रु॒द्रा रु॒द्रा अ॒ष्टा व॒ष्टौ रु॒द्राः । 33) रु॒द्रा स्ते ते रु॒द्रा रु॒द्रा स्ते । 34) ते᳚ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒-न्ते ते᳚ ऽन्तरि॑क्षम् । 35) अ॒न्तरि॑क्ष॒ मा ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒ मा । 36) आ ऽज॑य-न्नजय॒-न्ना ऽज॑यन्न् । 37) अ॒ज॒य॒-न्त्रि॒ष्टुभ॑-न्त्रि॒ष्टुभ॑ मजय-न्नजय-न्त्रि॒ष्टुभ᳚म् । 38) त्रि॒ष्टुभ॒-ञ्छन्द॒ श्छन्द॑ स्त्रि॒ष्टुभ॑-न्त्रि॒ष्टुभ॒-ञ्छन्दः॑ । 39) छन्दो॒ द्वाद॑श॒ द्वाद॑श॒ छन्द॒ श्छन्दो॒ द्वाद॑श । 40) द्वाद॑शादि॒त्या आ॑दि॒त्या द्वाद॑श॒ द्वाद॑शादि॒त्याः । 41) आ॒दि॒त्या स्ते त आ॑दि॒त्या आ॑दि॒त्या स्ते । 42) ते दिव॒-न्दिव॒-न्ते ते दिव᳚म् । 43) दिव॒ मा दिव॒-न्दिव॒ मा । 44) आ ऽज॑य-न्नजय॒-न्ना ऽज॑यन्न् । 45) अ॒ज॒य॒न् जग॑ती॒-ञ्जग॑ती मजय-न्नजय॒न् जग॑तीम् । 46) जग॑ती॒-ञ्छन्द॒ श्छन्दो॒ जग॑ती॒-ञ्जग॑ती॒-ञ्छन्दः॑ । 47) छन्द॒ स्तत॒ स्तत॒ श्छन्द॒ श्छन्द॒ स्ततः॑ । 48) ततो॒ वै वै तत॒ स्ततो॒ वै । 49) वै ते ते वै वै ते । 50) ते व्या॒वृतं॑-व्याँ॒वृत॒-न्ते ते व्या॒वृत᳚म् । 51) व्या॒वृत॑ मगच्छ-न्नगच्छन् व्या॒वृतं॑-व्याँ॒वृत॑ मगच्छन्न् । 51) व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । 52) अ॒ग॒च्छ॒-ञ्छ्रैष्ठ्य॒ग्ग्॒ श्रैष्ठ्य॑ मगच्छ-न्नगच्छ॒-ञ्छ्रैष्ठ्य᳚म् । 53) श्रैष्ठ्य॑-न्दे॒वाना᳚-न्दे॒वाना॒ग्॒ श्रैष्ठ्य॒ग्ग्॒ श्रैष्ठ्य॑-न्दे॒वाना᳚म् । 54) दे॒वाना॒-न्तस्मा॒-त्तस्मा᳚-द्दे॒वाना᳚-न्दे॒वाना॒-न्तस्मा᳚त् । 55) तस्मा॒-द्द्वाद॑श॒ द्वाद॑श॒ तस्मा॒-त्तस्मा॒-द्द्वाद॑श । 56) द्वाद॑श मा॒सो मा॒सो द्वाद॑श॒ द्वाद॑श मा॒सः । 57) मा॒सो भृ॒त्वा भृ॒त्वा मा॒सो मा॒सो भृ॒त्वा । 58) भृ॒त्वा ऽग्नि म॒ग्नि-म्भृ॒त्वा भृ॒त्वा ऽग्निम् । 59) अ॒ग्नि-ञ्चि॑न्वीत चिन्वीता॒ग्नि म॒ग्नि-ञ्चि॑न्वीत । 60) चि॒न्वी॒त॒ द्वाद॑श॒ द्वाद॑श चिन्वीत चिन्वीत॒ द्वाद॑श । 61) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 62) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः । 63) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रः । 63) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 64) सं॒वँ॒थ्स॒रो᳚ ऽग्नि र॒ग्नि-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो᳚ ऽग्निः । 64) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 65) अ॒ग्नि श्चित्य॒ श्चित्यो॒ ऽग्नि र॒ग्नि श्चित्यः॑ । 66) चित्य॒ स्तस्य॒ तस्य॒ चित्य॒ श्चित्य॒ स्तस्य॑ । 67) तस्या॑ होरा॒त्रा ण्य॑होरा॒त्राणि॒ तस्य॒ तस्या॑ होरा॒त्राणि॑ । 68) अ॒हो॒रा॒त्राणी ष्ट॑का॒ इष्ट॑का अहोरा॒त्रा ण्य॑होरा॒त्राणी ष्ट॑काः । 68) अ॒हो॒रा॒त्राणीत्य॑हः - रा॒त्राणि॑ । 69) इष्ट॑का आ॒प्तेष्ट॑क मा॒प्तेष्ट॑क॒ मिष्ट॑का॒ इष्ट॑का आ॒प्तेष्ट॑कम् । 70) आ॒प्तेष्ट॑क मेन मेन मा॒प्तेष्ट॑क मा॒प्तेष्ट॑क मेनम् । 70) आ॒प्तेष्ट॑क॒मित्या॒प्त - इ॒ष्ट॒क॒म् । 71) ए॒न॒-ञ्चि॒नु॒ते॒ चि॒नु॒त॒ ए॒न॒ मे॒न॒-ञ्चि॒नु॒ते॒ । 72) चि॒नु॒ते ऽथो॒ अथो॑ चिनुते चिनु॒ते ऽथो᳚ । 73) अथो᳚ व्या॒वृतं॑-व्याँ॒वृत॒ मथो॒ अथो᳚ व्या॒वृत᳚म् । 73) अथो॒ इत्यथो᳚ । 74) व्या॒वृत॑ मे॒वैव व्या॒वृतं॑-व्याँ॒वृत॑ मे॒व । 74) व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । 75) ए॒व ग॑च्छति गच्छ त्ये॒वैव ग॑च्छति । 76) ग॒च्छ॒ति॒ श्रैष्ठ्य॒ग्ग्॒ श्रैष्ठ्य॑-ङ्गच्छति गच्छति॒ श्रैष्ठ्य᳚म् । 77) श्रैष्ठ्यग्ं॑ समा॒नानाग्ं॑ समा॒नाना॒ग्॒ श्रैष्ठ्य॒ग्ग्॒ श्रैष्ठ्यग्ं॑ समा॒नाना᳚म् । 78) स॒मा॒नाना॒मिति॑ समा॒नाना᳚म् । ॥ 29 ॥ (78/92) ॥ अ. 7 ॥
1) सु॒व॒र्गाय॒ वै वै सु॑व॒र्गाय॑ सुव॒र्गाय॒ वै । 1) सु॒व॒र्गायेति॑ सुवः - गाय॑ । 2) वा ए॒ष ए॒ष वै वा ए॒षः । 3) ए॒ष लो॒काय॑ लो॒का यै॒ष ए॒ष लो॒काय॑ । 4) लो॒काय॑ चीयते चीयते लो॒काय॑ लो॒काय॑ चीयते । 5) ची॒य॒ते॒ य-द्यच् ची॑यते चीयते॒ यत् । 6) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 7) अ॒ग्नि स्त-न्त म॒ग्नि र॒ग्नि स्तम् । 8) तं-यँ-द्य-त्त-न्तं-यँत् । 9) य-न्न न य-द्य-न्न । 10) नान्वा॒रोहे॑ दन्वा॒रोहे॒-न्न नान्वा॒रोहे᳚त् । 11) अ॒न्वा॒रोहे᳚-थ्सुव॒र्गा-थ्सु॑व॒र्गा द॑न्वा॒रोहे॑ दन्वा॒रोहे᳚-थ्सुव॒र्गात् । 11) अ॒न्वा॒रोहे॒दित्य॑नु - आ॒रोहे᳚त् । 12) सु॒व॒र्गा-ल्लो॒का-ल्लो॒का-थ्सु॑व॒र्गा-थ्सु॑व॒र्गा-ल्लो॒कात् । 12) सु॒व॒र्गादिति॑ सुवः - गात् । 13) लो॒का-द्यज॑मानो॒ यज॑मानो लो॒का-ल्लो॒का-द्यज॑मानः । 14) यज॑मानो हीयेत हीयेत॒ यज॑मानो॒ यज॑मानो हीयेत । 15) ही॒ये॒त॒ पृ॒थि॒वी-म्पृ॑थि॒वीग्ं ही॑येत हीयेत पृथि॒वीम् । 16) पृ॒थि॒वी मा पृ॑थि॒वी-म्पृ॑थि॒वी मा । 17) आ ऽक्र॑मिष मक्रमिष॒ मा ऽक्र॑मिषम् । 18) अ॒क्र॒मि॒ष॒-म्प्रा॒णः प्रा॒णो᳚ ऽक्रमिष मक्रमिष-म्प्रा॒णः । 19) प्रा॒णो मा॑ मा प्रा॒णः प्रा॒णो मा᳚ । 19) प्रा॒ण इति॑ प्र - अ॒नः । 20) मा॒ मा मा मा॑ मा॒ मा । 21) मा हा॑सी द्धासी॒-न्मा मा हा॑सीत् । 22) हा॒सी॒ द॒न्तरि॑क्ष म॒न्तरि॑क्षग्ं हासी द्धासी द॒न्तरि॑क्षम् । 23) अ॒न्तरि॑क्ष॒ मा ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒ मा । 24) आ ऽक्र॑मिष मक्रमिष॒ मा ऽक्र॑मिषम् । 25) अ॒क्र॒मि॒ष॒-म्प्र॒जा प्र॒जा ऽक्र॑मिष मक्रमिष-म्प्र॒जा । 26) प्र॒जा मा॑ मा प्र॒जा प्र॒जा मा᳚ । 26) प्र॒जेति॑ प्र - जा । 27) मा॒ मा मा मा॑ मा॒ मा । 28) मा हा॑सी द्धासी॒-न्मा मा हा॑सीत् । 29) हा॒सी॒-द्दिव॒-न्दिवग्ं॑ हासी द्धासी॒-द्दिव᳚म् । 30) दिव॒ मा दिव॒-न्दिव॒ मा । 31) आ ऽक्र॑मिष मक्रमिष॒ मा ऽक्र॑मिषम् । 32) अ॒क्र॒मि॒ष॒ग्ं॒ सुव॒-स्सुव॑ रक्रमिष मक्रमिष॒ग्ं॒ सुवः॑ । 33) सुव॑ रगन्मा गन्म॒ सुव॒-स्सुव॑ रगन्म । 34) अ॒ग॒न्मे तीत्य॑ गन्मा ग॒न्मेति॑ । 35) इत्या॑हा॒हे तीत्या॑ह । 36) आ॒है॒ष ए॒ष आ॑हा है॒षः । 37) ए॒ष वै वा ए॒ष ए॒ष वै । 38) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 39) अ॒ग्ने र॑न्वारो॒हो᳚ ऽन्वारो॒हो᳚ ऽग्ने र॒ग्ने र॑न्वारो॒हः । 40) अ॒न्वा॒रो॒ह स्तेन॒ तेना᳚ न्वारो॒हो᳚ ऽन्वारो॒ह स्तेन॑ । 40) अ॒न्वा॒रो॒ह इत्य॑नु - आ॒रो॒हः । 41) तेनै॒ वैव तेन॒ तेनै॒व । 42) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 43) ए॒न॒ म॒न्वारो॑ह त्य॒न्वारो॑ह त्येन मेन म॒न्वारो॑हति । 44) अ॒न्वारो॑हति सुव॒र्गस्य॑ सुव॒र्गस्या॒ न्वारो॑ह त्य॒न्वारो॑हति सुव॒र्गस्य॑ । 44) अ॒न्वारो॑ह॒तीत्य॑नु - आरो॑हति । 45) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 45) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 46) लो॒कस्य॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै लो॒कस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । 47) सम॑ष्ट्यै॒ य-द्य-थ्सम॑ष्ट्यै॒ सम॑ष्ट्यै॒ यत् । 47) सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । 48) य-त्प॒क्षस॑म्मिता-म्प॒क्षस॑म्मितां॒-यँ-द्य-त्प॒क्षस॑म्मिताम् । 49) प॒क्षस॑म्मिता-म्मिनु॒या-न्मि॑नु॒या-त्प॒क्षस॑म्मिता-म्प॒क्षस॑म्मिता-म्मिनु॒यात् । 49) प॒क्षस॑म्मिता॒मिति॑ प॒क्ष - स॒म्मि॒ता॒म् । 50) मि॒नु॒या-त्कनी॑याग्ंस॒-ङ्कनी॑याग्ंस-म्मिनु॒या-न्मि॑नु॒या-त्कनी॑याग्ंसम् । ॥ 30 ॥ (50/60)
1) कनी॑याग्ंसं-यँज्ञक्र॒तुं-यँ॑ज्ञक्र॒तु-ङ्कनी॑याग्ंस॒-ङ्कनी॑याग्ंसं-यँज्ञक्र॒तुम् । 2) य॒ज्ञ॒क्र॒तु मुपोप॑ यज्ञक्र॒तुं-यँ॑ज्ञक्र॒तु मुप॑ । 2) य॒ज्ञ॒क्र॒तुमिति॑ यज्ञ - क्र॒तुम् । 3) उपे॑ या दिया॒ दुपोपे॑ यात् । 4) इ॒या॒-त्पापी॑यसी॒ पापी॑यसीया दिया॒-त्पापी॑यसी । 5) पापी॑यस्य स्यास्य॒ पापी॑यसी॒ पापी॑यस्यस्य । 6) अ॒स्या॒ त्मन॑ आ॒त्मनो᳚ ऽस्या स्या॒त्मनः॑ । 7) आ॒त्मनः॑ प्र॒जा प्र॒जा ऽऽत्मन॑ आ॒त्मनः॑ प्र॒जा । 8) प्र॒जा स्या᳚-थ्स्या-त्प्र॒जा प्र॒जा स्या᳚त् । 8) प्र॒जेति॑ प्र - जा । 9) स्या॒-द्वेदि॑सम्मितां॒-वेँदि॑सम्मिताग् स्या-थ्स्या॒-द्वेदि॑सम्मिताम् । 10) वेदि॑सम्मिता-म्मिनोति मिनोति॒ वेदि॑सम्मितां॒-वेँदि॑सम्मिता-म्मिनोति । 10) वेदि॑सम्मिता॒मिति॒ वेदि॑ - स॒म्मि॒ता॒म् । 11) मि॒नो॒ति॒ ज्यायाग्ं॑स॒-ञ्ज्यायाग्ं॑स-म्मिनोति मिनोति॒ ज्यायाग्ं॑सम् । 12) ज्यायाग्ं॑स मे॒वैव ज्यायाग्ं॑स॒-ञ्ज्यायाग्ं॑स मे॒व । 13) ए॒व य॑ज्ञक्र॒तुं-यँ॑ज्ञक्र॒तु मे॒वैव य॑ज्ञक्र॒तुम् । 14) य॒ज्ञ॒क्र॒तु मुपोप॑ यज्ञक्र॒तुं-यँ॑ज्ञक्र॒तु मुप॑ । 14) य॒ज्ञ॒क्र॒तुमिति॑ यज्ञ - क्र॒तुम् । 15) उपै᳚त्ये॒ त्युपोपै॑ति । 16) ए॒ति॒ न नैत्ये॑ति॒ न । 17) नास्या᳚स्य॒ न नास्य॑ । 18) अ॒स्या॒त्मन॑ आ॒त्मनो᳚ ऽस्या स्या॒त्मनः॑ । 19) आ॒त्मनः॒ पापी॑यसी॒ पापी॑य स्या॒त्मन॑ आ॒त्मनः॒ पापी॑यसी । 20) पापी॑यसी प्र॒जा प्र॒जा पापी॑यसी॒ पापी॑यसी प्र॒जा । 21) प्र॒जा भ॑वति भवति प्र॒जा प्र॒जा भ॑वति । 21) प्र॒जेति॑ प्र - जा । 22) भ॒व॒ति॒ सा॒ह॒स्रग्ं सा॑ह॒स्र-म्भ॑वति भवति साह॒स्रम् । 23) सा॒ह॒स्र-ञ्चि॑न्वीत चिन्वीत साह॒स्रग्ं सा॑ह॒स्र-ञ्चि॑न्वीत । 24) चि॒न्वी॒त॒ प्र॒थ॒म-म्प्र॑थ॒म-ञ्चि॑न्वीत चिन्वीत प्रथ॒मम् । 25) प्र॒थ॒म-ञ्चि॑न्वा॒न श्चि॑न्वा॒नः प्र॑थ॒म-म्प्र॑थ॒म-ञ्चि॑न्वा॒नः । 26) चि॒न्वा॒न-स्स॒हस्र॑सम्मित-स्स॒हस्र॑सम्मित श्चिन्वा॒न श्चि॑न्वा॒न-स्स॒हस्र॑सम्मितः । 27) स॒हस्र॑सम्मितो॒ वै वै स॒हस्र॑सम्मित-स्स॒हस्र॑सम्मितो॒ वै । 27) स॒हस्र॑सम्मित॒ इति॑ स॒हस्र॑ - स॒म्मि॒तः॒ । 28) वा अ॒य म॒यं-वैँ वा अ॒यम् । 29) अ॒यम् ँलो॒को लो॒को॑ ऽय म॒यम् ँलो॒कः । 30) लो॒क इ॒म मि॒मम् ँलो॒को लो॒क इ॒मम् । 31) इ॒म मे॒वै वेम मि॒म मे॒व । 32) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् । 33) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि । 34) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 35) ज॒य॒ति॒ द्विषा॑हस्र॒-न्द्विषा॑हस्र-ञ्जयति जयति॒ द्विषा॑हस्रम् । 36) द्विषा॑हस्र-ञ्चिन्वीत चिन्वीत॒ द्विषा॑हस्र॒-न्द्विषा॑हस्र-ञ्चिन्वीत । 36) द्विषा॑हस्र॒मिति॒ द्वि - सा॒ह॒स्र॒म् । 37) चि॒न्वी॒त॒ द्वि॒तीय॑-न्द्वि॒तीय॑-ञ्चिन्वीत चिन्वीत द्वि॒तीय᳚म् । 38) द्वि॒तीय॑-ञ्चिन्वा॒न श्चि॑न्वा॒नो द्वि॒तीय॑-न्द्वि॒तीय॑-ञ्चिन्वा॒नः । 39) चि॒न्वा॒नो द्विषा॑हस्र॒-न्द्विषा॑हस्र-ञ्चिन्वा॒न श्चि॑न्वा॒नो द्विषा॑हस्रम् । 40) द्विषा॑हस्रं॒-वैँ वै द्विषा॑हस्र॒-न्द्विषा॑हस्रं॒-वैँ । 40) द्विषा॑हस्र॒मिति॒ द्वि - सा॒ह॒स्र॒म् । 41) वा अ॒न्तरि॑क्ष म॒न्तरि॑क्षं॒-वैँ वा अ॒न्तरि॑क्षम् । 42) अ॒न्तरि॑क्ष म॒न्तरि॑क्षम् । 43) अ॒न्तरि॑क्ष मे॒वै वान्तरि॑क्ष म॒न्तरि॑क्ष मे॒व । 44) ए॒वाभ्या᳚(1॒) भ्ये॑वै वाभि । 45) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 46) ज॒य॒ति॒ त्रिषा॑हस्र॒-न्त्रिषा॑हस्र-ञ्जयति जयति॒ त्रिषा॑हस्रम् । 47) त्रिषा॑हस्र-ञ्चिन्वीत चिन्वीत॒ त्रिषा॑हस्र॒-न्त्रिषा॑हस्र-ञ्चिन्वीत । 47) त्रिषा॑हस्र॒मिति॒ त्रि - सा॒ह॒स्र॒म् । 48) चि॒न्वी॒त॒ तृ॒तीय॑-न्तृ॒तीय॑-ञ्चिन्वीत चिन्वीत तृ॒तीय᳚म् । 49) तृ॒तीय॑-ञ्चिन्वा॒न श्चि॑न्वा॒न स्तृ॒तीय॑-न्तृ॒तीय॑-ञ्चिन्वा॒नः । 50) चि॒न्वा॒न स्त्रिषा॑हस्र॒ स्त्रिषा॑हस्र श्चिन्वा॒न श्चि॑न्वा॒न स्त्रिषा॑हस्रः । ॥ 31 ॥ (50/59)
1) त्रिषा॑हस्रो॒ वै वै त्रिषा॑हस्र॒ स्त्रिषा॑हस्रो॒ वै । 1) त्रिषा॑हस्र॒ इति॒ त्रि - सा॒ह॒स्रः॒ । 2) वा अ॒सा व॒सौ वै वा अ॒सौ । 3) अ॒सौ लो॒को लो॒को॑ ऽसा व॒सौ लो॒कः । 4) लो॒को॑ ऽमु म॒मुम् ँलो॒को लो॒को॑ ऽमुम् । 5) अ॒मु मे॒वै वामु म॒मु मे॒व । 6) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् । 7) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि । 8) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 9) ज॒य॒ति॒ जा॒नु॒द॒घ्न-ञ्जा॑नुद॒घ्न-ञ्ज॑यति जयति जानुद॒घ्नम् । 10) जा॒नु॒द॒घ्न-ञ्चि॑न्वीत चिन्वीत जानुद॒घ्न-ञ्जा॑नुद॒घ्न-ञ्चि॑न्वीत । 10) जा॒नु॒द॒घ्नमिति॑ जानु - द॒घ्नम् । 11) चि॒न्वी॒त॒ प्र॒थ॒म-म्प्र॑थ॒म-ञ्चि॑न्वीत चिन्वीत प्रथ॒मम् । 12) प्र॒थ॒म-ञ्चि॑न्वा॒न श्चि॑न्वा॒नः प्र॑थ॒म-म्प्र॑थ॒म-ञ्चि॑न्वा॒नः । 13) चि॒न्वा॒नो गा॑यत्रि॒या गा॑यत्रि॒या चि॑न्वा॒न श्चि॑न्वा॒नो गा॑यत्रि॒या । 14) गा॒य॒त्रि॒ यैवैव गा॑यत्रि॒या गा॑यत्रि॒यैव । 15) ए॒वेम मि॒म मे॒वै वेमम् । 16) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् । 17) लो॒क म॒भ्यारो॑ह त्य॒भ्यारो॑हति लो॒कम् ँलो॒क म॒भ्यारो॑हति । 18) अ॒भ्यारो॑हति नाभिद॒घ्न-न्ना॑भिद॒घ्न म॒भ्यारो॑ह त्य॒भ्यारो॑हति नाभिद॒घ्नम् । 18) अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । 19) ना॒भि॒द॒घ्न-ञ्चि॑न्वीत चिन्वीत नाभिद॒घ्न-न्ना॑भिद॒घ्न-ञ्चि॑न्वीत । 19) ना॒भि॒द॒घ्नमिति॑ नाभि - द॒घ्नम् । 20) चि॒न्वी॒त॒ द्वि॒तीय॑-न्द्वि॒तीय॑-ञ्चिन्वीत चिन्वीत द्वि॒तीय᳚म् । 21) द्वि॒तीय॑-ञ्चिन्वा॒न श्चि॑न्वा॒नो द्वि॒तीय॑-न्द्वि॒तीय॑-ञ्चिन्वा॒नः । 22) चि॒न्वा॒न स्त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा॑ चिन्वा॒न श्चि॑न्वा॒न स्त्रि॒ष्टुभा᳚ । 23) त्रि॒ष्टुभै॒वैव त्रि॒ष्टुभा᳚ त्रि॒ष्टुभै॒व । 24) ए॒वान्तरि॑क्ष म॒न्तरि॑क्ष मे॒वै वान्तरि॑क्षम् । 25) अ॒न्तरि॑क्ष म॒भ्यारो॑ह त्य॒भ्यारो॑ह त्य॒न्तरि॑क्ष म॒न्तरि॑क्ष म॒भ्यारो॑हति । 26) अ॒भ्यारो॑हति ग्रीवद॒घ्न-ङ्ग्री॑वद॒घ्न म॒भ्यारो॑ह त्य॒भ्यारो॑हति ग्रीवद॒घ्नम् । 26) अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । 27) ग्री॒व॒द॒घ्न-ञ्चि॑न्वीत चिन्वीत ग्रीवद॒घ्न-ङ्ग्री॑वद॒घ्न-ञ्चि॑न्वीत । 27) ग्री॒व॒द॒घ्नमिति॑ ग्रीव - द॒घ्नम् । 28) चि॒न्वी॒त॒ तृ॒तीय॑-न्तृ॒तीय॑-ञ्चिन्वीत चिन्वीत तृ॒तीय᳚म् । 29) तृ॒तीय॑-ञ्चिन्वा॒न श्चि॑न्वा॒न स्तृ॒तीय॑-न्तृ॒तीय॑-ञ्चिन्वा॒नः । 30) चि॒न्वा॒नो जग॑त्या॒ जग॑त्या चिन्वा॒न श्चि॑न्वा॒नो जग॑त्या । 31) जग॑ त्यै॒वैव जग॑त्या॒ जग॑ त्यै॒व । 32) ए॒वामु म॒मु मे॒वै वामुम् । 33) अ॒मुम् ँलो॒कम् ँलो॒क म॒मु म॒मुम् ँलो॒कम् । 34) लो॒क म॒भ्यारो॑ह त्य॒भ्यारो॑हति लो॒कम् ँलो॒क म॒भ्यारो॑हति । 35) अ॒भ्यारो॑हति॒ न नाभ्यारो॑ह त्य॒भ्यारो॑हति॒ न । 35) अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । 36) नाग्नि म॒ग्नि-न्न नाग्निम् । 37) अ॒ग्नि-ञ्चि॒त्वा चि॒त्वा ऽग्नि म॒ग्नि-ञ्चि॒त्वा । 38) चि॒त्वा रा॒माग्ं रा॒मा-ञ्चि॒त्वा चि॒त्वा रा॒माम् । 39) रा॒मा मुपोप॑ रा॒माग्ं रा॒मा मुप॑ । 40) उपे॑ या दिया॒ दुपोपे॑ यात् । 41) इ॒या॒ द॒यो॒ना व॑यो॒ना वि॑या दिया दयो॒नौ । 42) अ॒यो॒नौ रेतो॒ रेतो॑ ऽयो॒ना व॑यो॒नौ रेतः॑ । 43) रेतो॑ धास्यामि धास्यामि॒ रेतो॒ रेतो॑ धास्यामि । 44) धा॒स्या॒मी तीति॑ धास्यामि धास्या॒मीति॑ । 45) इति॒ न नेतीति॒ न । 46) न द्वि॒तीय॑-न्द्वि॒तीय॒-न्न न द्वि॒तीय᳚म् । 47) द्वि॒तीय॑-ञ्चि॒त्वा चि॒त्वा द्वि॒तीय॑-न्द्वि॒तीय॑-ञ्चि॒त्वा । 48) चि॒त्वा ऽन्यस्या॒ न्यस्य॑ चि॒त्वा चि॒त्वा ऽन्यस्य॑ । 49) अ॒न्यस्य॒ स्त्रिय॒ग्ग्॒ स्त्रिय॑ म॒न्यस्या॒ न्यस्य॒ स्त्रिय᳚म् । 50) स्त्रिय॒ मुपोप॒ स्त्रिय॒ग्ग्॒ स्त्रिय॒ मुप॑ । ॥ 32 ॥ (50/57)
1) उपे॑ या दिया॒ दुपोपे॑ यात् । 2) इ॒या॒-न्न नेया॑ दिया॒-न्न । 3) न तृ॒तीय॑-न्तृ॒तीय॒-न्न न तृ॒तीय᳚म् । 4) तृ॒तीय॑-ञ्चि॒त्वा चि॒त्वा तृ॒तीय॑-न्तृ॒तीय॑-ञ्चि॒त्वा । 5) चि॒त्वा का-ङ्का-ञ्चि॒त्वा चि॒त्वा काम् । 6) का-ञ्च॒न च॒न का-ङ्का-ञ्च॒न । 7) च॒नोपोप॑ च॒न च॒नोप॑ । 8) उपे॑या दिया॒ दुपोपे॑ यात् । 9) इ॒या॒-द्रेतो॒ रेत॑ इया दिया॒-द्रेतः॑ । 10) रेतो॒ वै वै रेतो॒ रेतो॒ वै । 11) वा ए॒त दे॒त-द्वै वा ए॒तत् । 12) ए॒त-न्नि न्ये॑त दे॒त-न्नि । 13) नि ध॑त्ते धत्ते॒ नि नि ध॑त्ते । 14) ध॒त्ते॒ य-द्य-द्ध॑त्ते धत्ते॒ यत् । 15) यद॒ग्नि म॒ग्निं-यँ-द्यद॒ग्निम् । 16) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 17) चि॒नु॒ते य-द्यच् चि॑नु॒ते चि॑नु॒ते यत् । 18) यदु॑पे॒या दु॑पे॒या-द्य-द्यदु॑पे॒यात् । 19) उ॒पे॒या-द्रेत॑सा॒ रेत॑सो पे॒या दु॑पे॒या-द्रेत॑सा । 19) उ॒पे॒यादित्यु॑प - इ॒यात् । 20) रेत॑सा॒ वि वि रेत॑सा॒ रेत॑सा॒ वि । 21) व्यृ॑द्ध्येत र्द्ध्येत॒ वि व्यृ॑द्ध्येत । 22) ऋ॒द्ध्ये॒ ताथो॒ अथो॑ ऋद्ध्येत र्द्ध्ये॒ ताथो᳚ । 23) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 23) अथो॒ इत्यथो᳚ । 24) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः । 25) आ॒हु॒ र॒प्र॒ज॒स्य म॑प्रज॒स्य मा॑हु राहु रप्रज॒स्यम् । 26) अ॒प्र॒ज॒स्य-न्त-त्तद॑प्रज॒स्य म॑प्रज॒स्य-न्तत् । 26) अ॒प्र॒ज॒स्यमित्य॑प्र - ज॒स्यम् । 27) त-द्य-द्य-त्त-त्त-द्यत् । 28) य-न्न न य-द्य-न्न । 29) नोपे॒या दु॑पे॒या-न्न नोपे॒यात् । 30) उ॒पे॒या दिती त्यु॑पे॒या दु॑पे॒या दिति॑ । 30) उ॒पे॒यादित्यु॑प - इ॒यात् । 31) इति॒ य-द्यदितीति॒ यत् । 32) य-द्रे॑त॒स्सिचौ॑ रेत॒स्सिचौ॒ य-द्य-द्रे॑त॒स्सिचौ᳚ । 33) रे॒त॒स्सिचा॑ वुप॒दधा᳚ त्युप॒दधा॑ति रेत॒स्सिचौ॑ रेत॒स्सिचा॑ वुप॒दधा॑ति । 33) रे॒त॒स्सिचा॒विति॑ रेतः - सिचौ᳚ । 34) उ॒प॒दधा॑ति॒ ते ते उ॑प॒दधा᳚ त्युप॒दधा॑ति॒ ते । 34) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 35) ते ए॒वैव ते ते ए॒व । 35) ते इति॒ ते । 36) ए॒व यज॑मानस्य॒ यज॑मान स्यै॒वैव यज॑मानस्य । 37) यज॑मानस्य॒ रेतो॒ रेतो॒ यज॑मानस्य॒ यज॑मानस्य॒ रेतः॑ । 38) रेतो॑ बिभृतो बिभृतो॒ रेतो॒ रेतो॑ बिभृतः । 39) बि॒भृ॒त॒ स्तस्मा॒-त्तस्मा᳚-द्बिभृतो बिभृत॒ स्तस्मा᳚त् । 40) तस्मा॒ दुपोप॒ तस्मा॒-त्तस्मा॒ दुप॑ । 41) उपे॑या दिया॒ दुपोपे॑ यात् । 42) इ॒या॒-द्रेत॑सो॒ रेत॑स इया दिया॒-द्रेत॑सः । 43) रेत॒सो ऽस्क॑न्दा॒या स्क॑न्दाय॒ रेत॑सो॒ रेत॒सो ऽस्क॑न्दाय । 44) अस्क॑न्दाय॒ त्रीणि॒ त्रीण्यस्क॑न्दा॒या स्क॑न्दाय॒ त्रीणि॑ । 45) त्रीणि॒ वाव वाव त्रीणि॒ त्रीणि॒ वाव । 46) वाव रेताग्ं॑सि॒ रेताग्ं॑सि॒ वाव वाव रेताग्ं॑सि । 47) रेताग्ं॑सि पि॒ता पि॒ता रेताग्ं॑सि॒ रेताग्ं॑सि पि॒ता । 48) पि॒ता पु॒त्रः पु॒त्रः पि॒ता पि॒ता पु॒त्रः । 49) पु॒त्रः पौत्रः॒ पौत्रः॑ पु॒त्रः पु॒त्रः पौत्रः॑ । 50) पौत्रो॒ य-द्य-त्पौत्रः॒ पौत्रो॒ यत् । ॥ 33 ॥ (50/57)
1) य-द्द्वे द्वे य-द्य-द्द्वे । 2) द्वे रे॑त॒स्सिचौ॑ रेत॒स्सिचौ॒ द्वे द्वे रे॑त॒स्सिचौ᳚ । 2) द्वे इति॒ द्वे । 3) रे॒त॒स्सिचा॑ वुपद॒द्ध्या दु॑पद॒द्ध्या-द्रे॑त॒स्सिचौ॑ रेत॒स्सिचा॑ वुपद॒द्ध्यात् । 3) रे॒त॒स्सिचा॒विति॑ रेतः - सिचौ᳚ । 4) उ॒प॒द॒द्ध्या-द्रेतो॒ रेत॑ उपद॒द्ध्या दु॑पद॒द्ध्या-द्रेतः॑ । 4) उ॒प॒द॒द्ध्यादित्यु॑प - द॒ध्यात् । 5) रेतो᳚ ऽस्यास्य॒ रेतो॒ रेतो᳚ ऽस्य । 6) अ॒स्य॒ वि व्य॑स्यास्य॒ वि । 7) वि च्छि॑न्द्याच् छिन्द्या॒-द्वि वि च्छि॑न्द्यात् । 8) छि॒न्द्या॒-त्ति॒स्र स्ति॒स्र श्छि॑न्द्याच् छिन्द्या-त्ति॒स्रः । 9) ति॒स्र उपोप॑ ति॒स्र स्ति॒स्र उप॑ । 10) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 11) द॒धा॒ति॒ रेत॑सो॒ रेत॑सो दधाति दधाति॒ रेत॑सः । 12) रेत॑स॒-स्सन्त॑त्यै॒ सन्त॑त्यै॒ रेत॑सो॒ रेत॑स॒-स्सन्त॑त्यै । 13) सन्त॑त्या इ॒य मि॒यग्ं सन्त॑त्यै॒ सन्त॑त्या इ॒यम् । 13) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । 14) इ॒यं-वाँव वावेय मि॒यं-वाँव । 15) वाव प्र॑थ॒मा प्र॑थ॒मा वाव वाव प्र॑थ॒मा । 16) प्र॒थ॒मा रे॑त॒स्सिग् रे॑त॒स्सि-क्प्र॑थ॒मा प्र॑थ॒मा रे॑त॒स्सिक् । 17) रे॒त॒स्सिग् वाग् वाग् रे॑त॒स्सिग् रे॑त॒स्सिग् वाक् । 17) रे॒त॒स्सिगिति॑ रेतः - सिक् । 18) वाग् वै वै वाग् वाग् वै । 19) वा इ॒य मि॒यं-वैँ वा इ॒यम् । 20) इ॒य-न्तस्मा॒-त्तस्मा॑ दि॒य मि॒य-न्तस्मा᳚त् । 21) तस्मा॒-त्पश्य॑न्ति॒ पश्य॑न्ति॒ तस्मा॒-त्तस्मा॒-त्पश्य॑न्ति । 22) पश्य॑न्ती॒मा मि॒मा-म्पश्य॑न्ति॒ पश्य॑न्ती॒माम् । 23) इ॒मा-म्पश्य॑न्ति॒ पश्य॑न्ती॒मा मि॒मा-म्पश्य॑न्ति । 24) पश्य॑न्ति॒ वाचं॒-वाँच॒-म्पश्य॑न्ति॒ पश्य॑न्ति॒ वाच᳚म् । 25) वाचं॒-वँद॑न्तीं॒-वँद॑न्तीं॒-वाँचं॒-वाँचं॒-वँद॑न्तीम् । 26) वद॑न्ती म॒न्तरि॑क्ष म॒न्तरि॑क्षं॒-वँद॑न्तीं॒-वँद॑न्ती म॒न्तरि॑क्षम् । 27) अ॒न्तरि॑क्ष-न्द्वि॒तीया᳚ द्वि॒तीया॒ ऽन्तरि॑क्ष म॒न्तरि॑क्ष-न्द्वि॒तीया᳚ । 28) द्वि॒तीया᳚ प्रा॒णः प्रा॒णो द्वि॒तीया᳚ द्वि॒तीया᳚ प्रा॒णः । 29) प्रा॒णो वै वै प्रा॒णः प्रा॒णो वै । 29) प्रा॒ण इति॑ प्र - अ॒नः । 30) वा अ॒न्तरि॑क्ष म॒न्तरि॑क्षं॒-वैँ वा अ॒न्तरि॑क्षम् । 31) अ॒न्तरि॑क्ष॒-न्तस्मा॒-त्तस्मा॑ द॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-न्तस्मा᳚त् । 32) तस्मा॒-न्न न तस्मा॒-त्तस्मा॒-न्न । 33) नान्तरि॑क्ष म॒न्तरि॑क्ष॒न्न नान्तरि॑क्षम् । 34) अ॒न्तरि॑क्ष॒-म्पश्य॑न्ति॒ पश्य॑-न्त्य॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-म्पश्य॑न्ति । 35) पश्य॑न्ति॒ न न पश्य॑न्ति॒ पश्य॑न्ति॒ न । 36) न प्रा॒ण-म्प्रा॒ण-न्न न प्रा॒णम् । 37) प्रा॒ण म॒सा व॒सौ प्रा॒ण-म्प्रा॒ण म॒सौ । 37) प्रा॒णमिति॑ प्र - अ॒नम् । 38) अ॒सौ तृ॒तीया॑ तृ॒तीया॒ ऽसा व॒सौ तृ॒तीया᳚ । 39) तृ॒तीया॒ चक्षु॒ श्चक्षु॑ स्तृ॒तीया॑ तृ॒तीया॒ चक्षुः॑ । 40) चक्षु॒-र्वै वै चक्षु॒ श्चक्षु॒-र्वै । 41) वा अ॒सा व॒सौ वै वा अ॒सौ । 42) अ॒सौ तस्मा॒-त्तस्मा॑ द॒सा व॒सौ तस्मा᳚त् । 43) तस्मा॒-त्पश्य॑न्ति॒ पश्य॑न्ति॒ तस्मा॒-त्तस्मा॒-त्पश्य॑न्ति । 44) पश्य॑-न्त्य॒मू म॒मू-म्पश्य॑न्ति॒ पश्य॑-न्त्य॒मूम् । 45) अ॒मू-म्पश्य॑न्ति॒ पश्य॑-न्त्य॒मू म॒मू-म्पश्य॑न्ति । 46) पश्य॑न्ति॒ चक्षु॒ श्चक्षुः॒ पश्य॑न्ति॒ पश्य॑न्ति॒ चक्षुः॑ । 47) चक्षु॒-र्यजु॑षा॒ यजु॑षा॒ चक्षु॒ श्चक्षु॒-र्यजु॑षा । 48) यजु॑षे॒मा मि॒मां-यँजु॑षा॒ यजु॑षे॒माम् । 49) इ॒मा-ञ्च॑ चे॒मा मि॒मा-ञ्च॑ । 50) चा॒मू म॒मू-ञ्च॑ चा॒मूम् । ॥ 34 ॥ (50/57)
1) अ॒मू-ञ्च॑ चा॒मू म॒मू-ञ्च॑ । 2) चोपोप॑ च॒ चोप॑ । 3) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 4) द॒धा॒ति॒ मन॑सा॒ मन॑सा दधाति दधाति॒ मन॑सा । 5) मन॑सा मद्ध्य॒मा-म्म॑द्ध्य॒मा-म्मन॑सा॒ मन॑सा मद्ध्य॒माम् । 6) म॒द्ध्य॒मा मे॒षा मे॒षा-म्म॑द्ध्य॒मा-म्म॑द्ध्य॒मा मे॒षाम् । 7) ए॒षाम् ँलो॒काना᳚म् ँलो॒काना॑ मे॒षा मे॒षाम् ँलो॒काना᳚म् । 8) लो॒काना॒-ङ्क्लृप्त्यै॒ क्लृप्त्यै॑ लो॒काना᳚म् ँलो॒काना॒-ङ्क्लृप्त्यै᳚ । 9) क्लृप्त्या॒ अथो॒ अथो॒ क्लृप्त्यै॒ क्लृप्त्या॒ अथो᳚ । 10) अथो᳚ प्रा॒णाना᳚-म्प्रा॒णाना॒ मथो॒ अथो᳚ प्रा॒णाना᳚म् । 10) अथो॒ इत्यथो᳚ । 11) प्रा॒णाना॑ मि॒ष्ट इ॒ष्टः प्रा॒णाना᳚-म्प्रा॒णाना॑ मि॒ष्टः । 11) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । 12) इ॒ष्टो य॒ज्ञो य॒ज्ञ इ॒ष्ट इ॒ष्टो य॒ज्ञः । 13) य॒ज्ञो भृगु॑भि॒-र्भृगु॑भि-र्य॒ज्ञो य॒ज्ञो भृगु॑भिः । 14) भृगु॑भि राशी॒र्दा आ॑शी॒र्दा भृगु॑भि॒-र्भृगु॑भि राशी॒र्दाः । 14) भृगु॑भि॒रिति॒ भृगु॑ - भिः॒ । 15) आ॒शी॒र्दा वसु॑भि॒-र्वसु॑भि राशी॒र्दा आ॑शी॒र्दा वसु॑भिः । 15) आ॒शी॒र्दा इत्या॑शीः - दाः । 16) वसु॑भि॒ स्तस्य॒ तस्य॒ वसु॑भि॒-र्वसु॑भि॒ स्तस्य॑ । 16) वसु॑भि॒रिति॒ वसु॑ - भिः॒ । 17) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते । 18) त॒ इ॒ष्ट स्ये॒ष्टस्य॑ ते त इ॒ष्टस्य॑ । 19) इ॒ष्टस्य॑ वी॒तस्य॑ वी॒त स्ये॒ष्ट स्ये॒ष्टस्य॑ वी॒तस्य॑ । 20) वी॒तस्य॒ द्रवि॑णा॒ द्रवि॑णा वी॒तस्य॑ वी॒तस्य॒ द्रवि॑णा । 21) द्रवि॑णे॒हेह द्रवि॑णा॒ द्रवि॑णे॒ह । 22) इ॒ह भ॑क्षीय भक्षीये॒हेह भ॑क्षीय । 23) भ॒क्षी॒ये तीति॑ भक्षीय भक्षी॒येति॑ । 24) इत्या॑हा॒हे तीत्या॑ह । 25) आ॒ह॒ स्तु॒त॒श॒स्त्रे स्तु॑तश॒स्त्रे आ॑हाह स्तुतश॒स्त्रे । 26) स्तु॒त॒श॒स्त्रे ए॒वैव स्तु॑तश॒स्त्रे स्तु॑तश॒स्त्रे ए॒व । 26) स्तु॒त॒श॒स्त्रे इति॑ स्तुत - श॒स्त्रे । 27) ए॒वैते नै॒ते नै॒वै वैतेन॑ । 28) ए॒तेन॑ दुहे दुह ए॒ते नै॒तेन॑ दुहे । 29) दु॒हे॒ पि॒ता पि॒ता दु॑हे दुहे पि॒ता । 30) पि॒ता मा॑त॒रिश्वा॑ मात॒रिश्वा॑ पि॒ता पि॒ता मा॑त॒रिश्वा᳚ । 31) मा॒त॒रिश्वा ऽच्छि॒द्रा ऽच्छि॑द्रा मात॒रिश्वा॑ मात॒रिश्वा ऽच्छि॑द्रा । 32) अच्छि॑द्रा प॒दा प॒दा ऽच्छि॒द्रा ऽच्छि॑द्रा प॒दा । 33) प॒दा धा॑ धाः प॒दा प॒दा धाः᳚ । 34) धा॒ अच्छि॑द्रा॒ अच्छि॑द्रा धा धा॒ अच्छि॑द्राः । 35) अच्छि॑द्रा उ॒शिज॑ उ॒शिजो ऽच्छि॑द्रा॒ अच्छि॑द्रा उ॒शिजः॑ । 36) उ॒शिजः॑ प॒दा प॒दोशिज॑ उ॒शिजः॑ प॒दा । 37) प॒दा ऽन्वनु॑ प॒दा प॒दा ऽनु॑ । 38) अनु॑ तक्षु स्तक्षु॒ रन्वनु॑ तक्षुः । 39) त॒क्षु॒-स्सोम॒-स्सोम॑ स्तक्षु स्तक्षु॒-स्सोमः॑ । 40) सोमो॑ विश्व॒वि-द्वि॑श्व॒वि-थ्सोम॒-स्सोमो॑ विश्व॒वित् । 41) वि॒श्व॒वि-न्ने॒ता ने॒ता वि॑श्व॒वि-द्वि॑श्व॒वि-न्ने॒ता । 41) वि॒श्व॒विदिति॑ विश्व - वित् । 42) ने॒ता ने॑ष-न्नेष-न्ने॒ता ने॒ता ने॑षत् । 43) ने॒ष॒-द्बृह॒स्पति॒-र्बृह॒स्पति॑-र्नेष-न्नेष॒-द्बृह॒स्पतिः॑ । 44) बृह॒स्पति॑ रुक्थाम॒दा न्यु॑क्थाम॒दानि॒ बृह॒स्पति॒-र्बृह॒स्पति॑ रुक्थाम॒दानि॑ । 45) उ॒क्था॒म॒दानि॑ शग्ंसिष च्छग्ंसिष दुक्थाम॒दा न्यु॑क्थाम॒दानि॑ शग्ंसिषत् । 45) उ॒क्था॒म॒दानीत्यु॑क्थ - म॒दानि॑ । 46) श॒ग्ं॒सि॒ष॒दितीति॑ शग्ंसिष च्छग्ंसिष॒दिति॑ । 47) इत्या॑हा॒हे तीत्या॑ह । 48) आ॒है॒ तदे॒त दा॑हा है॒तत् । 49) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 50) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 51) अ॒ग्ने रु॒क्थ मु॒क्थ म॒ग्ने र॒ग्ने रु॒क्थम् । 52) उ॒क्थ-न्तेन॒ तेनो॒क्थ मु॒क्थ-न्तेन॑ । 53) तेनै॒ वैव तेन॒ तेनै॒व । 54) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 55) ए॒न॒ मन् वन् वे॑न मेन॒ मनु॑ । 56) अनु॑ शग्ंसति शग्ंस॒ त्यन् वनु॑ शग्ंसति । 57) श॒ग्ं॒स॒तीति॑ सग्ंसति । ॥ 35 ॥ (57/65) ॥ अ. 8 ॥
1) सू॒यते॒ वै वै सू॒यते॑ सू॒यते॒ वै । 2) वा ए॒ष ए॒ष वै वा ए॒षः । 3) ए॒षो᳚ ऽग्नी॒ना म॑ग्नी॒ना मे॒ष ए॒षो᳚ ऽग्नी॒नाम् । 4) अ॒ग्नी॒नां-योँ यो᳚ ऽग्नी॒ना म॑ग्नी॒नां-यः ँ। 5) य उ॒खाया॑ मु॒खायां॒-योँ य उ॒खाया᳚म् । 6) उ॒खाया᳚-म्भ्रि॒यते᳚ भ्रि॒यत॑ उ॒खाया॑ मु॒खाया᳚-म्भ्रि॒यते᳚ । 7) भ्रि॒यते॒ य-द्य-द्भ्रि॒यते᳚ भ्रि॒यते॒ यत् । 8) यद॒धो॑ ऽधो य-द्यद॒धः । 9) अ॒ध-स्सा॒दये᳚-थ्सा॒दये॑ द॒धो॑ ऽध-स्सा॒दये᳚त् । 10) सा॒दये॒-द्गर्भा॒ गर्भा᳚-स्सा॒दये᳚-थ्सा॒दये॒-द्गर्भाः᳚ । 11) गर्भाः᳚ प्र॒पादु॑काः प्र॒पादु॑का॒ गर्भा॒ गर्भाः᳚ प्र॒पादु॑काः । 12) प्र॒पादु॑का-स्स्यु-स्स्युः प्र॒पादु॑काः प्र॒पादु॑का-स्स्युः । 12) प्र॒पादु॑का॒ इति॑ प्र - पादु॑काः । 13) स्यु॒ रथो॒ अथो᳚ स्यु-स्स्यु॒ रथो᳚ । 14) अथो॒ यथा॒ यथा ऽथो॒ अथो॒ यथा᳚ । 14) अथो॒ इत्यथो᳚ । 15) यथा॑ स॒वा-थ्स॒वा-द्यथा॒ यथा॑ स॒वात् । 16) स॒वा-त्प्र॑त्यव॒रोह॑ति प्रत्यव॒रोह॑ति स॒वा-थ्स॒वा-त्प्र॑त्यव॒रोह॑ति । 17) प्र॒त्य॒व॒रोह॑ति ता॒दृ-क्ता॒दृ-क्प्र॑त्यव॒रोह॑ति प्रत्यव॒रोह॑ति ता॒दृक् । 17) प्र॒त्य॒व॒रोह॒तीति॑ प्रति - अ॒व॒रोह॑ति । 18) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 19) ए॒व त-त्तदे॒ वैव तत् । 20) तदा॑स॒-न्द्या॑स॒न्दी त-त्तदा॑स॒न्दी । 21) आ॒स॒न्दी सा॑दयति सादय त्यास॒-न्द्या॑स॒न्दी सा॑दयति । 22) सा॒द॒य॒ति॒ गर्भा॑णा॒-ङ्गर्भा॑णाग्ं सादयति सादयति॒ गर्भा॑णाम् । 23) गर्भा॑णा॒-न्धृत्यै॒ धृत्यै॒ गर्भा॑णा॒-ङ्गर्भा॑णा॒-न्धृत्यै᳚ । 24) धृत्या॒ अप्र॑पादा॒या प्र॑पादाय॒ धृत्यै॒ धृत्या॒ अप्र॑पादाय । 25) अप्र॑पादा॒ याथो॒ अथो॒ अप्र॑पादा॒या प्र॑पादा॒ याथो᳚ । 25) अप्र॑पादा॒येत्यप्र॑ - पा॒दा॒य॒ । 26) अथो॑ स॒वग्ं स॒व मथो॒ अथो॑ स॒वम् । 26) अथो॒ इत्यथो᳚ । 27) स॒व मे॒वैव स॒वग्ं स॒व मे॒व । 28) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 29) ए॒न॒-ङ्क॒रो॒ति॒ क॒रो॒ त्ये॒न॒ मे॒न॒-ङ्क॒रो॒ति॒ । 30) क॒रो॒ति॒ गर्भो॒ गर्भः॑ करोति करोति॒ गर्भः॑ । 31) गर्भो॒ वै वै गर्भो॒ गर्भो॒ वै । 32) वा ए॒ष ए॒ष वै वा ए॒षः । 33) ए॒ष य-द्यदे॒ष ए॒ष यत् । 34) यदुख्य॒ उख्यो॒ य-द्यदुख्यः॑ । 35) उख्यो॒ योनि॒-र्योनि॒ रुख्य॒ उख्यो॒ योनिः॑ । 36) योनि॑-श्शि॒क्यग्ं॑ शि॒क्यं॑-योँनि॒-र्योनि॑-श्शि॒क्य᳚म् । 37) शि॒क्यं॑-यँ-द्य च्छि॒क्यग्ं॑ शि॒क्यं॑-यँत् । 38) यच्छि॒क्या᳚ च्छि॒क्या᳚-द्य-द्यच्छि॒क्या᳚त् । 39) शि॒क्या॑दु॒खा मु॒खाग्ं शि॒क्या᳚ च्छि॒क्या॑ दु॒खाम् । 40) उ॒खा-न्नि॒रूहे᳚-न्नि॒रूहे॑ दु॒खा मु॒खा-न्नि॒रूहे᳚त् । 41) नि॒रूहे॒-द्योने॒-र्योने᳚-र्नि॒रूहे᳚-न्नि॒रूहे॒-द्योनेः᳚ । 41) नि॒रूहे॒दिति॑ निः - ऊहे᳚त् । 42) योने॒-र्गर्भ॒-ङ्गर्भं॒-योँने॒-र्योने॒-र्गर्भ᳚म् । 43) गर्भ॒-न्नि-र्णि-र्गर्भ॒-ङ्गर्भ॒-न्निः । 44) निर्-ह॑ण्या द्धन्या॒-न्नि-र्णिर्-ह॑ण्यात् । 45) ह॒न्या॒ थ्षडु॑द्याम॒ग्ं॒ षडु॑द्यामग्ं हन्या द्धन्या॒ थ्षडु॑द्यामम् । 46) षडु॑द्यामग्ं शि॒क्यग्ं॑ शि॒क्यग्ं॑ षडु॑द्याम॒ग्ं॒ षडु॑द्यामग्ं शि॒क्य᳚म् । 46) षडु॑द्याम॒मिति॒ षट् - उ॒द्या॒म॒म् । 47) शि॒क्य॑-म्भवति भवति शि॒क्यग्ं॑ शि॒क्य॑-म्भवति । 48) भ॒व॒ति॒ षो॒ढा॒वि॒हि॒त ष्षो॑ढाविहि॒तो भ॑वति भवति षोढाविहि॒तः । 49) षो॒ढा॒वि॒हि॒तो वै वै षो॑ढाविहि॒त ष्षो॑ढाविहि॒तो वै । 49) षो॒ढा॒वि॒हि॒त इति॑ षोढा - वि॒हि॒तः । 50) वै पुरु॑षः॒ पुरु॑षो॒ वै वै पुरु॑षः । ॥ 36 ॥ (50/58)
1) पुरु॑ष आ॒त्मा ऽऽत्मा पुरु॑षः॒ पुरु॑ष आ॒त्मा । 2) आ॒त्मा च॑ चा॒त्मा ऽऽत्मा च॑ । 3) च॒ शिर॒-श्शिर॑श्च च॒ शिरः॑ । 4) शिर॑श्च च॒ शिर॒-श्शिर॑श्च । 5) च॒ च॒त्वारि॑ च॒त्वारि॑ च च च॒त्वारि॑ । 6) च॒त्वार्यङ्गा॒ न्यङ्गा॑नि च॒त्वारि॑ च॒त्वार्यङ्गा॑नि । 7) अङ्गा᳚ न्या॒त्म-न्ना॒त्म-न्नङ्गा॒ न्यङ्गा᳚ न्या॒त्मन्न् । 8) आ॒त्म-न्ने॒वैवात्म-न्ना॒त्म-न्ने॒व । 9) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 10) ए॒न॒-म्बि॒भ॒र्ति॒ बि॒भ॒-र्त्ये॒न॒ मे॒न॒-म्बि॒भ॒र्ति॒ । 11) बि॒भ॒र्ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्बिभर्ति बिभर्ति प्र॒जाप॑तिः । 12) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै । 12) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 13) वा ए॒ष ए॒ष वै वा ए॒षः । 14) ए॒ष य-द्यदे॒ष ए॒ष यत् । 15) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 16) अ॒ग्नि स्तस्य॒ तस्या॒ग्नि र॒ग्नि स्तस्य॑ । 17) तस्यो॒खोखा तस्य॒ तस्यो॒खा । 18) उ॒खा च॑ चो॒खोखा च॑ । 19) चो॒लूख॑ल मु॒लूख॑ल-ञ्च चो॒लूख॑लम् । 20) उ॒लूख॑ल-ञ्च चो॒लूख॑ल मु॒लूख॑ल-ञ्च । 21) च॒ स्तनौ॒ स्तनौ॑ च च॒ स्तनौ᳚ । 22) स्तनौ॒ तौ तौ स्तनौ॒ स्तनौ॒ तौ । 23) ता व॑स्यास्य॒ तौ ता व॑स्य । 24) अ॒स्य॒ प्र॒जाः प्र॒जा अ॑स्यास्य प्र॒जाः । 25) प्र॒जा उपोप॑ प्र॒जाः प्र॒जा उप॑ । 25) प्र॒जा इति॑ प्र - जाः । 26) उप॑ जीवन्ति जीव॒-न्त्युपोप॑ जीवन्ति । 27) जी॒व॒न्ति॒ य-द्यज् जी॑वन्ति जीवन्ति॒ यत् । 28) यदु॒खा मु॒खां-यँ-द्यदु॒खाम् । 29) उ॒खा-ञ्च॑ चो॒खा मु॒खा-ञ्च॑ । 30) चो॒लूख॑ल मु॒लूख॑ल-ञ्च चो॒लूख॑लम् । 31) उ॒लूख॑ल-ञ्च चो॒लूख॑ल मु॒लूख॑ल-ञ्च । 32) चो॒प॒दधा᳚ त्युप॒दधा॑ति च चोप॒दधा॑ति । 33) उ॒प॒दधा॑ति॒ ताभ्या॒-न्ताभ्या॑ मुप॒दधा᳚ त्युप॒दधा॑ति॒ ताभ्या᳚म् । 33) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 34) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व । 35) ए॒व यज॑मानो॒ यज॑मान ए॒वैव यज॑मानः । 36) यज॑मानो॒ ऽमुष्मि॑-न्न॒मुष्मि॒न्॒. यज॑मानो॒ यज॑मानो॒ ऽमुष्मिन्न्॑ । 37) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 38) लो॒के᳚ ऽग्नि म॒ग्निम् ँलो॒के लो॒के᳚ ऽग्निम् । 39) अ॒ग्नि-न्दु॑हे दुहे॒ ऽग्नि म॒ग्नि-न्दु॑हे । 40) दु॒हे॒ सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रो दु॑हे दुहे संवँथ्स॒रः । 41) सं॒वँ॒थ्स॒रो वै वै सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वै । 41) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 42) वा ए॒ष ए॒ष वै वा ए॒षः । 43) ए॒ष य-द्यदे॒ष ए॒ष यत् । 44) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 45) अ॒ग्नि स्तस्य॒ तस्या॒ग्नि र॒ग्नि स्तस्य॑ । 46) तस्य॑ त्रेधाविहि॒ता स्त्रे॑धाविहि॒ता स्तस्य॒ तस्य॑ त्रेधाविहि॒ताः । 47) त्रे॒धा॒वि॒हि॒ता इष्ट॑का॒ इष्ट॑का स्त्रेधाविहि॒ता स्त्रे॑धाविहि॒ता इष्ट॑काः । 47) त्रे॒धा॒वि॒हि॒ता इति॑ त्रेधा - वि॒हि॒ताः । 48) इष्ट॑काः प्राजाप॒त्याः प्रा॑जाप॒त्या इष्ट॑का॒ इष्ट॑काः प्राजाप॒त्याः । 49) प्रा॒जा॒प॒त्या वै᳚ष्ण॒वी-र्वै᳚ष्ण॒वीः प्रा॑जाप॒त्याः प्रा॑जाप॒त्या वै᳚ष्ण॒वीः । 49) प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः॒ । 50) वै॒ष्ण॒वी-र्वै᳚श्वकर्म॒णी-र्वै᳚श्वकर्म॒णी-र्वै᳚ष्ण॒वी-र्वै᳚ष्ण॒वी-र्वै᳚श्वकर्म॒णीः । ॥ 37 ॥ (50/56)
1) वै॒श्व॒क॒र्म॒णी र॑होरा॒त्राण्य॑ होरा॒त्राणि॑ वैश्वकर्म॒णी-र्वै᳚श्वकर्म॒णी र॑होरा॒त्राणि॑ । 1) वै॒श्व॒क॒र्म॒णीरिति॑ वैश्व - क॒र्म॒णीः । 2) अ॒हो॒रा॒त्रा ण्ये॒वैवा हो॑रा॒त्रा ण्य॑होरा॒त्राण्ये॒व । 2) अ॒हो॒रा॒त्राणीत्य॑हः - रा॒त्राणि॑ । 3) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 4) अ॒स्य॒ प्रा॒जा॒प॒त्याः प्रा॑जाप॒त्या अ॑स्यास्य प्राजाप॒त्याः । 5) प्रा॒जा॒प॒त्या य-द्य-त्प्रा॑जाप॒त्याः प्रा॑जाप॒त्या यत् । 5) प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः । 6) यदुख्य॒ मुख्यं॒-यँ-द्यदुख्य᳚म् । 7) उख्य॑-म्बि॒भर्ति॑ बि॒भ-र्त्युख्य॒ मुख्य॑-म्बि॒भर्ति॑ । 8) बि॒भर्ति॑ प्राजाप॒त्याः प्रा॑जाप॒त्या बि॒भर्ति॑ बि॒भर्ति॑ प्राजाप॒त्याः । 9) प्रा॒जा॒प॒त्या ए॒वैव प्रा॑जाप॒त्याः प्रा॑जाप॒त्या ए॒व । 9) प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः । 10) ए॒व त-त्तदे॒ वैव तत् । 11) तदु पोप॒ त-त्तदुप॑ । 12) उप॑ धत्ते धत्त॒ उपोप॑ धत्ते । 13) ध॒त्ते॒ य-द्य-द्ध॑त्ते धत्ते॒ यत् । 14) य-थ्स॒मिध॑-स्स॒मिधो॒ य-द्य-थ्स॒मिधः॑ । 15) स॒मिध॑ आ॒दधा᳚ त्या॒दधा॑ति स॒मिध॑-स्स॒मिध॑ आ॒दधा॑ति । 15) स॒मिध॒ इति॑ सं - इधः॑ । 16) आ॒दधा॑ति वैष्ण॒वा वै᳚ष्ण॒वा आ॒दधा᳚ त्या॒दधा॑ति वैष्ण॒वाः । 16) आ॒दधा॒तीत्या᳚ - दधा॑ति । 17) वै॒ष्ण॒वा वै वै वै᳚ष्ण॒वा वै᳚ष्ण॒वा वै । 18) वै वन॒स्पत॑यो॒ वन॒स्पत॑यो॒ वै वै वन॒स्पत॑यः । 19) वन॒स्पत॑यो वैष्ण॒वी-र्वै᳚ष्ण॒वी-र्वन॒स्पत॑यो॒ वन॒स्पत॑यो वैष्ण॒वीः । 20) वै॒ष्ण॒वी रे॒वैव वै᳚ष्ण॒वी-र्वै᳚ष्ण॒वी रे॒व । 21) ए॒व त-त्तदे॒ वैव तत् । 22) तदुपोप॒ त-त्तदुप॑ । 23) उप॑ धत्ते धत्त॒ उपोप॑ धत्ते । 24) ध॒त्ते॒ य-द्य-द्ध॑त्ते धत्ते॒ यत् । 25) यदिष्ट॑काभि॒ रिष्ट॑काभि॒-र्य-द्यदिष्ट॑काभिः । 26) इष्ट॑काभि र॒ग्नि म॒ग्नि मिष्ट॑काभि॒ रिष्ट॑काभि र॒ग्निम् । 27) अ॒ग्नि-ञ्चि॒नोति॑ चि॒नो त्य॒ग्नि म॒ग्नि-ञ्चि॒नोति॑ । 28) चि॒नोती॒य मि॒य-ञ्चि॒नोति॑ चि॒नोती॒यम् । 29) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ । 30) वै वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ वै वै वि॒श्वक॑र्मा । 31) वि॒श्वक॑र्मा वैश्वकर्म॒णी-र्वै᳚श्वकर्म॒णी-र्वि॒श्वक॑र्मा वि॒श्वक॑र्मा वैश्वकर्म॒णीः । 31) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । 32) वै॒श्व॒क॒र्म॒णी रे॒वैव वै᳚श्वकर्म॒णी-र्वै᳚श्वकर्म॒णी रे॒व । 32) वै॒श्व॒क॒र्म॒णीरिति॑ वैश्व - क॒र्म॒णीः । 33) ए॒व त-त्तदे॒ वैव तत् । 34) तदुपोप॒ त-त्तदुप॑ । 35) उप॑ धत्ते धत्त॒ उपोप॑ धत्ते । 36) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 37) तस्मा॑ दाहु राहु॒ स्तस्मा॒-त्तस्मा॑ दाहुः । 38) आ॒हु॒ स्त्रि॒वृ-त्त्रि॒वृ दा॑हु राहु स्त्रि॒वृत् । 39) त्रि॒वृ द॒ग्नि र॒ग्नि स्त्रि॒वृ-त्त्रि॒वृ द॒ग्निः । 39) त्रि॒वृदिति॑ त्रि - वृत् । 40) अ॒ग्नि रिती त्य॒ग्नि र॒ग्नि रिति॑ । 41) इति॒ त-न्त मितीति॒ तम् । 42) तं-वैँ वै त-न्तं-वैँ । 43) वा ए॒त मे॒तं-वैँ वा ए॒तम् । 44) ए॒तं-यँज॑मानो॒ यज॑मान ए॒त मे॒तं-यँज॑मानः । 45) यज॑मान ए॒वैव यज॑मानो॒ यज॑मान ए॒व । 46) ए॒व चि॑न्वीत चिन्वीतै॒ वैव चि॑न्वीत । 47) चि॒न्वी॒त॒ य-द्यच् चि॑न्वीत चिन्वीत॒ यत् । 48) यद॑स्यास्य॒ य-द्यद॑स्य । 49) अ॒स्या॒न्यो᳚(1॒) ऽन्यो᳚ ऽस्यास्या॒न्यः । 50) अ॒न्य श्चि॑नु॒याच् चि॑नु॒या द॒न्यो᳚ ऽन्य श्चि॑नु॒यात् । 51) चि॒नु॒या-द्य-द्यच् चि॑नु॒याच् चि॑नु॒या-द्यत् । 52) य-त्त-न्तं-यँ-द्य-त्तम् । 53) त-न्दक्षि॑णाभि॒-र्दक्षि॑णाभि॒ स्त-न्त-न्दक्षि॑णाभिः । 54) दक्षि॑णाभि॒-र्न न दक्षि॑णाभि॒-र्दक्षि॑णाभि॒-र्न । 55) न रा॒धये᳚-द्रा॒धये॒-न्न न रा॒धये᳚त् । 56) रा॒धये॑ द॒ग्नि म॒ग्निग्ं रा॒धये᳚-द्रा॒धये॑ द॒ग्निम् । 57) अ॒ग्नि म॑स्या स्या॒ग्नि म॒ग्नि म॑स्य । 58) अ॒स्य॒ वृ॒ञ्जी॒त॒ वृ॒ञ्जी॒ता॒ स्या॒स्य॒ वृ॒ञ्जी॒त॒ । 59) वृ॒ञ्जी॒त॒ यो यो वृ॑ञ्जीत वृञ्जीत॒ यः । 60) यो᳚ ऽस्यास्य॒ यो यो᳚ ऽस्य । 61) अ॒स्या॒ग्नि म॒ग्नि म॑स्या स्या॒ग्निम् । 62) अ॒ग्नि-ञ्चि॑नु॒याच् चि॑नु॒या द॒ग्नि म॒ग्नि-ञ्चि॑नु॒यात् । 63) चि॒नु॒या-त्त-न्त-ञ्चि॑नु॒याच् चि॑नु॒या-त्तम् । 64) त-न्दक्षि॑णाभि॒-र्दक्षि॑णाभि॒ स्त-न्त-न्दक्षि॑णाभिः । 65) दक्षि॑णाभी राधये-द्राधये॒-द्दक्षि॑णाभि॒-र्दक्षि॑णाभी राधयेत् । 66) रा॒ध॒ये॒ द॒ग्नि म॒ग्निग्ं रा॑धये-द्राधये द॒ग्निम् । 67) अ॒ग्नि मे॒वै वाग्नि म॒ग्नि मे॒व । 68) ए॒व त-त्तदे॒ वैव तत् । 69) त-थ्स्पृ॑णोति स्पृणोति॒ त-त्त-थ्स्पृ॑णोति । 70) स्पृ॒णो॒तीति॑ स्पृणोति । ॥ 38 ॥ (70/79) ॥ अ. 9 ॥
1) प्र॒जाप॑ति र॒ग्नि म॒ग्नि-म्प्र॒जाप॑तिः प्र॒जाप॑ति र॒ग्निम् । 1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 2) अ॒ग्नि म॑चिनुता चिनुता॒ग्नि म॒ग्नि म॑चिनुत । 3) अ॒चि॒नु॒त॒ र्तुभिर्॑. ऋ॒तुभि॑ रचिनुता चिनुत॒ र्तुभिः॑ । 4) ऋ॒तुभि॑-स्संवँथ्स॒रग्ं सं॑वँथ्स॒र मृ॒तुभिर्॑. ऋ॒तुभि॑-स्संवँथ्स॒रम् । 4) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 5) सं॒वँ॒थ्स॒रं-वँ॑स॒न्तेन॑ वस॒न्तेन॑ संवँथ्स॒रग्ं सं॑वँथ्स॒रं-वँ॑स॒न्तेन॑ । 5) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 6) व॒स॒न्ते नै॒वैव व॑स॒न्तेन॑ वस॒न्तेनै॒व । 7) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 8) अ॒स्य॒ पू॒र्वा॒र्ध-म्पू᳚र्वा॒र्ध म॑स्यास्य पूर्वा॒र्धम् । 9) पू॒र्वा॒र्ध म॑चिनुता चिनुत पूर्वा॒र्ध-म्पू᳚र्वा॒र्ध म॑चिनुत । 9) पू॒र्वा॒र्धमिति॑ पूर्व - अ॒र्धम् । 10) अ॒चि॒नु॒त॒ ग्री॒ष्मेण॑ ग्री॒ष्मेणा॑ चिनुता चिनुत ग्री॒ष्मेण॑ । 11) ग्री॒ष्मेण॒ दक्षि॑ण॒-न्दक्षि॑ण-ङ्ग्री॒ष्मेण॑ ग्री॒ष्मेण॒ दक्षि॑णम् । 12) दक्षि॑ण-म्प॒क्ष-म्प॒क्ष-न्दक्षि॑ण॒-न्दक्षि॑ण-म्प॒क्षम् । 13) प॒क्षं-वँ॒र्॒षाभि॑-र्व॒र्॒षाभिः॑ प॒क्ष-म्प॒क्षं-वँ॒र्॒षाभिः॑ । 14) व॒र्॒षाभिः॒ पुच्छ॒-म्पुच्छं॑-वँ॒र्॒षाभि॑-र्व॒र्॒षाभिः॒ पुच्छ᳚म् । 15) पुच्छग्ं॑ श॒रदा॑ श॒रदा॒ पुच्छ॒-म्पुच्छग्ं॑ श॒रदा᳚ । 16) श॒रदोत्त॑र॒ मुत्त॑रग्ं श॒रदा॑ श॒रदोत्त॑रम् । 17) उत्त॑र-म्प॒क्ष-म्प॒क्ष मुत्त॑र॒ मुत्त॑र-म्प॒क्षम् । 17) उत्त॑र॒मित्युत् - त॒र॒म् । 18) प॒क्षग्ं हे॑म॒न्तेन॑ हेम॒न्तेन॑ प॒क्ष-म्प॒क्षग्ं हे॑म॒न्तेन॑ । 19) हे॒म॒न्तेन॒ मद्ध्य॒-म्मद्ध्यग्ं॑ हेम॒न्तेन॑ हेम॒न्तेन॒ मद्ध्य᳚म् । 20) मद्ध्य॒-म्ब्रह्म॑णा॒ ब्रह्म॑णा॒ मद्ध्य॒-म्मद्ध्य॒-म्ब्रह्म॑णा । 21) ब्रह्म॑णा॒ वै वै ब्रह्म॑णा॒ ब्रह्म॑णा॒ वै । 22) वा अ॑स्यास्य॒ वै वा अ॑स्य । 23) अ॒स्य॒ त-त्तद॑स्यास्य॒ तत् । 24) त-त्पू᳚र्वा॒र्ध-म्पू᳚र्वा॒र्ध-न्त-त्त-त्पू᳚र्वा॒र्धम् । 25) पू॒र्वा॒र्ध म॑चिनुता चिनुत पूर्वा॒र्ध-म्पू᳚र्वा॒र्ध म॑चिनुत । 25) पू॒र्वा॒र्धमिति॑ पूर्व - अ॒र्धम् । 26) अ॒चि॒नु॒त॒ क्ष॒त्रेण॑ क्ष॒त्रेणा॑ चिनुता चिनुत क्ष॒त्रेण॑ । 27) क्ष॒त्रेण॒ दक्षि॑ण॒-न्दक्षि॑ण-ङ्क्ष॒त्रेण॑ क्ष॒त्रेण॒ दक्षि॑णम् । 28) दक्षि॑ण-म्प॒क्ष-म्प॒क्ष-न्दक्षि॑ण॒-न्दक्षि॑ण-म्प॒क्षम् । 29) प॒क्ष-म्प॒शुभिः॑ प॒शुभिः॑ प॒क्ष-म्प॒क्ष-म्प॒शुभिः॑ । 30) प॒शुभिः॒ पुच्छ॒-म्पुच्छ॑-म्प॒शुभिः॑ प॒शुभिः॒ पुच्छ᳚म् । 30) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 31) पुच्छं॑-विँ॒शा वि॒शा पुच्छ॒-म्पुच्छं॑-विँ॒शा । 32) वि॒शोत्त॑र॒ मुत्त॑रं-विँ॒शा वि॒शोत्त॑रम् । 33) उत्त॑र-म्प॒क्ष-म्प॒क्ष मुत्त॑र॒ मुत्त॑र-म्प॒क्षम् । 33) उत्त॑र॒मित्युत् - त॒र॒म् । 34) प॒क्ष मा॒शया॒ ऽऽशया॑ प॒क्ष-म्प॒क्ष मा॒शया᳚ । 35) आ॒शया॒ मद्ध्य॒-म्मद्ध्य॑ मा॒शया॒ ऽऽशया॒ मद्ध्य᳚म् । 36) मद्ध्यं॒-योँ यो मद्ध्य॒-म्मद्ध्यं॒-यः ँ। 37) य ए॒व मे॒वं-योँ य ए॒वम् । 38) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 39) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् । 40) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 41) चि॒नु॒त ऋ॒तुभिर्॑. ऋ॒तुभि॑ श्चिनु॒ते चि॑नु॒त ऋ॒तुभिः॑ । 42) ऋ॒तुभि॑ रे॒वैव र्तुभिर्॑. ऋ॒तुभि॑ रे॒व । 42) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 43) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 44) ए॒न॒-ञ्चि॒नु॒ते॒ चि॒नु॒त॒ ए॒न॒ मे॒न॒-ञ्चि॒नु॒ते॒ । 45) चि॒नु॒ते ऽथो॒ अथो॑ चिनुते चिनु॒ते ऽथो᳚ । 46) अथो॑ ए॒त दे॒त दथो॒ अथो॑ ए॒तत् । 46) अथो॒ इत्यथो᳚ । 47) ए॒तदे॒ वैवै तदे॒ तदे॒व । 48) ए॒व सर्व॒ग्ं॒ सर्व॑ मे॒वैव सर्व᳚म् । 49) सर्व॒ मवाव॒ सर्व॒ग्ं॒ सर्व॒ मव॑ । 50) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । ॥ 39 ॥ (50/60)
1) रु॒न्धे॒ शृ॒ण्वन्ति॑ शृ॒ण्वन्ति॑ रुन्धे रुन्धे शृ॒ण्वन्ति॑ । 2) शृ॒ण्व-न्त्ये॑न मेनग्ं शृ॒ण्वन्ति॑ शृ॒ण्व-न्त्ये॑नम् । 3) ए॒न॒ म॒ग्नि म॒ग्नि मे॑न मेन म॒ग्निम् । 4) अ॒ग्नि-ञ्चि॑क्या॒न-ञ्चि॑क्या॒न म॒ग्नि म॒ग्नि-ञ्चि॑क्या॒नम् । 5) चि॒क्या॒न मत्त्यत्ति॑ चिक्या॒न-ञ्चि॑क्या॒न मत्ति॑ । 6) अत्त्यन्न॒ मन्न॒ मत्त्य त्त्यन्न᳚म् । 7) अन्न॒ग्ं॒ रोच॑ते॒ रोच॒ते ऽन्न॒ मन्न॒ग्ं॒ रोच॑ते । 8) रोच॑त इ॒य मि॒यग्ं रोच॑ते॒ रोच॑त इ॒यम् । 9) इ॒यं-वाँव वावेय मि॒यं-वाँव । 10) वाव प्र॑थ॒मा प्र॑थ॒मा वाव वाव प्र॑थ॒मा । 11) प्र॒थ॒मा चिति॒ श्चितिः॑ प्रथ॒मा प्र॑थ॒मा चितिः॑ । 12) चिति॒ रोष॑धय॒ ओष॑धय॒ श्चिति॒ श्चिति॒ रोष॑धयः । 13) ओष॑धयो॒ वन॒स्पत॑यो॒ वन॒स्पत॑य॒ ओष॑धय॒ ओष॑धयो॒ वन॒स्पत॑यः । 14) वन॒स्पत॑यः॒ पुरी॑ष॒-म्पुरी॑षं॒-वँन॒स्पत॑यो॒ वन॒स्पत॑यः॒ पुरी॑षम् । 15) पुरी॑ष म॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-म्पुरी॑ष॒-म्पुरी॑ष म॒न्तरि॑क्षम् । 16) अ॒न्तरि॑क्ष-न्द्वि॒तीया᳚ द्वि॒तीया॒ ऽन्तरि॑क्ष म॒न्तरि॑क्ष-न्द्वि॒तीया᳚ । 17) द्वि॒तीया॒ वयाग्ं॑सि॒ वयाग्ं॑सि द्वि॒तीया᳚ द्वि॒तीया॒ वयाग्ं॑सि । 18) वयाग्ं॑सि॒ पुरी॑ष॒-म्पुरी॑षं॒-वँयाग्ं॑सि॒ वयाग्ं॑सि॒ पुरी॑षम् । 19) पुरी॑ष म॒सा व॒सौ पुरी॑ष॒-म्पुरी॑ष म॒सौ । 20) अ॒सौ तृ॒तीया॑ तृ॒तीया॒ ऽसा व॒सौ तृ॒तीया᳚ । 21) तृ॒तीया॒ नक्ष॑त्राणि॒ नक्ष॑त्राणि तृ॒तीया॑ तृ॒तीया॒ नक्ष॑त्राणि । 22) नक्ष॑त्राणि॒ पुरी॑ष॒-म्पुरी॑ष॒-न्नक्ष॑त्राणि॒ नक्ष॑त्राणि॒ पुरी॑षम् । 23) पुरी॑षं-यँ॒ज्ञो य॒ज्ञः पुरी॑ष॒-म्पुरी॑षं-यँ॒ज्ञः । 24) य॒ज्ञ श्च॑तु॒र्थी च॑तु॒र्थी य॒ज्ञो य॒ज्ञ श्च॑तु॒र्थी । 25) च॒तु॒र्थी दक्षि॑णा॒ दक्षि॑णा चतु॒र्थी च॑तु॒र्थी दक्षि॑णा । 26) दक्षि॑णा॒ पुरी॑ष॒-म्पुरी॑ष॒-न्दक्षि॑णा॒ दक्षि॑णा॒ पुरी॑षम् । 27) पुरी॑षं॒-यँज॑मानो॒ यज॑मानः॒ पुरी॑ष॒-म्पुरी॑षं॒-यँज॑मानः । 28) यज॑मानः पञ्च॒मी प॑ञ्च॒मी यज॑मानो॒ यज॑मानः पञ्च॒मी । 29) प॒ञ्च॒मी प्र॒जा प्र॒जा प॑ञ्च॒मी प॑ञ्च॒मी प्र॒जा । 30) प्र॒जा पुरी॑ष॒-म्पुरी॑ष-म्प्र॒जा प्र॒जा पुरी॑षम् । 30) प्र॒जेति॑ प्र - जा । 31) पुरी॑षं॒-यँ-द्य-त्पुरी॑ष॒-म्पुरी॑षं॒-यँत् । 32) य-त्त्रिचि॑तीक॒-न्त्रिचि॑तीकं॒-यँ-द्य-त्त्रिचि॑तीकम् । 33) त्रिचि॑तीक-ञ्चिन्वी॒त चि॑न्वी॒त त्रिचि॑तीक॒-न्त्रिचि॑तीक॒-ञ्चिन्वी॒त । 33) त्रिचि॑तीक॒मिति॒ त्रि - चि॒ती॒क॒म् । 34) चि॒न्वी॒त य॒ज्ञं-यँ॒ज्ञ-ञ्चि॑न्वी॒त चि॑न्वी॒त य॒ज्ञम् । 35) य॒ज्ञ-न्दक्षि॑णा॒-न्दक्षि॑णां-यँ॒ज्ञं-यँ॒ज्ञ-न्दक्षि॑णाम् । 36) दक्षि॑णा मा॒त्मान॑ मा॒त्मान॒-न्दक्षि॑णा॒-न्दक्षि॑णा मा॒त्मान᳚म् । 37) आ॒त्मान॑-म्प्र॒जा-म्प्र॒जा मा॒त्मान॑ मा॒त्मान॑-म्प्र॒जाम् । 38) प्र॒जा म॒न्त र॒न्तः प्र॒जा-म्प्र॒जा म॒न्तः । 38) प्र॒जामिति॑ प्र - जाम् । 39) अ॒न्त रि॑या दिया द॒न्त र॒न्त रि॑यात् । 40) इ॒या॒-त्तस्मा॒-त्तस्मा॑ दिया दिया॒-त्तस्मा᳚त् । 41) तस्मा॒-त्पञ्च॑चितीकः॒ पञ्च॑चितीक॒ स्तस्मा॒-त्तस्मा॒-त्पञ्च॑चितीकः । 42) पञ्च॑चितीक श्चेत॒व्य॑ श्चेत॒व्यः॑ पञ्च॑चितीकः॒ पञ्च॑चितीक श्चेत॒व्यः॑ । 42) पञ्च॑चितीक॒ इति॒ पञ्च॑ - चि॒ती॒कः॒ । 43) चे॒त॒व्य॑ ए॒त दे॒तच् चे॑त॒व्य॑ श्चेत॒व्य॑ ए॒तत् । 44) ए॒त दे॒वै वैत दे॒त दे॒व । 45) ए॒व सर्व॒ग्ं॒ सर्व॑ मे॒वैव सर्व᳚म् । 46) सर्वग्ग्॑ स्पृणोति स्पृणोति॒ सर्व॒ग्ं॒ सर्वग्ग्॑ स्पृणोति । 47) स्पृ॒णो॒ति॒ य-द्य-थ्स्पृ॑णोति स्पृणोति॒ यत् । 48) य-त्ति॒स्र स्ति॒स्रो य-द्य-त्ति॒स्रः । 49) ति॒स्र श्चित॑य॒ श्चित॑य स्ति॒स्र स्ति॒स्र श्चित॑यः । 50) चित॑य स्त्रि॒वृ-त्त्रि॒वृच् चित॑य॒ श्चित॑य स्त्रि॒वृत् । ॥ 40 ॥ (50/54)
1) त्रि॒वृद्धि हि त्रि॒वृ-त्त्रि॒वृद्धि । 1) त्रि॒वृदिति॑ त्रि - वृत् । 2) ह्य॑ग्नि र॒ग्निर्-हि ह्य॑ग्निः । 3) अ॒ग्नि-र्य-द्यद॒ग्नि र॒ग्नि-र्यत् । 4) य-द्द्वे द्वे य-द्य-द्द्वे । 5) द्वे द्वि॒पा-द्द्वि॒पा-द्द्वे द्वे द्वि॒पात् । 5) द्वे इति॒ द्वे । 6) द्वि॒पा-द्यज॑मानो॒ यज॑मानो द्वि॒पा-द्द्वि॒पा-द्यज॑मानः । 6) द्वि॒पादिति॑ द्वि - पात् । 7) यज॑मानः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ यज॑मानो॒ यज॑मानः॒ प्रति॑ष्ठित्यै । 8) प्रति॑ष्ठित्यै॒ पञ्च॒ पञ्च॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ पञ्च॑ । 8) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 9) पञ्च॒ चित॑य॒ श्चित॑यः॒ पञ्च॒ पञ्च॒ चित॑यः । 10) चित॑यो भवन्ति भवन्ति॒ चित॑य॒ श्चित॑यो भवन्ति । 11) भ॒व॒न्ति॒ पाङ्क्तः॒ पाङ्क्तो॑ भवन्ति भवन्ति॒ पाङ्क्तः॑ । 12) पाङ्क्तः॒ पुरु॑षः॒ पुरु॑षः॒ पाङ्क्तः॒ पाङ्क्तः॒ पुरु॑षः । 13) पुरु॑ष आ॒त्मान॑ मा॒त्मान॒-म्पुरु॑षः॒ पुरु॑ष आ॒त्मान᳚म् । 14) आ॒त्मान॑ मे॒वै वात्मान॑ मा॒त्मान॑ मे॒व । 15) ए॒व स्पृ॑णोति स्पृणो त्ये॒वैव स्पृ॑णोति । 16) स्पृ॒णो॒ति॒ पञ्च॒ पञ्च॑ स्पृणोति स्पृणोति॒ पञ्च॑ । 17) पञ्च॒ चित॑य॒ श्चित॑यः॒ पञ्च॒ पञ्च॒ चित॑यः । 18) चित॑यो भवन्ति भवन्ति॒ चित॑य॒ श्चित॑यो भवन्ति । 19) भ॒व॒न्ति॒ प॒ञ्चभिः॑ प॒ञ्चभि॑-र्भवन्ति भवन्ति प॒ञ्चभिः॑ । 20) प॒ञ्चभिः॒ पुरी॑षैः॒ पुरी॑षैः प॒ञ्चभिः॑ प॒ञ्चभिः॒ पुरी॑षैः । 20) प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । 21) पुरी॑षै र॒भ्य॑भि पुरी॑षैः॒ पुरी॑षै र॒भि । 22) अ॒भ्यू॑ह त्यूह त्य॒भ्या᳚(1॒) भ्यू॑हति । 23) ऊ॒ह॒ति॒ दश॒ दशो॑ह त्यूहति॒ दश॑ । 24) दश॒ सग्ं स-न्दश॒ दश॒ सम् । 25) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । 26) प॒द्य॒न्ते॒ दशा᳚क्षरो॒ दशा᳚क्षरः पद्यन्ते पद्यन्ते॒ दशा᳚क्षरः । 27) दशा᳚क्षरो॒ वै वै दशा᳚क्षरो॒ दशा᳚क्षरो॒ वै । 27) दशा᳚क्षर॒ इति॒ दश॑ - अ॒क्ष॒रः॒ । 28) वै पुरु॑षः॒ पुरु॑षो॒ वै वै पुरु॑षः । 29) पुरु॑षो॒ यावा॒न्॒. यावा॒-न्पुरु॑षः॒ पुरु॑षो॒ यावान्॑ । 30) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व । 31) ए॒व पुरु॑षः॒ पुरु॑ष ए॒वैव पुरु॑षः । 32) पुरु॑ष॒ स्त-न्त-म्पुरु॑षः॒ पुरु॑ष॒ स्तम् । 33) तग्ग् स्पृ॑णोति स्पृणोति॒ त-न्तग्ग् स्पृ॑णोति । 34) स्पृ॒णो॒ त्यथो॒ अथो᳚ स्पृणोति स्पृणो॒ त्यथो᳚ । 35) अथो॒ दशा᳚क्षरा॒ दशा᳚क्ष॒रा ऽथो॒ अथो॒ दशा᳚क्षरा । 35) अथो॒ इत्यथो᳚ । 36) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् । 36) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । 37) वि॒राडन्न॒ मन्नं॑-विँ॒रा-ड्वि॒राडन्न᳚म् । 37) वि॒राडिति॑ वि - राट् । 38) अन्नं॑-विँ॒रा-ड्वि॒राडन्न॒ मन्नं॑-विँ॒राट् । 39) वि॒रा-ड्वि॒राजि॑ वि॒राजि॑ वि॒रा-ड्वि॒रा-ड्वि॒राजि॑ । 39) वि॒राडिति॑ वि - राट् । 40) वि॒रा ज्ये॒वैव वि॒राजि॑ वि॒रा ज्ये॒व । 40) वि॒राजीति॑ वि - राजि॑ । 41) ए॒वान्नाद्ये॒ ऽन्नाद्य॑ ए॒वै वान्नाद्ये᳚ । 42) अ॒न्नाद्ये॒ प्रति॒ प्रत्य॒न्नाद्ये॒ ऽन्नाद्ये॒ प्रति॑ । 42) अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ । 43) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 44) ति॒ष्ठ॒ति॒ सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒र स्ति॑ष्ठति तिष्ठति संवँथ्स॒रः । 45) सं॒वँ॒थ्स॒रो वै वै सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वै । 45) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 46) वै ष॒ष्ठी ष॒ष्ठी वै वै ष॒ष्ठी । 47) ष॒ष्ठी चिति॒ श्चिति॑ ष्ष॒ष्ठी ष॒ष्ठी चितिः॑ । 48) चितिर्॑. ऋ॒तव॑ ऋ॒तव॒ श्चिति॒ श्चितिर्॑. ऋ॒तवः॑ । 49) ऋ॒तवः॒ पुरी॑ष॒-म्पुरी॑ष मृ॒तव॑ ऋ॒तवः॒ पुरी॑षम् । 50) पुरी॑ष॒ग्ं॒ ष-ट्थ्षट् पुरी॑ष॒-म्पुरी॑ष॒ग्ं॒ षट् । 51) षट् चित॑य॒ श्चित॑य॒ ष्ष-ट्थ्षट् चित॑यः । 52) चित॑यो भवन्ति भवन्ति॒ चित॑य॒ श्चित॑यो भवन्ति । 53) भ॒व॒न्ति॒ ष-ट्थ्ष-ड्भ॑वन्ति भवन्ति॒ षट् । 54) षट् पुरी॑षाणि॒ पुरी॑षाणि॒ ष-ट्थ्षट् पुरी॑षाणि । 55) पुरी॑षाणि॒ द्वाद॑श॒ द्वाद॑श॒ पुरी॑षाणि॒ पुरी॑षाणि॒ द्वाद॑श । 56) द्वाद॑श॒ सग्ं स-न्द्वाद॑श॒ द्वाद॑श॒ सम् । 57) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । 58) प॒द्य॒न्ते॒ द्वाद॑श॒ द्वाद॑श पद्यन्ते पद्यन्ते॒ द्वाद॑श । 59) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 60) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः । 61) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रे सं॑वँथ्स॒रे सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रे । 61) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 62) सं॒वँ॒थ्स॒र ए॒वैव सं॑वँथ्स॒रे सं॑वँथ्स॒र ए॒व । 62) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 63) ए॒व प्रति॒ प्रत्ये॒ वैव प्रति॑ । 64) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 65) ति॒ष्ठ॒तीति॑ तिष्ठति । ॥ 41 ॥ (65/80) ॥ अ. 10 ॥
1) रोहि॑तो धू॒म्ररो॑हितो धू॒म्ररो॑हितो॒ रोहि॑तो॒ रोहि॑तो धू॒म्ररो॑हितः । 2) धू॒म्ररो॑हितः क॒र्कन्धु॑रोहितः क॒र्कन्धु॑रोहितो धू॒म्ररो॑हितो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहितः । 2) धू॒म्ररो॑हित॒ इति॑ धू॒म्र - रो॒हि॒तः॒ । 3) क॒र्कन्धु॑रोहित॒ स्ते ते क॒र्कन्धु॑रोहितः क॒र्कन्धु॑रोहित॒ स्ते । 3) क॒र्कन्धु॑रोहित॒ इति॑ क॒र्कन्धु॑ - रो॒हि॒तः॒ । 4) ते प्रा॑जाप॒त्याः प्रा॑जाप॒त्या स्ते ते प्रा॑जाप॒त्याः । 5) प्रा॒जा॒प॒त्या ब॒भ्रु-र्ब॒भ्रुः प्रा॑जाप॒त्याः प्रा॑जाप॒त्या ब॒भ्रुः । 5) प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः । 6) ब॒भ्रु र॑रु॒णब॑भ्रु ररु॒णब॑भ्रु-र्ब॒भ्रु-र्ब॒भ्रु र॑रु॒णब॑भ्रुः । 7) अ॒रु॒णब॑भ्रु॒-श्शुक॑बभ्रु॒-श्शुक॑बभ्रु ररु॒णब॑भ्रु ररु॒णब॑भ्रु॒-श्शुक॑बभ्रुः । 7) अ॒रु॒णब॑भ्रु॒रित्य॑रु॒ण - ब॒भ्रुः॒ । 8) शुक॑बभ्रु॒ स्ते ते शुक॑बभ्रु॒-श्शुक॑बभ्रु॒ स्ते । 8) शुक॑बभ्रु॒रिति॒ शुक॑ - ब॒भ्रुः॒ । 9) ते रौ॒द्रा रौ॒द्रा स्ते ते रौ॒द्राः । 10) रौ॒द्रा-श्श्येत॒-श्श्येतो॑ रौ॒द्रा रौ॒द्रा-श्श्येतः॑ । 11) श्येत॑-श्श्येता॒क्ष-श्श्ये॑ता॒क्ष-श्श्येत॒-श्श्येत॑-श्श्येता॒क्षः । 12) श्ये॒ता॒क्ष-श्श्येत॑ग्रीव॒-श्श्येत॑ग्रीव-श्श्येता॒क्ष-श्श्ये॑ता॒क्ष-श्श्येत॑ग्रीवः । 12) श्ये॒ता॒क्ष इति॑ श्येत - अ॒क्षः । 13) श्येत॑ग्रीव॒ स्ते ते श्येत॑ग्रीव॒-श्श्येत॑ग्रीव॒ स्ते । 13) श्येत॑ग्रीव॒ इति॒ श्येत॑ - ग्री॒वः॒ । 14) ते पि॑तृदेव॒त्याः᳚ पितृदेव॒त्या᳚ स्ते ते पि॑तृदेव॒त्याः᳚ । 15) पि॒तृ॒दे॒व॒त्या᳚ स्ति॒स्र स्ति॒स्रः पि॑तृदेव॒त्याः᳚ पितृदेव॒त्या᳚ स्ति॒स्रः । 15) पि॒तृ॒दे॒व॒त्या॑ इति॑ पितृ - दे॒व॒त्याः᳚ । 16) ति॒स्रः कृ॒ष्णाः कृ॒ष्णा स्ति॒स्र स्ति॒स्रः कृ॒ष्णाः । 17) कृ॒ष्णा व॒शा व॒शाः कृ॒ष्णाः कृ॒ष्णा व॒शाः । 18) व॒शा वा॑रु॒ण्यो॑ वारु॒ण्यो॑ व॒शा व॒शा वा॑रु॒ण्यः॑ । 19) वा॒रु॒ण्य॑ स्ति॒स्र स्ति॒स्रो वा॑रु॒ण्यो॑ वारु॒ण्य॑ स्ति॒स्रः । 20) ति॒स्र-श्श्वे॒ता-श्श्वे॒ता स्ति॒स्र स्ति॒स्र-श्श्वे॒ताः । 21) श्वे॒ता व॒शा व॒शा-श्श्वे॒ता-श्श्वे॒ता व॒शाः । 22) व॒शा-स्सौ॒र्य॑-स्सौ॒र्यो॑ व॒शा व॒शा-स्सौ॒र्यः॑ । 23) सौ॒र्यो॑ मैत्राबार्हस्प॒त्या मै᳚त्राबार्हस्प॒त्या-स्सौ॒र्य॑-स्सौ॒र्यो॑ मैत्राबार्हस्प॒त्याः । 24) मै॒त्रा॒बा॒र्॒ह॒स्प॒त्या धू॒म्रल॑लामा धू॒म्रल॑लामा मैत्राबार्हस्प॒त्या मै᳚त्राबार्हस्प॒त्या धू॒म्रल॑लामाः । 24) मै॒त्रा॒बा॒र्॒ह॒स्प॒त्या इति॑ मैत्रा - बा॒र्॒ह॒स्प॒त्याः । 25) धू॒म्रल॑लामा स्तूप॒रा स्तू॑प॒रा धू॒म्रल॑लामा धू॒म्रल॑लामा स्तूप॒राः । 25) धू॒म्रल॑लामा॒ इति॑ धू॒म्र - ल॒ला॒माः॒ । 26) तू॒प॒रा इति॑ तूप॒राः । ॥ 42 ॥ (26/36) ॥ अ. 11 ॥
1) पृश्ञि॑ स्तिर॒श्चीन॑पृश्ञि स्तिर॒श्चीन॑पृश्ञिः॒ पृश्ञिः॒ पृश्ञि॑ स्तिर॒श्चीन॑पृश्ञिः । 2) ति॒र॒श्चीन॑पृश्ञि रू॒र्ध्वपृ॑श्ञि रू॒र्ध्वपृ॑श्ञि स्तिर॒श्चीन॑पृश्ञि स्तिर॒श्चीन॑पृश्ञि रू॒र्ध्वपृ॑श्ञिः । 2) ति॒र॒श्चीन॑पृश्ञि॒रिति॑ तिर॒श्चीन॑ - पृ॒श्ञिः॒ । 3) ऊ॒र्ध्वपृ॑श्ञि॒ स्ते त ऊ॒र्ध्वपृ॑श्ञि रू॒र्ध्वपृ॑श्ञि॒ स्ते । 3) ऊ॒र्ध्वपृ॑श्ञि॒रित्यू॒र्ध्व - पृ॒श्ञिः॒ । 4) ते मा॑रु॒ता मा॑रु॒ता स्ते ते मा॑रु॒ताः । 5) मा॒रु॒ताः फ॒ल्गूः फ॒ल्गू-र्मा॑रु॒ता मा॑रु॒ताः फ॒ल्गूः । 6) फ॒ल्गू-र्लो॑हितो॒र्णी लो॑हितो॒र्णी फ॒ल्गूः फ॒ल्गू-र्लो॑हितो॒र्णी । 7) लो॒हि॒तो॒र्णी ब॑ल॒क्षी ब॑ल॒क्षी लो॑हितो॒र्णी लो॑हितो॒र्णी ब॑ल॒क्षी । 7) लो॒हि॒तो॒र्णीति॑ लोहित - ऊ॒र्णी । 8) ब॒ल॒क्षी ता स्ता ब॑ल॒क्षी ब॑ल॒क्षी ताः । 9) ता-स्सा॑रस्व॒त्य॑-स्सारस्व॒त्य॑ स्ता स्ता-स्सा॑रस्व॒त्यः॑ । 10) सा॒र॒स्व॒त्यः॑ पृष॑ती॒ पृष॑ती सारस्व॒त्य॑-स्सारस्व॒त्यः॑ पृष॑ती । 11) पृष॑ती स्थू॒लपृ॑षती स्थू॒लपृ॑षती॒ पृष॑ती॒ पृष॑ती स्थू॒लपृ॑षती । 12) स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती क्षु॒द्रपृ॑षती स्थू॒लपृ॑षती स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती । 12) स्थू॒लपृ॑ष॒तीति॑ स्थू॒ल - पृ॒ष॒ती॒ । 13) क्षु॒द्रपृ॑षती॒ ता स्ताः, क्षु॒द्रपृ॑षती क्षु॒द्रपृ॑षती॒ ताः । 13) क्षु॒द्रपृ॑ष॒तीति॑ क्षु॒द्र - पृ॒ष॒ती॒ । 14) ता वै᳚श्वदे॒व्यो॑ वैश्वदे॒व्य॑ स्ता स्ता वै᳚श्वदे॒व्यः॑ । 15) वै॒श्व॒दे॒व्य॑ स्ति॒स्र स्ति॒स्रो वै᳚श्वदे॒व्यो॑ वैश्वदे॒व्य॑ स्ति॒स्रः । 15) वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । 16) ति॒स्र-श्श्या॒मा-श्श्या॒मा स्ति॒स्र स्ति॒स्र-श्श्या॒माः । 17) श्या॒मा व॒शा व॒शा-श्श्या॒मा-श्श्या॒मा व॒शाः । 18) व॒शाः पौ॒ष्णियः॑ पौ॒ष्णियो॑ व॒शा व॒शाः पौ॒ष्णियः॑ । 19) पौ॒ष्णिय॑ स्ति॒स्र स्ति॒स्रः पौ॒ष्णियः॑ पौ॒ष्णिय॑ स्ति॒स्रः । 20) ति॒स्रो रोहि॑णी॒ रोहि॑णी स्ति॒स्र स्ति॒स्रो रोहि॑णीः । 21) रोहि॑णी-र्व॒शा व॒शा रोहि॑णी॒ रोहि॑णी-र्व॒शाः । 22) व॒शा मै॒त्रियो॑ मै॒त्रियो॑ व॒शा व॒शा मै॒त्रियः॑ । 23) मै॒त्रिय॑ ऐन्द्राबार्हस्प॒त्या ऐ᳚न्द्राबार्हस्प॒त्या मै॒त्रियो॑ मै॒त्रिय॑ ऐन्द्राबार्हस्प॒त्याः । 24) ऐ॒न्द्रा॒बा॒र्॒ह॒स्प॒त्या अ॑रु॒णल॑लामा अरु॒णल॑लामा ऐन्द्राबार्हस्प॒त्या ऐ᳚न्द्राबार्हस्प॒त्या अ॑रु॒णल॑लामाः । 24) ऐ॒न्द्रा॒बा॒र्॒ह॒स्प॒त्या इत्यै᳚न्द्रा - बा॒र्॒ह॒स्प॒त्याः । 25) अ॒रु॒णल॑लामा स्तूप॒रा स्तू॑प॒रा अ॑रु॒णल॑लामा अरु॒णल॑लामा स्तूप॒राः । 25) अ॒रु॒णल॑लामा॒ इत्य॑रु॒ण - ल॒ला॒माः॒ । 26) तू॒प॒रा इति॑ तूप॒राः । ॥ 43 ॥ (26/34) ॥ अ. 12 ॥
1) शि॒ति॒बा॒हु र॒न्यत॑श्शितिबाहु र॒न्यत॑श्शितिबाहु-श्शितिबा॒हु-श्शि॑तिबा॒हु र॒न्यत॑श्शितिबाहुः । 1) शि॒ति॒बा॒हुरिति॑ शिति - बा॒हुः । 2) अ॒न्यत॑श्शितिबाहु-स्सम॒न्तशि॑तिबाहु-स्सम॒न्तशि॑तिबाहु र॒न्यत॑श्शितिबाहु र॒न्यत॑श्शितिबाहु-स्सम॒न्तशि॑तिबाहुः । 2) अ॒न्यत॑श्शितिबाहु॒रित्य॒न्यतः॑ - शि॒ति॒बा॒हुः॒ । 3) स॒म॒न्तशि॑तिबाहु॒ स्ते ते स॑म॒न्तशि॑तिबाहु-स्सम॒न्तशि॑तिबाहु॒ स्ते । 3) स॒म॒न्तशि॑तिबाहु॒रिति॑ सम॒न्त - शि॒ति॒बा॒हुः॒ । 4) त ऐ᳚न्द्रवाय॒वा ऐ᳚न्द्रवाय॒वा स्ते त ऐ᳚न्द्रवाय॒वाः । 5) ऐ॒न्द्र॒वा॒य॒वा-श्शि॑ति॒रन्ध्र॑-श्शिति॒रन्ध्र॑ ऐन्द्रवाय॒वा ऐ᳚न्द्रवाय॒वा-श्शि॑ति॒रन्ध्रः॑ । 5) ऐ॒न्द्र॒वा॒य॒वा इत्यै᳚न्द्र - वा॒य॒वाः । 6) शि॒ति॒रन्ध्रो॒ ऽन्यत॑श्शितिरन्ध्रो॒ ऽन्यत॑श्शितिरन्ध्र-श्शिति॒रन्ध्र॑-श्शिति॒रन्ध्रो॒ ऽन्यत॑श्शितिरन्ध्रः । 6) शि॒ति॒रन्ध्र॒ इति॑ शिति - रन्ध्रः॑ । 7) अ॒न्यत॑श्शितिरन्ध्र-स्सम॒न्तशि॑तिरन्ध्र-स्सम॒न्तशि॑तिरन्ध्रो॒ ऽन्यत॑श्शितिरन्ध्रो॒ ऽन्यत॑श्शितिरन्ध्र-स्सम॒न्तशि॑तिरन्ध्रः । 7) अ॒न्यत॑श्शितिरन्ध्र॒ इत्य॒न्यतः॑ - शि॒ति॒र॒न्ध्रः॒ । 8) स॒म॒न्तशि॑तिरन्ध्र॒ स्ते ते स॑म॒न्तशि॑तिरन्ध्र-स्सम॒न्तशि॑तिरन्ध्र॒ स्ते । 8) स॒म॒न्तशि॑तिरन्ध्र॒ इति॑ सम॒न्त - शि॒ति॒र॒न्ध्रः॒ । 9) ते मै᳚त्रावरु॒णा मै᳚त्रावरु॒णा स्ते ते मै᳚त्रावरु॒णाः । 10) मै॒त्रा॒व॒रु॒णा-श्शु॒द्धवा॑ल-श्शु॒द्धवा॑लो मैत्रावरु॒णा मै᳚त्रावरु॒णा-श्शु॒द्धवा॑लः । 10) मै॒त्रा॒व॒रु॒णा इति॑ मैत्रा - व॒रु॒णाः । 11) शु॒द्धवा॑ल-स्स॒र्वशु॑द्धवाल-स्स॒र्वशु॑द्धवाल-श्शु॒द्धवा॑ल-श्शु॒द्धवा॑ल-स्स॒र्वशु॑द्धवालः । 11) शु॒द्धवा॑ल॒ इति॑ शु॒द्ध - वा॒लः॒ । 12) स॒र्वशु॑द्धवालो म॒णिवा॑लो म॒णिवा॑ल-स्स॒र्वशु॑द्धवाल-स्स॒र्वशु॑द्धवालो म॒णिवा॑लः । 12) स॒र्वशु॑द्धवाल॒ इति॑ स॒र्व - शु॒द्ध॒वा॒लः॒ । 13) म॒णिवा॑ल॒ स्ते ते म॒णिवा॑लो म॒णिवा॑ल॒ स्ते । 13) म॒णिवा॑ल॒ इति॑ म॒णि - वा॒लः॒ । 14) त आ᳚श्वि॒ना आ᳚श्वि॒ना स्ते त आ᳚श्वि॒नाः । 15) आ॒श्वि॒ना स्ति॒स्र स्ति॒स्र आ᳚श्वि॒ना आ᳚श्वि॒ना स्ति॒स्रः । 16) ति॒स्र-श्शि॒ल्पा-श्शि॒ल्पा स्ति॒स्र स्ति॒स्र-श्शि॒ल्पाः । 17) शि॒ल्पा व॒शा व॒शा-श्शि॒ल्पा-श्शि॒ल्पा व॒शाः । 18) व॒शा वै᳚श्वदे॒व्यो॑ वैश्वदे॒व्यो॑ व॒शा व॒शा वै᳚श्वदे॒व्यः॑ । 19) वै॒श्व॒दे॒व्य॑ स्ति॒स्र स्ति॒स्रो वै᳚श्वदे॒व्यो॑ वैश्वदे॒व्य॑ स्ति॒स्रः । 19) वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । 20) ति॒स्र-श्श्येनी॒-श्श्येनी᳚ स्ति॒स्र स्ति॒स्र-श्श्येनीः᳚ । 21) श्येनीः᳚ परमे॒ष्ठिने॑ परमे॒ष्ठिने॒ श्येनी॒-श्श्येनीः᳚ परमे॒ष्ठिने᳚ । 22) प॒र॒मे॒ष्ठिने॑ सोमापौ॒ष्णा-स्सो॑मापौ॒ष्णाः प॑रमे॒ष्ठिने॑ परमे॒ष्ठिने॑ सोमापौ॒ष्णाः । 23) सो॒मा॒पौ॒ष्णा-श्श्या॒मल॑लामा-श्श्या॒मल॑लामा-स्सोमापौ॒ष्णा-स्सो॑मापौ॒ष्णा-श्श्या॒मल॑लामाः । 23) सो॒मा॒पौ॒ष्णा इति॑ सोमा - पौ॒ष्णाः । 24) श्या॒मल॑लामा स्तूप॒रा स्तू॑प॒रा-श्श्या॒मल॑लामा-श्श्या॒मल॑लामा स्तूप॒राः । 24) श्या॒मल॑लामा॒ इति॑ श्या॒म - ल॒ला॒माः॒ । 25) तू॒प॒रा इति॑ तूप॒राः । ॥ 44 ॥ (25/39) ॥ अ. 13 ॥
1) उ॒न्न॒त ऋ॑ष॒भ ऋ॑ष॒भ उ॑न्न॒त उ॑न्न॒त ऋ॑ष॒भः । 1) उ॒न्न॒त इत्यु॑त् - न॒तः । 2) ऋ॒ष॒भो वा॑म॒नो वा॑म॒न ऋ॑ष॒भ ऋ॑ष॒भो वा॑म॒नः । 3) वा॒म॒न स्ते ते वा॑म॒नो वा॑म॒न स्ते । 4) त ऐ᳚न्द्रावरु॒णा ऐ᳚न्द्रावरु॒णा स्ते त ऐ᳚न्द्रावरु॒णाः । 5) ऐ॒न्द्रा॒व॒रु॒णा-श्शिति॑ककु॒ च्छिति॑ककु दैन्द्रावरु॒णा ऐ᳚न्द्रावरु॒णा-श्शिति॑ककुत् । 5) ऐ॒न्द्रा॒व॒रु॒णा इत्यै᳚न्द्रा - व॒रु॒णाः । 6) शिति॑ककु च्छितिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठ-श्शिति॑ककु॒ च्छिति॑ककु च्छितिपृ॒ष्ठः । 6) शिति॑ककु॒दिति॒ शिति॑ - क॒कु॒त् । 7) शि॒ति॒पृ॒ष्ठ-श्शिति॑भस॒ च्छिति॑भस च्छितिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठ-श्शिति॑भसत् । 7) शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः । 8) शिति॑भस॒-त्ते ते शिति॑भस॒ च्छिति॑भस॒-त्ते । 8) शिति॑भस॒दिति॒ शिति॑ - भ॒स॒त् । 9) त ऐ᳚न्द्राबार्हस्प॒त्या ऐ᳚न्द्राबार्हस्प॒त्या स्ते त ऐ᳚न्द्राबार्हस्प॒त्याः । 10) ऐ॒न्द्रा॒बा॒र्॒ह॒स्प॒त्या-श्शि॑ति॒पा च्छि॑ति॒पा दै᳚न्द्राबार्हस्प॒त्या ऐ᳚न्द्राबार्हस्प॒त्या-श्शि॑ति॒पात् । 10) ऐ॒न्द्रा॒बा॒र्॒ह॒स्प॒त्या इत्यै᳚न्द्रा - बा॒र्॒ह॒स्प॒त्याः । 11) शि॒ति॒पा च्छि॒त्योष्ठ॑-श्शि॒त्योष्ठ॑-श्शिति॒पा च्छि॑ति॒पा च्छि॒त्योष्ठः॑ । 11) शि॒ति॒पादिति॑ शिति - पात् । 12) शि॒त्योष्ठ॑-श्शिति॒भ्रु-श्शि॑ति॒भ्रु-श्शि॒त्योष्ठ॑-श्शि॒त्योष्ठ॑-श्शिति॒भ्रुः । 12) शि॒त्योष्ठ॒ इति॑ शिति - ओष्ठः॑ । 13) शि॒ति॒भ्रु स्ते ते शि॑ति॒भ्रु-श्शि॑ति॒भ्रु स्ते । 13) शि॒ति॒भ्रुरिति॑ शिति - भ्रुः । 14) त ऐ᳚न्द्रावैष्ण॒वा ऐ᳚न्द्रावैष्ण॒वा स्ते त ऐ᳚न्द्रावैष्ण॒वाः । 15) ऐ॒न्द्रा॒वै॒ष्ण॒वा स्ति॒स्र स्ति॒स्र ऐ᳚न्द्रावैष्ण॒वा ऐ᳚न्द्रावैष्ण॒वा स्ति॒स्रः । 15) ऐ॒न्द्रा॒वै॒ष्ण॒वा इत्यै᳚न्द्रा - वै॒ष्ण॒वाः । 16) ति॒स्र-स्सि॒द्ध्मा-स्सि॒द्ध्मा स्ति॒स्र स्ति॒स्र-स्सि॒द्ध्माः । 17) सि॒द्ध्मा व॒शा व॒शा-स्सि॒द्ध्मा-स्सि॒द्ध्मा व॒शाः । 18) व॒शा वै᳚श्वकर्म॒ण्यो॑ वैश्वकर्म॒ण्यो॑ व॒शा व॒शा वै᳚श्वकर्म॒ण्यः॑ । 19) वै॒श्व॒क॒र्म॒ण्य॑ स्ति॒स्र स्ति॒स्रो वै᳚श्वकर्म॒ण्यो॑ वैश्वकर्म॒ण्य॑ स्ति॒स्रः । 19) वै॒श्व॒क॒र्म॒ण्य॑ इति॑ वैश्व - क॒र्म॒ण्यः॑ । 20) ति॒स्रो धा॒त्रे धा॒त्रे ति॒स्र स्ति॒स्रो धा॒त्रे । 21) धा॒त्रे पृ॑षोद॒राः पृ॑षोद॒रा धा॒त्रे धा॒त्रे पृ॑षोद॒राः । 22) पृ॒षो॒द॒रा ऐ᳚न्द्रापौ॒ष्णा ऐ᳚न्द्रापौ॒ष्णाः पृ॑षोद॒राः पृ॑षोद॒रा ऐ᳚न्द्रापौ॒ष्णाः । 22) पृ॒षो॒द॒रा इति॑ पृष - उ॒द॒राः । 23) ऐ॒न्द्रा॒पौ॒ष्णा-श्श्येत॑ललामा॒-श्श्येत॑ललामा ऐन्द्रापौ॒ष्णा ऐ᳚न्द्रापौ॒ष्णा-श्श्येत॑ललामाः । 23) ऐ॒न्द्रा॒पौ॒ष्णा इत्यै᳚न्द्रा - पौ॒ष्णाः । 24) श्येत॑ललामा स्तूप॒रा स्तू॑प॒रा-श्श्येत॑ललामा॒-श्श्येत॑ललामा स्तूप॒राः । 24) श्येत॑ललामा॒ इति॒ श्येत॑ - ल॒ला॒माः॒ । 25) तू॒प॒रा इति॑ तूप॒राः । ॥ 45 ॥ (25/39) ॥ अ. 14 ॥
1) क॒र्णा स्त्रय॒ स्त्रयः॑ क॒र्णाः क॒र्णा स्त्रयः॑ । 2) त्रयो॑ या॒मा या॒मा स्त्रय॒ स्त्रयो॑ या॒माः । 3) या॒मा-स्सौ॒म्या-स्सौ॒म्या या॒मा या॒मा-स्सौ॒म्याः । 4) सौ॒म्या स्त्रय॒ स्त्रय॑-स्सौ॒म्या-स्सौ॒म्या स्त्रयः॑ । 5) त्रय॑-श्श्विति॒ङ्गा-श्श्वि॑ति॒ङ्गा स्त्रय॒ स्त्रय॑-श्श्विति॒ङ्गाः । 6) श्वि॒ति॒ङ्गा अ॒ग्नये॒ ऽग्नये᳚ श्विति॒ङ्गा-श्श्वि॑ति॒ङ्गा अ॒ग्नये᳚ । 7) अ॒ग्नये॒ यवि॑ष्ठाय॒ यवि॑ष्ठा या॒ग्नये॒ ऽग्नये॒ यवि॑ष्ठाय । 8) यवि॑ष्ठाय॒ त्रय॒ स्त्रयो॒ यवि॑ष्ठाय॒ यवि॑ष्ठाय॒ त्रयः॑ । 9) त्रयो॑ नकु॒ला न॑कु॒ला स्त्रय॒ स्त्रयो॑ नकु॒लाः । 10) न॒कु॒ला स्ति॒स्र स्ति॒स्रो न॑कु॒ला न॑कु॒ला स्ति॒स्रः । 11) ति॒स्रो रोहि॑णी॒ रोहि॑णी स्ति॒स्र स्ति॒स्रो रोहि॑णीः । 12) रोहि॑णि॒ स्त्र्यव्य॒ स्त्र्यव्यो॒ रोहि॑णी॒ रोहि॑णि॒ स्त्र्यव्यः॑ । 13) त्र्यव्य॒ स्ता स्ता स्त्र्यव्य॒ स्त्र्यव्य॒ स्ताः । 13) त्र्यव्य॒ इति॑ त्रि - अव्यः॑ । 14) ता वसू॑नां॒-वँसू॑ना॒-न्ता स्ता वसू॑नाम् । 15) वसू॑ना-न्ति॒स्र स्ति॒स्रो वसू॑नां॒-वँसू॑ना-न्ति॒स्रः । 16) ति॒स्रो॑ ऽरु॒णा अ॑रु॒णा स्ति॒स्र स्ति॒स्रो॑ ऽरु॒णाः । 17) अ॒रु॒णा दि॑त्यौ॒ह्यो॑ दित्यौ॒ह्यो॑ ऽरु॒णा अ॑रु॒णा दि॑त्यौ॒ह्यः॑ । 18) दि॒त्यौ॒ह्य॑ स्ता स्ता दि॑त्यौ॒ह्यो॑ दित्यौ॒ह्य॑ स्ताः । 19) ता रु॒द्राणाग्ं॑ रु॒द्राणा॒-न्ता स्ता रु॒द्राणा᳚म् । 20) रु॒द्राणाग्ं॑ सोमै॒न्द्रा-स्सो॑मै॒न्द्रा रु॒द्राणाग्ं॑ रु॒द्राणाग्ं॑ सोमै॒न्द्राः । 21) सो॒मै॒न्द्रा ब॒भ्रुल॑लामा ब॒भ्रुल॑लामा-स्सोमै॒न्द्रा-स्सो॑मै॒न्द्रा ब॒भ्रुल॑लामाः । 21) सो॒मै॒न्द्रा इति॑ सोम - ऐ॒न्द्राः । 22) ब॒भ्रुल॑लामा स्तूप॒रा स्तू॑प॒रा ब॒भ्रुल॑लामा ब॒भ्रुल॑लामा स्तूप॒राः । 22) ब॒भ्रुल॑लामा॒ इति॑ ब॒भ्रु - ल॒ला॒माः॒ । 23) तू॒प॒रा इति॑ तूप॒राः । ॥ 46 ॥ (23/26) ॥ अ. 15 ॥
1) शु॒ण्ठा स्त्रय॒ स्त्रय॑-श्शु॒ण्ठा-श्शु॒ण्ठा स्त्रयः॑ । 2) त्रयो॑ वैष्ण॒वा वै᳚ष्ण॒वा स्त्रय॒ स्त्रयो॑ वैष्ण॒वाः । 3) वै॒ष्ण॒वा अ॑धीलोध॒कर्णा॑ अधीलोध॒कर्णा॑ वैष्ण॒वा वै᳚ष्ण॒वा अ॑धीलोध॒कर्णाः᳚ । 4) अ॒धी॒लो॒ध॒कर्णा॒ स्त्रय॒ स्त्रयो॑ ऽधीलोध॒कर्णा॑ अधीलोध॒कर्णा॒ स्त्रयः॑ । 4) अ॒धी॒लो॒ध॒कर्णा॒ इत्य॑धीलोध - कर्णाः᳚ । 5) त्रयो॒ विष्ण॑वे॒ विष्ण॑वे॒ त्रय॒ स्त्रयो॒ विष्ण॑वे । 6) विष्ण॑व उरुक्र॒मायो॑ रुक्र॒माय॒ विष्ण॑वे॒ विष्ण॑व उरुक्र॒माय॑ । 7) उ॒रु॒क्र॒माय॑ लफ्सु॒दिनो॑ लफ्सु॒दिन॑ उरुक्र॒मायो॑ रुक्र॒माय॑ लफ्सु॒दिनः॑ । 7) उ॒रु॒क्र॒मायेत्यु॑रु - क्र॒माय॑ । 8) ल॒फ्सु॒दिन॒ स्त्रय॒ स्त्रयो॑ लफ्सु॒दिनो॑ लफ्सु॒दिन॒ स्त्रयः॑ । 9) त्रयो॒ विष्ण॑वे॒ विष्ण॑वे॒ त्रय॒ स्त्रयो॒ विष्ण॑वे । 10) विष्ण॑व उरुगा॒यायो॑ रुगा॒याय॒ विष्ण॑वे॒ विष्ण॑व उरुगा॒याय॑ । 11) उ॒रु॒गा॒याय॒ पञ्चा॑वीः॒ पञ्चा॑वी रुरुगा॒यायो॑ रुगा॒याय॒ पञ्चा॑वीः । 11) उ॒रु॒गा॒यायेत्यु॑रु - गा॒याय॑ । 12) पञ्चा॑वी स्ति॒स्र स्ति॒स्रः पञ्चा॑वीः॒ पञ्चा॑वी स्ति॒स्रः । 12) पञ्चा॑वी॒रिति॒ पञ्च॑ - अ॒वीः॒ । 13) ति॒स्र आ॑दि॒त्याना॑ मादि॒त्याना᳚-न्ति॒स्र स्ति॒स्र आ॑दि॒त्याना᳚म् । 14) आ॒दि॒त्याना᳚-न्त्रिव॒थ्सा स्त्रि॑व॒थ्सा आ॑दि॒त्याना॑ मादि॒त्याना᳚-न्त्रिव॒थ्साः । 15) त्रि॒व॒थ्सा स्ति॒स्र स्ति॒स्र स्त्रि॑व॒थ्सा स्त्रि॑व॒थ्सा स्ति॒स्रः । 15) त्रि॒व॒थ्सा इति॑ त्रि - व॒थ्साः । 16) ति॒स्रो ऽङ्गि॑रसा॒ मङ्गि॑रसा-न्ति॒स्र स्ति॒स्रो ऽङ्गि॑रसाम् । 17) अङ्गि॑रसा मैन्द्रावैष्ण॒वा ऐ᳚न्द्रावैष्ण॒वा अङ्गि॑रसा॒ मङ्गि॑रसा मैन्द्रावैष्ण॒वाः । 18) ऐ॒न्द्रा॒वै॒ष्ण॒वा गौ॒रल॑लामा गौ॒रल॑लामा ऐन्द्रावैष्ण॒वा ऐ᳚न्द्रावैष्ण॒वा गौ॒रल॑लामाः । 18) ऐ॒न्द्रा॒वै॒ष्ण॒वा इत्यै᳚न्द्रा - वै॒ष्ण॒वाः । 19) गौ॒रल॑लामा स्तूप॒रा स्तू॑प॒रा गौ॒रल॑लामा गौ॒रल॑लामा स्तूप॒राः । 19) गौ॒रल॑लामा॒ इति॑ गौ॒र - ल॒ला॒माः॒ । 20) तू॒प॒रा इति॑ तूप॒राः । ॥ 47 ॥ (20/27) ॥ अ. 16 ॥
1) इन्द्रा॑य॒ राज्ञे॒ राज्ञ॒ इन्द्रा॒ येन्द्रा॑य॒ राज्ञे᳚ । 2) राज्ञे॒ त्रय॒ स्त्रयो॒ राज्ञे॒ राज्ञे॒ त्रयः॑ । 3) त्रय॑-श्शितिपृ॒ष्ठा-श्शि॑तिपृ॒ष्ठा स्त्रय॒ स्त्रय॑-श्शितिपृ॒ष्ठाः । 4) शि॒ति॒पृ॒ष्ठा इन्द्रा॒ येन्द्रा॑य शितिपृ॒ष्ठा-श्शि॑तिपृ॒ष्ठा इन्द्रा॑य । 4) शि॒ति॒पृ॒ष्ठा इति॑ शिति - पृ॒ष्ठाः । 5) इन्द्रा॑या धिरा॒जाया॑ धिरा॒जा येन्द्रा॒ येन्द्रा॑या धिरा॒जाय॑ । 6) अ॒धि॒रा॒जाय॒ त्रय॒ स्त्रयो॑ ऽधिरा॒जाया॑ धिरा॒जाय॒ त्रयः॑ । 6) अ॒धि॒रा॒जायेत्य॑धि - रा॒जाय॑ । 7) त्रय॒-श्शिति॑ककुद॒-श्शिति॑ककुद॒ स्त्रय॒ स्त्रय॒-श्शिति॑ककुदः । 8) शिति॑ककुद॒ इन्द्रा॒ येन्द्रा॑य॒ शिति॑ककुद॒-श्शिति॑ककुद॒ इन्द्रा॑य । 8) शिति॑ककुद॒ इति॒ शिति॑ - क॒कु॒दः॒ । 9) इन्द्रा॑य स्व॒राज्ञे᳚ स्व॒राज्ञ॒ इन्द्रा॒ येन्द्रा॑य स्व॒राज्ञे᳚ । 10) स्व॒राज्ञे॒ त्रय॒ स्त्रय॑-स्स्व॒राज्ञे᳚ स्व॒राज्ञे॒ त्रयः॑ । 10) स्व॒राज्ञ॒ इति॑ स्व - राज्ञे᳚ । 11) त्रय॒-श्शिति॑भसद॒-श्शिति॑भसद॒ स्त्रय॒ स्त्रय॒-श्शिति॑भसदः । 12) शिति॑भसद स्ति॒स्र स्ति॒स्र-श्शिति॑भसद॒-श्शिति॑भसद स्ति॒स्रः । 12) शिति॑भसद॒ इति॒ शिति॑ - भ॒स॒दः॒ । 13) ति॒स्र स्तु॑र्यौ॒ह्य॑ स्तुर्यौ॒ह्य॑ स्ति॒स्र स्ति॒स्र स्तु॑र्यौ॒ह्यः॑ । 14) तु॒र्यौ॒ह्य॑-स्सा॒द्ध्यानाग्ं॑ सा॒द्ध्याना᳚-न्तुर्यौ॒ह्य॑ स्तुर्यौ॒ह्य॑-स्सा॒द्ध्याना᳚म् । 15) सा॒द्ध्याना᳚-न्ति॒स्र स्ति॒स्र-स्सा॒द्ध्यानाग्ं॑ सा॒द्ध्याना᳚-न्ति॒स्रः । 16) ति॒स्रः प॑ष्ठौ॒ह्यः॑ पष्ठौ॒ह्य॑ स्ति॒स्र स्ति॒स्रः प॑ष्ठौ॒ह्यः॑ । 17) प॒ष्ठौ॒ह्यो॑ विश्वे॑षां॒-विँश्वे॑षा-म्पष्ठौ॒ह्यः॑ पष्ठौ॒ह्यो॑ विश्वे॑षाम् । 18) विश्वे॑षा-न्दे॒वाना᳚-न्दे॒वानां॒-विँश्वे॑षां॒-विँश्वे॑षा-न्दे॒वाना᳚म् । 19) दे॒वाना॑ माग्ने॒न्द्रा आ᳚ग्ने॒न्द्रा दे॒वाना᳚-न्दे॒वाना॑ माग्ने॒न्द्राः । 20) आ॒ग्ने॒न्द्राः कृ॒ष्णल॑लामाः कृ॒ष्णल॑लामा आग्ने॒न्द्रा आ᳚ग्ने॒न्द्राः कृ॒ष्णल॑लामाः । 21) कृ॒ष्णल॑लामा स्तूप॒रा स्तू॑प॒राः कृ॒ष्णल॑लामाः कृ॒ष्णल॑लामा स्तूप॒राः । 21) कृ॒ष्णल॑लामा॒ इति॑ कृ॒ष्ण - ल॒ला॒माः॒ । 22) तू॒प॒रा इति॑ तूप॒राः । ॥ 48 ॥ (22/28) ॥ अ. 17 ॥
1) अदि॑त्यै॒ त्रय॒ स्त्रयो ऽदि॑त्या॒ अदि॑त्यै॒ त्रयः॑ । 2) त्रयो॑ रोहितै॒ता रो॑हितै॒ता स्त्रय॒ स्त्रयो॑ रोहितै॒ताः । 3) रो॒हि॒तै॒ता इ॑न्द्रा॒ण्या इ॑न्द्रा॒ण्यै रो॑हितै॒ता रो॑हितै॒ता इ॑न्द्रा॒ण्यै । 3) रो॒हि॒तै॒ता इति॑ रोहित - ए॒ताः । 4) इ॒न्द्रा॒ण्यै त्रय॒ स्त्रय॑ इन्द्रा॒ण्या इ॑न्द्रा॒ण्यै त्रयः॑ । 5) त्रयः॑ कृष्णै॒ताः कृ॑ष्णै॒ता स्त्रय॒ स्त्रयः॑ कृष्णै॒ताः । 6) कृ॒ष्णै॒ताः कु॒ह्वै॑ कु॒ह्वै॑ कृष्णै॒ताः कृ॑ष्णै॒ताः कु॒ह्वै᳚ । 6) कृ॒ष्णै॒ता इति॑ कृष्ण - ए॒ताः । 7) कु॒ह्वै᳚ त्रय॒ स्त्रयः॑ कु॒ह्वै॑ कु॒ह्वै᳚ त्रयः॑ । 8) त्रयो॑ ऽरुणै॒ता अ॑रुणै॒ता स्त्रय॒ स्त्रयो॑ ऽरुणै॒ताः । 9) अ॒रु॒णै॒ता स्ति॒स्र स्ति॒स्रो॑ ऽरुणै॒ता अ॑रुणै॒ता स्ति॒स्रः । 9) अ॒रु॒णै॒ता इत्य॑रुण - ए॒ताः । 10) ति॒स्रो धे॒नवो॑ धे॒नव॑ स्ति॒स्र स्ति॒स्रो धे॒नवः॑ । 11) धे॒नवो॑ रा॒कायै॑ रा॒कायै॑ धे॒नवो॑ धे॒नवो॑ रा॒कायै᳚ । 12) रा॒कायै॒ त्रय॒ स्त्रयो॑ रा॒कायै॑ रा॒कायै॒ त्रयः॑ । 13) त्रयो॑ ऽन॒ड्वाहो॑ ऽन॒ड्वाह॒ स्त्रय॒ स्त्रयो॑ ऽन॒ड्वाहः॑ । 14) अ॒न॒ड्वाह॑-स्सिनीवा॒ल्यै सि॑नीवा॒ल्या अ॑न॒ड्वाहो॑ ऽन॒ड्वाह॑-स्सिनीवा॒ल्यै । 15) सि॒नी॒वा॒ल्या आ᳚ग्नावैष्ण॒वा आ᳚ग्नावैष्ण॒वा-स्सि॑नीवा॒ल्यै सि॑नीवा॒ल्या आ᳚ग्नावैष्ण॒वाः । 16) आ॒ग्ना॒वै॒ष्ण॒वा रोहि॑तललामा॒ रोहि॑तललामा आग्नावैष्ण॒वा आ᳚ग्नावैष्ण॒वा रोहि॑तललामाः । 16) आ॒ग्ना॒वै॒ष्ण॒वा इत्या᳚ग्ना - वै॒ष्ण॒वाः । 17) रोहि॑तललामा स्तूप॒रा स्तू॑प॒रा रोहि॑तललामा॒ रोहि॑तललामा स्तूप॒राः । 17) रोहि॑तललामा॒ इति॒ रोहि॑त - ल॒ला॒माः॒ । 18) तू॒प॒रा इति॑ तूप॒राः । ॥ 49 ॥ (18/23) ॥ अ. 18 ॥
1) सौ॒म्या स्त्रय॒ स्त्रय॑-स्सौ॒म्या-स्सौ॒म्या स्त्रयः॑ । 2) त्रयः॑ पि॒शङ्गाः᳚ पि॒शङ्गा॒ स्त्रय॒ स्त्रयः॑ पि॒शङ्गाः᳚ । 3) पि॒शङ्गा॒-स्सोमा॑य॒ सोमा॑य पि॒शङ्गाः᳚ पि॒शङ्गा॒-स्सोमा॑य । 4) सोमा॑य॒ राज्ञे॒ राज्ञे॒ सोमा॑य॒ सोमा॑य॒ राज्ञे᳚ । 5) राज्ञे॒ त्रय॒ स्त्रयो॒ राज्ञे॒ राज्ञे॒ त्रयः॑ । 6) त्रय॑-स्सा॒रङ्गा᳚-स्सा॒रङ्गा॒ स्त्रय॒ स्त्रय॑-स्सा॒रङ्गाः᳚ । 7) सा॒रङ्गाः᳚ पार्ज॒न्याः पा᳚र्ज॒न्या-स्सा॒रङ्गा᳚-स्सा॒रङ्गाः᳚ पार्ज॒न्याः । 8) पा॒र्ज॒न्या नभो॑रूपा॒ नभो॑रूपाः पार्ज॒न्याः पा᳚र्ज॒न्या नभो॑रूपाः । 9) नभो॑रूपा स्ति॒स्र स्ति॒स्रो नभो॑रूपा॒ नभो॑रूपा स्ति॒स्रः । 9) नभो॑रूपा॒ इति॒ नभः॑ - रू॒पाः॒ । 10) ति॒स्रो॑ ऽजा अ॒जा स्ति॒स्र स्ति॒स्रो॑ ऽजाः । 11) अ॒जा म॒ल्॒ःआ म॒ल्॒ःआ अ॒जा अ॒जा म॒ल्॒ःआः । 12) म॒ल॒ःआ इ॑न्द्रा॒ण्या इ॑न्द्रा॒ण्यै म॒ल्॒ःआ म॒ल्॒ःआ इ॑न्द्रा॒ण्यै । 13) इ॒न्द्रा॒ण्यै ति॒स्र स्ति॒स्र इ॑न्द्रा॒ण्या इ॑न्द्रा॒ण्यै ति॒स्रः । 14) ति॒स्रो मे॒ष्यो॑ मे॒ष्य॑ स्ति॒स्र स्ति॒स्रो मे॒ष्यः॑ । 15) मे॒ष्य॑ आदि॒त्या आ॑दि॒त्या मे॒ष्यो॑ मे॒ष्य॑ आदि॒त्याः । 16) आ॒दि॒त्या द्या॑वापृथि॒व्या᳚ द्यावापृथि॒व्या॑ आदि॒त्या आ॑दि॒त्या द्या॑वापृथि॒व्याः᳚ । 17) द्या॒वा॒पृ॒थि॒व्या॑ मा॒लङ्गा॑ मा॒लङ्गा᳚ द्यावापृथि॒व्या᳚ द्यावापृथि॒व्या॑ मा॒लङ्गाः᳚ । 17) द्या॒वा॒पृ॒थि॒व्या॑ इति॑ द्यावा - पृ॒थि॒व्याः᳚ । 18) मा॒लङ्गा᳚ स्तूप॒रा स्तू॑प॒रा मा॒लङ्गा॑ मा॒लङ्गा᳚ स्तूप॒राः । 19) तू॒प॒रा इति॑ तूप॒राः । ॥ 50 ॥ (19/21) ॥ अ. 19 ॥
1) वा॒रु॒णा स्त्रय॒ स्त्रयो॑ वारु॒णा वा॑रु॒णा स्त्रयः॑ । 2) त्रयः॑ कृ॒ष्णल॑लामाः कृ॒ष्णल॑लामा॒ स्त्रय॒ स्त्रयः॑ कृ॒ष्णल॑लामाः । 3) कृ॒ष्णल॑लामा॒ वरु॑णाय॒ वरु॑णाय कृ॒ष्णल॑लामाः कृ॒ष्णल॑लामा॒ वरु॑णाय । 3) कृ॒ष्णल॑लामा॒ इति॑ कृ॒ष्ण - ल॒ला॒माः॒ । 4) वरु॑णाय॒ राज्ञे॒ राज्ञे॒ वरु॑णाय॒ वरु॑णाय॒ राज्ञे᳚ । 5) राज्ञे॒ त्रय॒ स्त्रयो॒ राज्ञे॒ राज्ञे॒ त्रयः॑ । 6) त्रयो॒ रोहि॑तललामा॒ रोहि॑तललामा॒ स्त्रय॒ स्त्रयो॒ रोहि॑तललामाः । 7) रोहि॑तललामा॒ वरु॑णाय॒ वरु॑णाय॒ रोहि॑तललामा॒ रोहि॑तललामा॒ वरु॑णाय । 7) रोहि॑तललामा॒ इति॒ रोहि॑त - ल॒ला॒माः॒ । 8) वरु॑णाय रि॒शाद॑से रि॒शाद॑से॒ वरु॑णाय॒ वरु॑णाय रि॒शाद॑से । 9) रि॒शाद॑से॒ त्रय॒ स्त्रयो॑ रि॒शाद॑से रि॒शाद॑से॒ त्रयः॑ । 9) रि॒शाद॑स॒ इति॑ रिश - अद॑से । 10) त्रयो॑ ऽरु॒णल॑लामा अरु॒णल॑लामा॒ स्त्रय॒ स्त्रयो॑ ऽरु॒णल॑लामाः । 11) अ॒रु॒णल॑लामा-श्शि॒ल्पा-श्शि॒ल्पा अ॑रु॒णल॑लामा अरु॒णल॑लामा-श्शि॒ल्पाः । 11) अ॒रु॒णल॑लामा॒ इत्य॑रु॒ण - ल॒ला॒माः॒ । 12) शि॒ल्पा स्त्रय॒ स्त्रय॑-श्शि॒ल्पा-श्शि॒ल्पा स्त्रयः॑ । 13) त्रयो॑ वैश्वदे॒वा वै᳚श्वदे॒वा स्त्रय॒ स्त्रयो॑ वैश्वदे॒वाः । 14) वै॒श्व॒दे॒वा स्त्रय॒ स्त्रयो॑ वैश्वदे॒वा वै᳚श्वदे॒वा स्त्रयः॑ । 14) वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः । 15) त्रयः॒ पृश्ञ॑यः॒ पृश्ञ॑य॒ स्त्रय॒ स्त्रयः॒ पृश्ञ॑यः । 16) पृश्ञ॑य-स्सर्वदेव॒त्या᳚-स्सर्वदेव॒त्याः᳚ पृश्ञ॑यः॒ पृश्ञ॑य-स्सर्वदेव॒त्याः᳚ । 17) स॒र्व॒दे॒व॒त्या॑ ऐन्द्रासू॒रा ऐ᳚न्द्रासू॒रा-स्स॑र्वदेव॒त्या᳚-स्सर्वदेव॒त्या॑ ऐन्द्रासू॒राः । 17) स॒र्व॒दे॒व॒त्या॑ इति॑ सर्व - दे॒व॒त्याः᳚ । 18) ऐ॒न्द्रा॒सू॒रा-श्श्येत॑ललामा॒-श्श्येत॑ललामा ऐन्द्रासू॒रा ऐ᳚न्द्रासू॒रा-श्श्येत॑ललामाः । 18) ऐ॒न्द्रा॒सू॒रा इत्यै᳚न्द्रा - सू॒राः । 19) श्येत॑ललामा स्तूप॒रा स्तू॑प॒रा-श्श्येत॑ललामा॒-श्श्येत॑ललामा स्तूप॒राः । 19) श्येत॑ललामा॒ इति॒ श्येत॑ - ल॒ला॒माः॒ । 20) तू॒प॒रा इति॑ तूप॒राः । ॥ 51 ॥ (20/28) ॥ अ. 20 ॥
1) सोमा॑य स्व॒राज्ञे᳚ स्व॒राज्ञे॒ सोमा॑य॒ सोमा॑य स्व॒राज्ञे᳚ । 2) स्व॒राज्ञे॑ ऽनोवा॒हा व॑नोवा॒हौ स्व॒राज्ञे᳚ स्व॒राज्ञे॑ ऽनोवा॒हौ । 2) स्व॒राज्ञ॒ इति॑ स्व - राज्ञे᳚ । 3) अ॒नो॒वा॒हा व॑न॒ड्वाहा॑ वन॒ड्वाहा॑ वनोवा॒हा व॑नोवा॒हा व॑न॒ड्वाहौ᳚ । 3) अ॒नो॒वा॒हावित्य॑नः - वा॒हौ । 4) अ॒न॒ड्वाहा॑ विन्द्रा॒ग्निभ्या॑ मिन्द्रा॒ग्निभ्या॑ मन॒ड्वाहा॑ वन॒ड्वाहा॑ विन्द्रा॒ग्निभ्या᳚म् । 5) इ॒न्द्रा॒ग्निभ्या॑ मोजो॒दाभ्या॑ मोजो॒दाभ्या॑ मिन्द्रा॒ग्निभ्या॑ मिन्द्रा॒ग्निभ्या॑ मोजो॒दाभ्या᳚म् । 5) इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि - भ्या॒म् । 6) ओ॒जो॒दाभ्या॒ मुष्टा॑रा॒ वुष्टा॑रा वोजो॒दाभ्या॑ मोजो॒दाभ्या॒ मुष्टा॑रौ । 6) ओ॒जो॒दाभ्या॒मित्यो॑जः - दाभ्या᳚म् । 7) उष्टा॑रा विन्द्रा॒ग्निभ्या॑ मिन्द्रा॒ग्निभ्या॒ मुष्टा॑रा॒ वुष्टा॑रा विन्द्रा॒ग्निभ्या᳚म् । 8) इ॒न्द्रा॒ग्निभ्या᳚-म्बल॒दाभ्या᳚-म्बल॒दाभ्या॑ मिन्द्रा॒ग्निभ्या॑ मिन्द्रा॒ग्निभ्या᳚-म्बल॒दाभ्या᳚म् । 8) इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि - भ्या॒म् । 9) ब॒ल॒दाभ्याग्ं॑ सीरवा॒हौ सी॑रवा॒हौ ब॑ल॒दाभ्या᳚-म्बल॒दाभ्याग्ं॑ सीरवा॒हौ । 9) ब॒ल॒दाभ्या॒मिति॑ बल - दाभ्या᳚म् । 10) सी॒र॒वा॒हा ववी॒ अवी॑ सीरवा॒हौ सी॑रवा॒हा ववी᳚ । 10) सी॒र॒वा॒हाविति॑ सीर - वा॒हौ । 11) अवी॒ द्वे द्वे अवी॒ अवी॒ द्वे । 11) अवी॒ इत्यवी᳚ । 12) द्वे धे॒नू धे॒नू द्वे द्वे धे॒नू । 12) द्वे इति॒ द्वे । 13) धे॒नू भौ॒मी भौ॒मी धे॒नू धे॒नू भौ॒मी । 13) धे॒नू इति॑ धे॒नू । 14) भौ॒मी दि॒ग्भ्यो दि॒ग्भ्यो भौ॒मी भौ॒मी दि॒ग्भ्यः । 14) भौ॒मी इति॑ भौ॒मी । 15) दि॒ग्भ्यो वड॑बे॒ वड॑बे दि॒ग्भ्यो दि॒ग्भ्यो वड॑बे । 15) दि॒ग्भ्य इति॑ दिक् - भ्यः । 16) वड॑बे॒ द्वे द्वे वड॑बे॒ वड॑बे॒ द्वे । 16) वड॑बे॒ इति॒ वड॑बे । 17) द्वे धे॒नू धे॒नू द्वे द्वे धे॒नू । 17) द्वे इति॒ द्वे । 18) धे॒नू भौ॒मी भौ॒मी धे॒नू धे॒नू भौ॒मी । 18) धे॒नू इति॑ धे॒नू । 19) भौ॒मी वै॑रा॒जी वै॑रा॒जी भौ॒मी भौ॒मी वै॑रा॒जी । 19) भौ॒मी इति॑ भौ॒मी । 20) वै॒रा॒जी पु॑रु॒षी पु॑रु॒षी वै॑रा॒जी वै॑रा॒जी पु॑रु॒षी । 20) वै॒रा॒जी इति॑ वैरा॒जी । 21) पु॒रु॒षी द्वे द्वे पु॑रु॒षी पु॑रु॒षी द्वे । 21) पु॒रु॒षी इति॑ पुरु॒षी । 22) द्वे धे॒नू धे॒नू द्वे द्वे धे॒नू । 22) द्वे इति॒ द्वे । 23) धे॒नू भौ॒मी भौ॒मी धे॒नू धे॒नू भौ॒मी । 23) धे॒नू इति॑ धे॒नू । 24) भौ॒मी वा॒यवे॑ वा॒यवे॑ भौ॒मी भौ॒मी वा॒यवे᳚ । 24) भौ॒मी इति॑ भौ॒मी । 25) वा॒यव॑ आरोहणवा॒हा वा॑रोहणवा॒हौ वा॒यवे॑ वा॒यव॑ आरोहणवा॒हौ । 26) आ॒रो॒ह॒ण॒वा॒हा व॑न॒ड्वाहा॑ वन॒ड्वाहा॑ वारोहणवा॒हा वा॑रोहणवा॒हा व॑न॒ड्वाहौ᳚ । 26) आ॒रो॒ह॒ण॒वा॒हावित्या॑रोहण - वा॒हौ । 27) अ॒न॒ड्वाहौ॑ वारु॒णी वा॑रु॒णी अ॑न॒ड्वाहा॑ वन॒ड्वाहौ॑ वारु॒णी । 28) वा॒रु॒णी कृ॒ष्णे कृ॒ष्णे वा॑रु॒णी वा॑रु॒णी कृ॒ष्णे । 28) वा॒रु॒णी इति॑ वारु॒णी । 29) कृ॒ष्णे व॒शे व॒शे कृ॒ष्णे कृ॒ष्णे व॒शे । 29) कृ॒ष्णे इति॑ कृ॒ष्णे । 30) व॒शे अ॑रा॒ड्या॑ वरा॒ड्यौ॑ व॒शे व॒शे अ॑रा॒ड्यौ᳚ । 30) व॒शे इति॑ व॒शे । 31) अ॒रा॒ड्यौ॑ दि॒व्यौ दि॒व्या व॑रा॒ड्या॑ वरा॒ड्यौ॑ दि॒व्यौ । 32) दि॒व्या वृ॑ष॒भा वृ॑ष॒भौ दि॒व्यौ दि॒व्या वृ॑ष॒भौ । 33) ऋ॒ष॒भौ प॑रिम॒रौ प॑रिम॒रा वृ॑ष॒भा वृ॑ष॒भौ प॑रिम॒रौ । 34) प॒रि॒म॒राविति॑ परि - म॒रौ । ॥ 52 ॥ (34/59) ॥ अ. 21 ॥
1) एका॑दश प्रा॒तः प्रा॒त रेका॑द॒शै का॑दश प्रा॒तः । 2) प्रा॒त-र्ग॒व्या ग॒व्याः प्रा॒तः प्रा॒त-र्ग॒व्याः । 3) ग॒व्याः प॒शवः॑ प॒शवो॑ ग॒व्या ग॒व्याः प॒शवः॑ । 4) प॒शव॒ आ प॒शवः॑ प॒शव॒ आ । 5) आ ल॑भ्यन्ते लभ्यन्त॒ आ ल॑भ्यन्ते । 6) ल॒भ्य॒न्ते॒ छ॒ग॒ल श्छ॑ग॒लो ल॑भ्यन्ते लभ्यन्ते छग॒लः । 7) छ॒ग॒लः क॒ल्माषः॑ क॒ल्माष॑ श्छग॒ल श्छ॑ग॒लः क॒ल्माषः॑ । 8) क॒ल्माषः॑ किकिदी॒विः कि॑किदी॒विः क॒ल्माषः॑ क॒ल्माषः॑ किकिदी॒विः । 9) कि॒कि॒दी॒वि-र्वि॑दी॒गयो॑ विदी॒गयः॑ किकिदी॒विः कि॑किदी॒वि-र्वि॑दी॒गयः॑ । 10) वि॒दी॒गय॒ स्ते ते वि॑दी॒गयो॑ विदी॒गय॒ स्ते । 11) ते त्वा॒ष्ट्रा स्त्वा॒ष्ट्रा स्ते ते त्वा॒ष्ट्राः । 12) त्वा॒ष्ट्रा-स्सौ॒री-स्सौ॒री स्त्वा॒ष्ट्रा स्त्वा॒ष्ट्रा-स्सौ॒रीः । 13) सौ॒री-र्नव॒ नव॑ सौ॒री-स्सौ॒री-र्नव॑ । 14) नव॑ श्वे॒ता-श्श्वे॒ता नव॒ नव॑ श्वे॒ताः । 15) श्वे॒ता व॒शा व॒शा-श्श्वे॒ता-श्श्वे॒ता व॒शाः । 16) व॒शा अ॑नूब॒न्ध्या॑ अनूब॒न्ध्या॑ व॒शा व॒शा अ॑नूब॒न्ध्याः᳚ । 17) अ॒नू॒ब॒न्ध्या॑ भवन्ति भव-न्त्यनूब॒न्ध्या॑ अनूब॒न्ध्या॑ भवन्ति । 17) अ॒नू॒ब॒न्ध्या॑ इत्य॑नु - ब॒न्ध्याः᳚ । 18) भ॒व॒-न्त्या॒ग्ने॒य आ᳚ग्ने॒यो भ॑वन्ति भव-न्त्याग्ने॒यः । 19) आ॒ग्ने॒य ऐ᳚न्द्रा॒ग्न ऐ᳚न्द्रा॒ग्न आ᳚ग्ने॒य आ᳚ग्ने॒य ऐ᳚न्द्रा॒ग्नः । 20) ऐ॒न्द्रा॒ग्न आ᳚श्वि॒न आ᳚श्वि॒न ऐ᳚न्द्रा॒ग्न ऐ᳚न्द्रा॒ग्न आ᳚श्वि॒नः । 20) ऐ॒न्द्रा॒ग्न इत्यै᳚न्द्र - अ॒ग्नः । 21) आ॒श्वि॒न स्ते त आ᳚श्वि॒न आ᳚श्वि॒न स्ते । 22) ते वि॑शालयू॒पे वि॑शालयू॒पे ते ते वि॑शालयू॒पे । 23) वि॒शा॒ल॒यू॒प आ वि॑शालयू॒पे वि॑शालयू॒प आ । 23) वि॒शा॒ल॒यू॒प इति॑ विशाल - यू॒पे । 24) आ ल॑भ्यन्ते लभ्यन्त॒ आ ल॑भ्यन्ते । 25) ल॒भ्य॒न्त॒ इति॑ लभ्यन्ते । ॥ 53 ॥ (25/28) ॥ अ. 22 ॥
1) पि॒शङ्गा॒ स्त्रय॒ स्त्रयः॑ पि॒शङ्गाः᳚ पि॒शङ्गा॒ स्त्रयः॑ । 2) त्रयो॑ वास॒न्ता वा॑स॒न्ता स्त्रय॒ स्त्रयो॑ वास॒न्ताः । 3) वा॒स॒न्ता-स्सा॒रङ्गा᳚-स्सा॒रङ्गा॑ वास॒न्ता वा॑स॒न्ता-स्सा॒रङ्गाः᳚ । 4) सा॒रङ्गा॒ स्त्रय॒ स्त्रय॑-स्सा॒रङ्गा᳚-स्सा॒रङ्गा॒ स्त्रयः॑ । 5) त्रयो॒ ग्रैष्मा॒ ग्रैष्मा॒ स्त्रय॒ स्त्रयो॒ ग्रैष्माः᳚ । 6) ग्रैष्माः॒ पृष॑न्तः॒ पृष॑न्तो॒ ग्रैष्मा॒ ग्रैष्माः॒ पृष॑न्तः । 7) पृष॑न्त॒ स्त्रय॒ स्त्रयः॒ पृष॑न्तः॒ पृष॑न्त॒ स्त्रयः॑ । 8) त्रयो॒ वार्षि॑का॒ वार्षि॑का॒ स्त्रय॒ स्त्रयो॒ वार्षि॑काः । 9) वार्षि॑काः॒ पृश्ञ॑यः॒ पृश्ञ॑यो॒ वार्षि॑का॒ वार्षि॑काः॒ पृश्ञ॑यः । 10) पृश्ञ॑य॒ स्त्रय॒ स्त्रयः॒ पृश्ञ॑यः॒ पृश्ञ॑य॒ स्त्रयः॑ । 11) त्रय॑-श्शार॒दा-श्शा॑र॒दा स्त्रय॒ स्त्रय॑-श्शार॒दाः । 12) शा॒र॒दाः पृ॑श्ञिस॒क्थाः पृ॑श्ञिस॒क्था-श्शा॑र॒दा-श्शा॑र॒दाः पृ॑श्ञिस॒क्थाः । 13) पृ॒श्ञि॒स॒क्था स्त्रय॒ स्त्रयः॑ पृश्ञिस॒क्थाः पृ॑श्ञिस॒क्था स्त्रयः॑ । 13) पृ॒श्ञि॒स॒क्था इति॑ पृश्ञि - स॒क्थाः । 14) त्रयो॒ हैम॑न्तिका॒ हैम॑न्तिका॒ स्त्रय॒ स्त्रयो॒ हैम॑न्तिकाः । 15) हैम॑न्तिका अवलि॒प्ता अ॑वलि॒प्ता हैम॑न्तिका॒ हैम॑न्तिका अवलि॒प्ताः । 16) अ॒व॒लि॒प्ता स्त्रय॒ स्त्रयो॑ ऽवलि॒प्ता अ॑वलि॒प्ता स्त्रयः॑ । 16) अ॒व॒लि॒प्ता इत्य॑व - लि॒प्ताः । 17) त्रय॑-श्शैशि॒रा-श्शै॑शि॒रा स्त्रय॒ स्त्रय॑-श्शैशि॒राः । 18) शै॒शि॒रा-स्सं॑वँथ्स॒राय॑ संवँथ्स॒राय॑ शैशि॒रा-श्शै॑शि॒रा-स्सं॑वँथ्स॒राय॑ । 19) सं॒वँ॒थ्स॒राय॒ निव॑क्षसो॒ निव॑क्षस-स्संवँथ्स॒राय॑ संवँथ्स॒राय॒ निव॑क्षसः । 19) सं॒वँ॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ । 20) निव॑क्षस॒ इति॒ नि - व॒क्ष॒सः॒ । ॥ 54 ॥ (20, 23)
॥ अ. 23 ॥
Browse Related Categories: