Sri Mooka Pancha Shati · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
पांडित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयंते गिरां वैरिंचान्यपि गुंफनानि विगलद्गर्वाणि शर्वाणि ते । स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥1॥
तापिंछस्तबकत्विषे तनुभृतां दारिद्र्यमुद्राद्विषे संसाराख्यतमोमुषे पुररिपोर्वामांकसीमाजुषे । कंपातीरमुपेयुषे कवयतां जिह्वाकुटीं जग्मुषे विश्वत्राणपुषे नमोऽस्तु सततं तस्मै परंज्योतिषे ॥2॥
ये संध्यारुणयंति शंकरजटाकांतारचन्रार्भकं सिंदूरंति च ये पुरंदरवधूसीमंतसीमांतरे । पुण्य.ं ये परिपक्कयंति भजतां कांचीपुरे माममी पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥3॥
कामाडंबरपूरया शशिरुचा कम्रस्मितानां त्विषा कामारेरनुरागसिंधुमधिकं कल्लोलितं तन्वती । कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां कारुण्याकुलमानसा भगवती कंपातटे जृंभते ॥4॥
कामाक्षीणपराक्रमप्रकटनं संभावयंती दृशा श्यामा क्षीरसहोदरस्मितरुचिप्रक्षालिताशांतरा । कामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता कामाक्षीति विभाति कापि करुणा कंपातटिन्यास्तटे ॥5॥
श्यामा काचन चंद्रिका त्रिभुवने पुण्यात्मनामानने सीमाशून्यकवित्ववर्षजननी या कापि कादंबिनी । मारारातिमनोविमोहनविधौ काचितत्तमःकंदली कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥6॥
प्रौढध्वांतकदंबके कुमुदिनीपुण्यांकुरं दर्शयन् ज्योत्स्नासंगमनेऽपि कोकमिथुनं मिश्रं समुद्भावयन् । कालिंदीलहरीदशां प्रकटयन्कम्रां नभस्यद्भुतां कश्चिन्नेत्रमहोत्सवो विजयते कांचीपुरे शूलिनः ॥7॥
Offered for worship and study, not as prediction. Non-commercial.
तंद्राहीनतमालनीलसुषमैस्तारुण्यलीलागृहैः तारानाथकिशोरलांछितकचैस्ताम्रारविंदेक्षणैः । मातः संश्रयतां मनो मनसिजप्रागल्भ्यनाडिंधमैः कंपातीरचरैर्घनस्तनभरैः पुण्यांकरैः शांकरैः ॥8॥
नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधिं पुष्णती तेजस्संचयपाटवेन किरणानुष्णद्युतेर्मुष्णती । कांचीमध्यगतापि दीप्तिजननी विश्वांतरे जृंभते काचिच्चित्रमहो स्मृतापि तमसां निर्वापिका दीपिका ॥9॥
कांतैः केशरुचां चयैर्भ्रमरितं मंदस्मितैः पुष्पितं कांत्या पल्लवितं पदांबुरुहयोर्नेत्रत्विषा पत्रितम् । कंपातीरवनांतरं विदधती कल्याणजन्मस्थली कांचीमध्यमहामणिर्विजयते काचित्कृपाकंदली ॥10॥
राकाचंद्रसमानकांतिवदना नाकाधिराजस्तुता मूकानामपि कुर्वती सुरधनीनीकाशवाग्वैभवम् । श्रीकांचीनगरीविहाररसिका शोकापहंत्री सताम् एका पुण्यपरंपरा पशुपतेराकारिणी राजते ॥11॥
जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां लोकानां क्षणमात्रसंस्मरणतः संतापविच्छेदिनी । आश्चर्यं बहु खेलनं वितनुते नैश्चल्यमाबिभ्रती कंपायास्तटसीम्नि कापि तटिनी कारुण्यपाथोमयी ॥12॥
ऐक्यं येन विरच्यते हरतनौ दंभावपुंभावुके रेखा यत्कचसीम्नि शेखरदशां नैशाकरी गाहते । औन्नत्यं मुहुरेति येन स महान्मेनासखः सानुमान् कंपातीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥13॥
अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाह्वोश्च मूलं स्पृशन् उत्तंसेन मुखेन च प्रतिदिनं द्रुह्यन्पयोजन्मने । माधुर्येण गिरां गतेन मृदुना हंसांगनां ह्रेपयन् कांचीसीम्नि चकास्ति कोऽपि कवितासंतानबीजांकुरः ॥14॥
खंडं चांद्रमसं वतंसमनिशं कांचीपुरे खेलनं कालायश्छवितस्करीं तनुरुचिं कर्णजपे लोचने । तारुण्योष्मनखंपचं स्तनभरं जंघास्पृशं कुंतलं भाग्यं देशिकसंचितं मम कदा संपादयेदंबिके ॥15॥
तन्वानं निजकेलिसौधसरणिं नैसर्गिकीणां गिरां केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् । अंहोवंचनचुंचु किंचन भजे कांचीपुरीमंडनं पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम् ॥16॥
आलोके मुखपंकजे च दधती सौधाकरीं चातुरीं चूडालंक्रियमाणपंकजवनीवैरागमप्रक्रिया । मुग्धस्मेरमुखी घन्सतनतटीमूर्च्छालमध्यांचिता कांचीसीमनि कामिनी विजयते काचिज्जगन्मोहिनी ॥17॥
यस्मिन्नंब भवत्कटाक्षरजनी मंदेऽपि मंदस्मित- ज्योत्स्नासंस्नपिता भवत्यभिमुखी तं प्रत्यहो देहिनम् । द्रक्षामाक्षिकमाधुरीमदभरव्रीडाकरी वैखरी कामाक्षि स्वयमातनोत्यभिसृतिं वामेक्षणेव क्षणम् ॥18॥
कालिंदीजलकांतयः स्मितरुचिस्वर्वाहिनीपाथसि प्रौढध्वांतरुचः स्फुटाधरमहोलौहित्यसंध्योदये । मणिक्योपलकुंडलांशुशिखिनि व्यामिश्रधूमश्रियः कल्याणैकभुवः कटाक्षसुषमाः कामाक्षि राजंति ते ॥19॥
कलकलरणत्कांची कांचीविभूषणमालिका कचभरलसच्चंद्रा चंद्रावतंससधर्मिणी । कविकुलगिरः श्रावंश्रावं मिलत्पुलकांकुरा विरचितशिरःकंपा कंपातटे परिशोभते ॥20॥
सरसवचसां वीची नीचीभवन्मधुमाधुरी भरितभुवना कीर्तिर्मूर्तिर्मनोभवजित्वरी । जननि मनसो योग्यं भोग्यं नृणां तव जायते कथमिव विना कांचीभूषे कटाक्षतरंगितम् ॥21॥
भ्रमरितसरित्कूलो नीलोत्पलप्रभयाऽऽभया नतजनतमःखंडी तुंडीरसीम्नि विजृंभते । अचलतपसामेकः पाकः प्रसूनशरासन- प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥22॥
मधुरवचसो मंदस्मेरा मतंगजगामिनः तरुणिमजुषस्तापिच्छाभास्तमःपरिपंथिनः । कुचभरनताः कुर्युर्भद्रं कुरंगविलोचनाः कलितकरुणाः कांचीभाजः कपालिमहोत्सवाः ॥23॥
कमलसुषमाक्ष्यारोहे विचक्षणवीक्षणाः कुमुदसुकृतक्रीडाचूडालकुंतलबंधुराः । रुचिररुचिभिस्तापिच्छश्रीप्रपंचनचुंचवः पुरविजयिनः कंपातीरे स्फुरंति मनोरथाः ॥24॥
कलितरतयः कांचीलीलाविधौ कविमंडली- वचनलहरीवासंतीनां वसंतविभूतयः । कुशलविधये भूयासुर्मे कुरंगविलोचनाः कुसुमविशिखारातेरक्ष्णां कुतूहलविभ्रमाः ॥25॥
कबलिततमस्कांडास्तुंडीरमंडलमंडनाः सरसिजवनीसंतानानामरुंतुदशेखराः । नयनसरणेर्नेदीयंसः कदा नु भवंति मे तरुणजलदश्यामाः शंभोस्तपःफलविभ्रमाः ॥26॥
अचरममिषुं दीनं मीनध्वजस्य मुखश्रिया सरसिजभुवो यानं म्लानं गतेन च मंजुना । त्रिदशसदसामन्नं खिन्नं गिरा च वितन्वती तिलकयति सा कंपातीरं त्रिलोचनसुंदरी ॥27॥
जननि भुवने चंक्रम्येऽहं कियंतमनेहसं कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरंभरिः । तरुणकरुणे तंद्राशून्ये तरंगय लोचने नमति मयि ते किंचित्कांचीपुरीमणिदीपिके ॥28॥
मुनिजनमनःपेटीरत्नं स्फुरत्करुणानटी- विहरणकलागेहं कांचीपुरीमणिभूषणम् । जगति महतो मोहव्याधेर्नृणां परमौषधं पुरहरदृशां साफल्यं मे पुरः परिजृंभताम् ॥29॥
मुनिजनमोधाम्ने धाम्ने वचोमयजाह्नवी- हिमगिरितटप्राग्भारायाक्षराय परात्मने । विहरणजुषे कांचीदेशे महेश्वरलोचन- त्रितयसरसक्रीडासौधांगणाय नमो नमः ॥30॥
मरकतरुचां प्रत्यादेशं महेश्वरचक्षुषाम् अमृतलहरीपूरं पारं भवाख्यपयोनिधेः । सुचरितफलं कांचीभाजो जनस्य पचेलिमं हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ॥31॥
प्रणमनदिनारंभे कंपानदीसखि तावके सरसकवितोन्मेषः पूषा सतां समुदंचितः । प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुद्वतीं नयति तरसा निद्रामुद्रां नगेश्वरकन्यके ॥32॥
शमितजडिमारंभा कंपातटीनिकटेचरी निहतदुरितस्तोमा सोमार्धमुद्रितकुंतला । फलितसुमनोवांछा पांचायुधी परदेवता सफलयतु मे नेत्रे गोत्रेश्वरप्रियनंदिनी ॥33॥
मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया कुमुदसुषमामैत्रीपात्रीवतंसितकुंतलाम् । जगति शमितस्तंभां कंपानदीनिलयामसौ श्रियति हि गलत्तंद्रा चंद्रावतंससधर्मिणीम् ॥34॥
परिमलपरीपाकोद्रेकं पयोमुचि कांचने शिखरिणि पुनर्द्बैधीभावं शशिन्यरुणातपम् । अपि च जनयन्कंबोर्लक्ष्मीमनंबुनि कोऽप्यसौ कुसुमधनुषः कांचीदेशे चकास्ति पराक्रमः ॥35॥
पुरदमयितुर्वामोत्संगस्थलेन रसज्ञया सरसकविताभाजा कांचीपुरोदरसीमया । तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः किमिव न तुलामस्मच्चेतो महेश्वरि गाहते ॥36॥
नयनयुगलीमास्माकीनां कदा नु फलेग्रहीं विदधति गतौ व्याकुर्वाणा गजेंद्रचमत्क्रियाम् । मरतकरुचो माहेशाना घनस्तननम्रिताः सुकृतविभवाः प्रांचः कांचीवतंसधुरंधराः ॥37॥
मनसिजयशःपारंपर्यं मरंदझरीसुवां कविकुलगिरां कंदं कंपानदीतटमंडनम् । मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥38॥
शिथिलिततमोलीलां नीलारविंदविलोचनां दहनविलसत्फालां श्रीकामकोटिमुपास्महे । करधृतसच्छूलां कालारिचित्तहरां परां मनसिजकृपालीलां लोलालकामलिकेक्षणाम् ॥39॥
कलालीलाशाला कविकुलवचःकैरववनी- शरज्ज्योत्स्नाधारा शशधरशिशुश्लाघ्यमुकुटी । पुनीते नः कंपापुलिनतटसौहार्दतरला कदा चक्षुर्मार्गं कनकगिरिधानुष्कमहिषी ॥40॥
नमः स्तान्नम्रेभ्यः स्तनगरिमगर्वेण गुरुणा दधानेभ्यश्चूडाभरणममृतस्यंदि शिशिरम् । सदा वास्तवेभ्यः सुविधभुवि कंपाख्यसरिते यशोव्यापारेभ्यः सुकृतविभवेभ्यो रतिपतेः ॥41॥
असूयंती काचिन्मरकतरुचो नाकिमुकुटी- कदंबं चुंबंती चरणनखचंद्रांशुपटलैः । तमोमुद्रां विद्रावयतु मम कांचीर्निलयना हरोत्संगश्रीमन्मणिगृहमहादीपकलिका ॥42॥
अनाद्यंता काचित्सुजननयनानंदजननी निरुंधाना कांतिं निजरुचिविलासैर्जलमुचाम् । स्मरारेस्तारल्यं मनसि जनयंती स्वयमहो गलत्कंपा शंपा परिलसति कंपापरिसरे ॥43॥
सुधाडिंडीरश्रीः स्मितरुचिषु तुंडीरविषयं परिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः । स्तनाभ्यामानम्रा स्तबकयतु मे कांक्षिततरुं दृशामैशानीनां सुकृतफलपांडित्यगरिमा ॥44॥
कृपाधाराद्रोणी कृपणधिषणानां प्रणमतां निहंत्री संतापं निगममुकुटोत्तंसकलिका । परा कांचीलीलापरिचयवती पर्वतसुता गिरां नीवी देवी गिरिशपरतंत्रा विजयते ॥45॥
कवित्वश्रीकंदः सुकृतपरिपाटी हिमगिरेः विधात्री विश्वेषां विषमशरवीरध्वजपटी । सखी कंपानद्याः पदहसितपाथोजयुगली पुराणो पायान्नः पुरमथनसाम्राज्यपदवी ॥46॥
दरिद्राणा मध्ये दरदलिततापिच्छसुषमाः स्तनाभोगक्कांतास्तरुणहरिणांकांकितकचाः । हराधीना नानाविबुधमुकुटीचुंबितपदाः कदा कंपातीरे कथय विहरामो गिरिसुते ॥47॥
वरीवर्तु स्थेमा त्वयि मम गिरां देवि मनसो नरीनर्तु प्रौढा वदनकमले वाक्यलहरी । चरीचर्तु प्रज्ञाजननि जडिमानः परजने सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा ॥48॥
क्षणात्ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् । नरीनर्तु स्वैरं वचनलहरी निर्जरपुरी- सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥49॥
पुरस्तान्मे भूयःप्रशमनपरः स्तान्मम रुजां प्रचारस्ते कंपातटविहृतिसंपादिनि दृशोः । इमां याच्ञामूरीकुरु सपदि दूरीकुरु तमः- परीपाकं मत्कं सपदि बुधलोकं च नय माम् ॥50॥
उदंचंती कांचीनगरनिलये त्वत्करुणया समृद्धा वाग्धाटी परिहसितमाध्वी कवयताम् । उपादत्ते मारप्रतिभटजटाजूटमुकुटी- कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम् ॥51॥
श्रियं विद्यां दद्याज्जननि नमतां कीर्तिममितां सुपुत्रान् प्रादत्ते तव झटिति कामाक्षि करुणा । त्रिलोक्यामाधिक्यं त्रिपुरपरिपंथिप्रणयिनि प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥52॥
मनःस्तंभं स्तंभं गमयदुपकंपं प्रणमतां सदा लोलं नीलं चिकुरजितलोलंबनिकरम् । गिरां दूरं स्मेरं धृतशशिकिशोरं पशुपतेः दृशां योग्यं भोग्यं तुहिनगिरिभाग्यं विजयते ॥53॥
घनश्यामान्कामांतकमहिषि कामाक्षि मधुरान् दृशां पातानेतानमृतजलशीताननुपमान् । भवोत्पाते भीते मयि वितर नाथे दृढभव- न्मनश्शोके मूके हिमगिरिपताके करुणया ॥54॥
नतानां मंदानां भवनिगलबंधाकुलधियां महांध्यां रुंधानामभिलषितसंतानलतिकाम् । चरंतीं कंपायास्तटभुवि सवित्रीं त्रिजगतां स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम् ॥55॥
परा विद्या हृद्याश्रितमदनविद्या मरकत- प्रभानीला लीलापरवशितशूलायुधमनाः । तमःपूरं दूरं चरणनतपौरंदरपुरी- मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे ॥56॥
अहंताख्या मत्कं कबलयति हा हंत हरिणी हठात्संविद्रूपं हरमहिषि सस्यांकुरमसौ । कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलैः इमामुच्चैरुच्चाटय झटिति कामाक्षि कृपया ॥57॥
बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ कटाक्षः कामाक्षि प्रकटजडिमक्षोदपटिमा । कथंकारं नास्मै करमुकुलचूडालमुकुटा नमोवाकं ब्रूयुर्नमुचिपरिपंथिप्रभृतयः ॥58॥
प्रतीचीं पश्यामः प्रकटरुचिनीवारकमणि- प्रभासध्रीचीनां प्रदलितषडाधारकमलाम् । चरंतीं सौषुम्ने पथि परपदेंदुप्रविगल- त्सुधार्द्रां कामाक्षीं परिणतपरंज्योतिरुदयाम् ॥59॥
जंभारातिप्रभृतिमुकुटीः पादयोः पीठयंती गुंफान्वाचां कविजनकृतान्स्वैरमारामयंती । शंपालक्ष्मीं मणिगणरुचापाटलैः प्रापयंती कंपातीरे कविपरिषदां जृंभते भाग्यसीमा ॥60॥
चंद्रापीडां चतुरवदनां चंचलापांगलीलां कुंदस्मेरां कुचभरनतां कुंतलोद्धूतभृंगाम् । मारारातेर्मदनशिखिनं मांसलं दीपयंतीं कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे ॥61॥
कालांभोदप्रकरसुषमां कांतिभिस्तिर्जयंती कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम् । कंदर्पारेः प्रियसहचरी कल्मषाणां निहंत्री कांचीदेशं तिलकयति सा कापि कारुण्यसीमा ॥62॥
ऊरीकुर्वन्नुरसिजतटे चातुरीं भूधराणां पाथोजानां नयनयुगले परिपंथ्यं वितन्वन् । कंपातीरे विहरति रुचा मोघयन्मेघशैलीं कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥63॥
कांचीलीलापरिचयवती कापि तापिच्छलक्ष्मीः जाड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः । माकंदश्रीर्मधुरकविताचातुरी कोकिलानां मार्गे भूयान्मम नयनयोर्मान्मथी कापि विद्या ॥64॥
सेतुर्मातर्मरतकमयो भक्तिभाजां भवाब्धौ लीलालोला कुवलयमयी मान्मथी वैजयंती । कांचीभूषा पशुपतिदृशां कापि कालांजनाली मत्कं दुःखं शिथिलयतु ते मंजुलापांगमाला ॥65॥
व्यावृण्वानाः कुवलयदलप्रक्रियावैरमुद्रां व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् । कांचीलीलाविहृतिरसिके कांक्षितं नः क्रियासुः बंधच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥66॥
कालांभोदे शशिरुचि दलं कैतकं दर्शयंती मध्येसौदामिनि मधुलिहां मालिकां राजयंती । हंसारावं विकचकमले मंजुमुल्लासयंती कंपातीरे विलसति नवा कापि कारुण्यलक्ष्मीः ॥67॥
चित्रं चित्रं निजमृदुतया भर्त्सयन्पल्लवालीं पुंसां कामान्भुवि च नियतं पूरयन्पुण्यभाजाम् । जातः शैलान्न तु जलनिधेः स्वैरसंचारशीलः कांचीभूषा कलयतु शिवं कोऽपि चिंतामणिर्मे ॥68॥
ताम्रांभोजं जलदनिकटे तत्र बंधूकपुष्पं तस्मिन्मल्लीकुसुमसुषमां तत्र वीणानिनादम् । व्यावृन्वाना सुकृतलहरी कापि कांचिनगर्याम् ऐशानी सा कलयतितरामैंद्रजालं विलासम् ॥69॥
आहारांशं त्रिदशसदसामाश्रये चातकानाम् आकाशोपर्यपि च कलयन्नालयं तुंगमेषाम् । कंपातीरे विहरतितरां कामधेनुः कवीनां मंदस्मेरो मदननिगमप्रक्रियासंप्रदायः ॥70॥
आर्द्रीभूतैरविरलकृपैरात्तलीलाविलासैः आस्थापूर्णैरधिकचपलैरंचितांभोजशिल्पैः । कांतैर्लक्ष्मीललितभवनैः कांतिकैवल्यसारैः काश्मल्यं नः कबलयतु सा कामकोटी कटाक्षैः ॥71॥
आधून्वंत्यै तरलनयनैरांगजीं वैजयंतीम् आनंदिन्यै निजपदजुषामात्तकांचीपुरायै । आस्माकीनं हृदयमखिलैरागमानां प्रपंचैः आराध्यायै स्पृहयतितरामदिमायै जनन्यै ॥72॥
दूरं वाचां त्रिदशसदसां दुःखसिंधोस्तरित्रं मोहक्ष्वेलक्षितिरुहवने क्रूरधारं कुठारम् । कंपातीरप्रणयि कविभिर्वर्णितोद्यच्चरित्रं शांत्यै सेवे सकलविपदां शांकरं तत्कलत्रम् ॥73॥
खंडीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री- शुंडीरत्वं निजपदजुषां शून्यतंद्रं दिशंती । तुंडीराख्यै महति विषये स्वर्णवृष्टिप्रदात्री चंडी देवी कलयति रतिं चंद्रचूडालचूडे ॥74॥
येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा यद्दृक्कोणे मदननिगमप्राभवं बोभवीति । यत्प्रीत्यैव त्रिजगदधिपो जृंभते किंपचानः कंपातीरे स जयति महान्कश्चिदोजोविशेषः ॥75॥
धन्या धन्या गतिरिह गिरां देवि कामाक्षि यन्मे निंद्यां भिंद्यात्सपदि जडतां कल्मषादुन्मिषंतीम् । साध्वी माध्वीरसमधुरताभंजिनी मंजुरीतिः वाणीवेणी झटिति वृणुतात्स्वर्धुनीस्पर्धिनी माम् ॥76॥
यस्या वाटी हृदयकमलं कौसुमी योगभाजां यस्याः पीठी सततशिशिरा शीकरैर्माकरंदैः । यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य कांची सा मे सोमाभरणमहिषी साधयेत्कांक्षितानि ॥77॥
एका माता सकलजगतामीयुषी ध्यानमुद्राम् एकाम्राधीश्वरचरणयोरेकतानां समिंधे । ताटंकोद्यन्मणिगणरुचा ताम्रकर्णप्रदेशा तारुण्यश्रीस्तबकिततनुस्तापसी कापि बाला ॥78॥
दंतादंतिप्रकटनकरी दंतिभिर्मंदयानैः मंदाराणां मदपरिणतिं मथ्नती मंदहासैः । अंकूराभ्यां मनसिजतरोरंकितोराः कुचाभ्या- मंतःकांचि स्फुरति जगतामादिमा कापि माता ॥79॥
त्रियंबककुटुंबिनीं त्रिपुरसुंदरीमिंदिरां पुलिंदपतिसुंदरीं त्रिपुरभैरवीं भारतीम् । मतंगकुलनायिकां महिषमर्दनीं मातृकां भणंति विबुधोत्तमा विहृतिमेव कामाक्षि ते ॥80॥
महामुनिमनोनटी महितरम्यकंपातटी- कुटीरकविहारिणी कुटिलबोधसंहारिणी । सदा भवतु कामिनी सकलदेहिनां स्वामिनी कृपातिशयकिंकरी मम विभूतये शांकरी ॥81॥
जडाः प्रकृतिनिर्धना जनविलोचनारुंतुदा नरा जननि वीक्षणं क्षणमवाप्य कामाक्षि ते । वचस्सु मधुमाधुरीं प्रकटयंति पौरंदरी- विभूतिषु विडंबनां वपुषि मान्मथीं प्रक्रियाम् ॥82॥
घन्सतनतटस्फुटस्फुरितकंचुलीचंचली- कृतत्रिपुरशासना सुजनशीलितोपासना । दृशोः सरणिमश्नुते मम कदा नु कांचीपुरे परा परमयोगिनां मनसि चित्कुला पुष्कला ॥83॥
कवींद्रहृदयेचरी परिगृहीतकांचीपुरी निरूढकरुणाझरी निखिललोकरक्षाकरी । मनःपथदवीयसी मदनशासनप्रेयसी महागुणगरीयसी मम दृशोऽस्तु नेदीयसी ॥84॥
धनेन न रमामहे खलजनान्न सेवामहे न चापलमयामहे भवभयान्न दूयामहे । स्थिरां तनुमहेतरां मनसि किं च कांचीरत- स्मरांतककुटुंबिनीचरणपल्लवोपासनाम् ॥85॥
सुराः परिजना वपुर्मनसिजाय वैरायते त्रिविष्टपनितंबिनीकुचतटी च केलीगिरिः । गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥86॥
पवित्रय जगत्त्रयीविबुधबोधजीवातुभिः पुरत्रयविमर्दिनः पुलककंचुलीदायिभिः । भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणैः निरक्षरशिरोमणिं करुणयैव कामाक्षि माम् ॥87॥
कदा कलितखेलनाः करुणयैव कांचीपुरे कलायमुकुलत्विषः शुभकदंबपूर्णांकुराः । पयोधरभरालसाः कविजनेषु ते बंधुराः पचेलिमकृपारसा परिपतंति मार्गे दृशोः ॥88॥
अशोध्यमचलोद्भवं हृदयनंदनं देहिनाम् अनर्घमधिकांचि तत्किमपि रत्नमुद्द्योतते । अनेन समलंकृता जयति शंकरांकस्थली कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥89॥
परामृतझरीप्लुता जयति नित्यमंतश्चरी भुवामपि बहिश्चरी परमसंविदेकात्मिका । महद्भिरपरोक्षिता सततमेव कांचीपुरे ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ॥90॥
तमोविपिनधाविनं सततमेव कांचीपुरे विहाररसिका परा परमसंविदुर्वीरुहे । कटाक्षनिगलैर्दृढं हृदयदुष्टदंतावलं चिरं नयतु मामकं त्रिपुरवैरिसीमंतिनी ॥91॥
त्वमेव सति चंडिका त्वमसि देवि चामुंडिका त्वमेव परमातृका त्वमपि योगिनीरूपिणी । त्वमेव किल शांभवी त्वमसि कामकोटी जया त्वमेव विजया त्वयि त्रिजगदंब किं ब्रूमहे ॥92॥
परे जननि पार्वति प्रणतपालिनि प्रातिभ- प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वते । त्रियंबककुटुंबिनि त्रिपदसंगिनि त्रीक्षणे त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥93॥
मनोमधुकरोत्सवं विदधती मनीषाजुषां स्वयंप्रभववैखरीविपिनवीथिकालंबिनी । अहो शिशिरिता कृपामधुरसेन कंपातटे चराचरविधायिनी चलति कापि चिन्मंजरी ॥94॥
कलावति कलाभृतो मुकुटसीम्नि लीलावति स्पृहावति महेश्वरे भुवनमोहने भास्वति । प्रभावति रमे सदा महितरूपशोभावति त्वरावति परे सतां गुरुकृपांबुधारावति ॥95॥
त्वयैव जगदंबया भुवनमंडलं सूयते त्वयैव करुणार्द्रया तदपि रक्षणं नीयते । त्वयैव खरकोपया नयनपावके हूयते त्वयैव किल नित्यया जगति संततं स्थीयते ॥96॥
चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं गुणत्रयमयीं जगत्त्रयमयीं त्रिधामामयीम् । परापरमयीं सदा दशदिशां निशाहर्मयीं परां सततसन्मयीं मनसि चिन्मयीं शीलये ॥97॥
जय जगदंबिके हरकुटुंबिनि वक्त्ररुचा जितशरदंबुजे घनविडंबिनि केशरुचा । परमवलंबनं कुरु सदा पररूपधरे मम गतसंविदो जडिमडंबरतांडविनः ॥98॥
भुवनजननि भूषाभूतचंद्रे नमस्ते कलुषशमनि कंपातीरगेहे नमस्ते । निखिलनिगमवेद्ये नित्यरूपे नमस्ते परशिवमयि पाशच्छेदहस्ते नमस्ते ॥99॥
क्वणत्कांची कांचीपुरमणिविपंचीलयझरी- शिरःकंपा कंपावसतिरनुकंपाजलनिधिः । घनश्यामा श्यामा कठिनकुचसीमा मनसि मे मृगाक्षी कामाक्षी हरनटनसाक्षी विहरतात् ॥100॥
समरविजयकोटी साधकानंदधाटी मृदुगुणपरिपेटी मुख्यकादंबवाटी । मुनिनुतपरिपाटी मोहिताजांडकोटी परमशिववधूटी पातु मां कामकोटी ॥101॥
इमं परवरप्रदं प्रकृतिपेशलं पावनं परापरचिदाकृतिप्रकटनप्रदीपायितम् । स्तवं पठति नित्यदा मनसि भावयन्नंबिकां जपैरलमलं मखैरधिकदेहसंशोषणैः ॥102॥
॥ इति स्तुतिशतकं संपूर्णम् ॥
Browse Related Categories: