Ganesha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ अस्य श्रीमहागणपति मंत्रविग्रह कवचस्य । श्रीशिव ऋषिः । देवीगायत्री छंदः । श्री महागणपतिर्देवता । ॐ श्रीं ह्रीं क्लीं ग्लौं गं बीजानि । गणपतये वरवरदेति शक्तिः । सर्वजनं मे वशमानय स्वाहा कीलकम् । श्री महागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः । ॐ श्रीं ह्रीं क्लीं – अंगुष्ठाभ्यां नमः । ग्लौं गं गणपतये – तर्जनीभ्यां नमः । वरवरद – मध्यमाभ्यां नमः । सर्वजनं मे – अनामिकाभ्यां नमः । वशमानय – कनिष्ठिकाभ्यां नमः । स्वाहा – करतल करपृष्ठाभ्यां नमः ।
न्यासः । ॐ श्रीं ह्रीं क्लीं – हृदयाय नमः । ग्लौं गं गणपतये – शिरसे स्वाहा । वरवरद – शिखायै वषट् । सर्वजनं मे – कवचाय हुम् । वशमानय – नेत्रत्रयाय वौषट् । स्वाहा – अस्त्राय फट् ।
ध्यानम् – बीजापूरगदेक्षुकार्मुक ऋजा चक्राब्जपाशोत्पल व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्करांभोरुहः । ध्येयो वल्लभया सपद्मकरया श्लिष्टोज्वलद्भूषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ।
इति ध्यात्वा । लं इत्यादि मानसोपचारैः संपूज्य कवचं पठेत् ।
ॐकारो मे शिरः पातु श्रींकारः पातु फालकम् । ह्रीं बीजं मे ललाटेऽव्यात् क्लीं बीजं भ्रूयुगं मम ॥ 1 ॥
ग्लौं बीजं नेत्रयोः पातु गं बीजं पातु नासिकाम् । गं बीजं मुखपद्मेऽव्याद्महासिद्धिफलप्रदम् ॥ 2 ॥
णकारो दंतयोः पातु पकारो लंबिकां मम । तकारः पातु मे ताल्वोर्येकार ओष्ठयोर्मम ॥ 3 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
वकारः कंठदेशेऽव्याद्रकारश्चोपकंठके । द्वितीयस्तु वकारो मे हृदयं पातु सर्वदा ॥ 4 ॥
रकारस्तु द्वितीयो वै उभौ पार्श्वौ सदा मम । दकार उदरे पातु सकारो नाभिमंडले ॥ 5 ॥
र्वकारः पातु मे लिंगं जकारः पातु गुह्यके । नकारः पातु मे जंघे मेकारो जानुनोर्द्वयोः ॥ 6 ॥
वकारः पातु मे गुल्फौ शकारः पादयोर्द्वयोः । माकारस्तु सदा पातु दक्षपादांगुलीषु च ॥ 7 ॥
नकारस्तु सदा पातु वामपादांगुलीषु च । यकारो मे सदा पातु दक्षपादतले तथा ॥ 8 ॥
स्वाकारो ब्रह्मरूपाख्यो वामपादतले तथा । हाकारः सर्वदा पातु सर्वांगे गणपः प्रभुः ॥ 9 ॥
पूर्वे मां पातु श्रीरुद्रः श्रीं ह्रीं क्लीं फट् कलाधरः । आग्नेय्यां मे सदा पातु ह्रीं श्रीं क्लीं लोकमोहनः ॥ 10 ॥
दक्षिणे श्रीयमः पातु क्रीं ह्रं ऐं ह्रीं ह्स्रौं नमः । नैरृत्ये निरृतिः पातु आं ह्रीं क्रों क्रों नमो नमः ॥ 11 ॥
पश्चिमे वरुणः पातु श्रीं ह्रीं क्लीं फट् ह्स्रौं नमः । वायुर्मे पातु वायव्ये ह्रूं ह्रीं श्रीं ह्स्फ्रें नमो नमः ॥ 12 ॥
उत्तरे धनदः पातु श्रीं ह्रीं श्रीं ह्रीं धनेश्वरः । ईशान्ये पातु मां देवो ह्रौं ह्रीं जूं सः सदाशिवः ॥ 13 ॥
प्रपन्नपारिजाताय स्वाहा मां पातु ईश्वरः । ऊर्ध्वं मे सर्वदा पातु गं ग्लौं क्लीं ह्स्रौं नमो नमः ॥ 14 ॥
अनंताय नमः स्वाहा अधस्ताद्दिशि रक्षतु । पूर्वे मां गणपः पातु दक्षिणे क्षेत्रपालकः ॥ 15 ॥
पश्चिमे पातु मां दुर्गा ऐं ह्रीं क्लीं चंडिका शिवा । उत्तरे वटुकः पातु ह्रीं वं वं वटुकः शिवः ॥ 16 ॥
स्वाहा सर्वार्थसिद्धेश्च दायको विश्वनायकः । पुनः पूर्वे च मां पातु श्रीमानसितभैरवः ॥ 17 ॥
आग्नेय्यां पातु नो ह्रीं ह्रीं ह्रुं क्रों क्रों रुरुभैरवः । दक्षिणे पातु मां क्रौं क्रों ह्रैं ह्रैं मे चंडभैरवः ॥ 18 ॥
नैरृत्ये पातु मां ह्रीं ह्रूं ह्रौं ह्रौं ह्रीं ह्स्रैं नमो नमः । स्वाहा मे सर्वभूतात्मा पातु मां क्रोधभैरवः ॥ 19 ॥
पश्चिमे ईश्वरः पातु क्रीं क्लीं उन्मत्तभैरवः । वायव्ये पातु मां ह्रीं क्लीं कपाली कमलेक्षणः ॥ 20 ॥
उत्तरे पातु मां देवो ह्रीं ह्रीं भीषणभैरवः । ईशान्ये पातु मां देवः क्लीं ह्रीं संहारभैरवः ॥ 21 ॥
ऊर्ध्वं मे पातु देवेशः श्रीसम्मोहनभैरवः । अधस्ताद्वटुकः पातु सर्वतः कालभैरवः ॥ 22 ॥
इतीदं कवचं दिव्यं ब्रह्मविद्याकलेवरम् । गोपनीयं प्रयत्नेन यदीच्छेदात्मनः सुखम् ॥ 23 ॥
जननीजारवद्गोप्या विद्यैषेत्यागमा जगुः । अष्टम्यां च चतुर्दश्यां संक्रांतौ ग्रहणेष्वपि ॥ 24 ॥
भौमेऽवश्यं पठेद्धीरो मोहयत्यखिलं जगत् । एकावृत्या भवेद्विद्या द्विरावृत्या धनं लभेत् ॥ 25 ॥
त्रिरावृत्या राजवश्यं तुर्यावृत्याऽखिलाः प्रजाः । पंचावृत्या ग्रामवश्यं षडावृत्या च मंत्रिणः ॥ 26 ॥
सप्तावृत्या सभावश्या अष्टावृत्या भुवः श्रियम् । नवावृत्या च नारीणां सर्वाकर्षणकारकम् ॥ 27 ॥
दशावृत्तीः पठेन्नित्यं षण्मासाभ्यासयोगतः । देवता वशमायाति किं पुनर्मानवा भुवि ॥ 28 ॥
कवचस्य च दिव्यस्य सहस्रावर्तनान्नरः । देवतादर्शनं सद्यो नात्रकार्या विचारणा ॥ 29 ॥
अर्धरात्रे समुत्थाय चतुर्थ्यां भृगुवासरे । रक्तमालांबरधरो रक्तगंधानुलेपनः ॥ 30 ॥
सावधानेन मनसा पठेदेकोत्तरं शतम् । स्वप्ने मूर्तिमयं देवं पश्यत्येव न संशयः ॥ 31 ॥
इदं कवचमज्ञात्वा गणेशं भजते नरः । कोटिलक्षं प्रजप्त्वापि न मंत्रं सिद्धिदो भवेत् ॥ 32 ॥
पुष्पांजल्यष्टकं दत्वा मूलेनैव सकृत् पठेत् । अपिवर्षसहस्राणां पूजायाः फलमाप्नुयात् ॥ 33 ॥
भूर्जे लिखित्वा स्वर्णस्तां गुटिकां धारयेद्यदि । कंठे वा दक्षिणे बाहौ सकुर्याद्दासवज्जगत् ॥ 34 ॥
न देयं परशिष्येभ्यो देयं शिष्येभ्य एव च । अभक्तेभ्योपि पुत्रेभ्यो दत्वा नरकमाप्नुयात् ॥ 35 ॥
गणेशभक्तियुक्ताय साधवे च प्रयत्नतः । दातव्यं तेन विघ्नेशः सुप्रसन्नो भविष्यति ॥ 36 ॥
इति श्रीदेवीरहस्ये श्रीमहागणपति मंत्रविग्रहकवचं संपूर्णम् ।
Browse Related Categories: