Ganesha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ मूलमंत्रम् ॥ ॥ ॐ ह्रीं श्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ॥
॥ अथ स्तोत्रम्॥ ॐ इत्येतदजस्य कंठविवरं भित्वा बहिर्निर्गतं ह्योमित्येव समस्तकर्म ऋषिभिः प्रारभ्यते मानुषैः । ओमित्येव सदा जपंति यतयः स्वातमैकनिष्ठाः परं ह्योंकाराकृतिवक्त्रमिंदुनिटिलं विघ्नेश्वरं भवाये ॥ 1॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
श्रींबीजं श्रमदुःखजन्ममरणव्याध्याधिभीनाशकं मृत्युक्रोधनशांतिबिंदुविलसद्वर्णाकृतिश्रीप्रदम् । स्वांतःस्वात्मशरस्य लक्ष्यमजरस्वात्मावबोधप्रदं श्रीश्रीनायकसेविते भवदनप्रेमास्पदं भावये ॥ 2॥
ह्रींबीजं हृदयत्रिकोणविलसन्मध्यासनस्थं सदा चाकाशानलवामलोचननिशानाथार्धवर्णात्मकम् । मायाकार्यजगत्प्रकाशकमुमारूपं स्वशक्तिप्रदं मायातीतपदप्रदं हृदि भजे लोकेश्वराराधितम् ॥ 3॥
क्लींबीजं कलिधातुवत्कलयतां सर्वेष्टदं देहिनां धातृक्ष्मायुतशांतिबिंदुविलसद्वर्णात्मकं कामदम् । श्रीकृष्णप्रियमिंदिरासुतमनःप्रीत्येकहेतुं परं हृत्पद्मे कलये सदा कलिहरं कालारिपुत्रप्रियम् ॥ 4॥
ग्लौंबीजं गुणरूपनिर्गुणपरब्रह्मादिशक्तेर्महा- हंकाराकृतिदंडिनीप्रियमजश्रीनाथरुद्रेष्टदम् । सर्वाकर्षिणिदेवराजभुवनार्णेंद्वात्मकं श्रीकरं चित्ते विघ्ननिवारणाय गिरिजजातप्रियं भावये ॥ 5॥
गंगासुतं गंधमुखोपचारप्रियं खगारोहणभागिनेयम् । गंगासुताद्यं वरगंधतत्त्वमूलांबुजस्थं हृदि भावयेऽहम् ॥ 6॥
गणपतये वरगुणनिधये सुरगणपतये नतजनततये । मणिगणभूषितचरणयुगाश्रितमलहरणे चण ते नमः ॥ 7॥
वराभये मोदकमेकदंतं करांबुजातैः सततं धरंतम् । वरांगचंद्रं परभक्तिसांद्रैर्जनैर्भजंतं कलये सदाऽंतः ॥ 8॥
वरद नतजनानां संततं वक्रतुंड स्वरमयनिजगात्र स्वात्मबोधैकहेतो । करलसदमृतांभोपूर्णपत्राद्य मह्यं गरगलसुत शीघ्रं देहि मद्बोधमीड्यम् ॥ 9॥
सर्वजनं परिपालय शर्वज पर्वसुधाकरगर्वहर । पर्वतनाथसुतासुत पालय खर्वं मा कुरु दीनमिमम् ॥ 10 ॥
मेदोऽस्थिमांसरुधिरांत्रमये शरीरे मेदिन्यबग्निमरुदंबरलास्यमाने । मे दारुणं मदमुखाघमुमाज हृत्वा मेधाह्वयासनवरे वस दंतिवक्त्र ॥ 11॥
वशं कुरु त्वं शिवजात मां ते वशीकृताशेषसमस्तलोक । वसार्णसंशोभितमूलपद्मलसच्छ्रियाऽलिङ्तवारणास्य ॥ 12॥
आनयाशुपदवारिजांतिकं मां नयादिगुणवर्जितं तव । हानिहीनपदजामृतस्य ते पानयोग्यमिभवक्त्र मां कुरु ॥ 13॥
स्वाहास्वरूपेण विराजसे त्वं सुधाशनानां प्रियकर्मणीड्यम् । स्वधास्वरूपेण तु पित्र्यकर्मण्युमासुतेज्यामयविश्वमूर्ते ॥ 14॥
अष्टाविंशतिवर्णपत्रलसितं हारं गणेशप्रियं कष्टाऽनिष्टहरं चतुर्दशपदैः पुष्पैर्मनोहारकम् । तुष्ट्यादिप्रदसद्गुरुत्तमपदांभोजे चिदानंददं शिष्टेष्टोऽहमनंतसूत्रहृदयाऽऽबद्धं सुभक्त्याऽर्पये ॥ 15॥
॥ इति श्रीअनंतानंदकृतं श्रीगुरुचिदानंदनाथसमर्पितं श्रीमहागणपतिमूलमंत्रमालास्तोत्रम् ॥
Browse Related Categories: