Samskritam Songs · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
मृदपि च चंदनमस्मिन् देशे ग्रामो ग्रामः सिद्धवनम् । यत्र च बाला देवीस्वरूपा बालाः सर्वे श्रीरामाः ॥
हरिमंदिरमिदमखिलशरीरं धनशक्ती जनसेवायै यत्र च क्रीडायै वनराजः धेनुर्माता परमशिवा नित्यं प्रातः शिवगुणगानं दीपनुतिः खलु शत्रुपरा ॥ 1 ॥
भाग्यविधायि निजार्जितकर्म यत्र श्रमः श्रियमर्जयति त्यागधनानां तपोनिधीनां गाथां गायति कविवाणी गंगाजलमिव नित्यनिर्मलं ज्ञानं शंसति यतिवाणी ॥ 2 ॥
यत्र हि नैव स्वदेहविमोहः युद्धरतानां वीराणां यत्र हि कृषकः कार्यरतः सन् पश्यति जीवनसाफल्यं जीवनलक्ष्यं न हि धनपदवी यत्र च परशिवपदसेवा ॥ 3 ॥
रचन: श्री जनार्दन हेग्डे
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts