Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् । अभिवांछितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥1॥
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् । धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥2॥
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः । मा मा करुणासिंधो परित्यजेत्यतिचिरं विलेपुस्ताः ॥3॥
तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् । ताभिस्समं प्रवृत्तो यमुनापुलिनेषु काममभिरंतुम् ॥4॥
चंद्रकरस्यंदलसत्सुंदरयमुनातटांतवीथीषु । गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥5॥
सुमधुरनर्मालपनैः करसंग्रहणैश्च चुंबनोल्लासैः । गाढालिंगनसंगैस्त्वमंगनालोकमाकुलीचकृषे ॥6॥
वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् । तदपि विभो रसविवशस्वांतानां कांत सुभ्रुवामदधाः ॥7॥
कंदलितघर्मलेशं कुंदमृदुस्मेरवक्त्रपाथोजम् । नंदसुत त्वां त्रिजगत्सुंदरमुपगूह्य नंदिता बालाः ॥8॥
विरहेष्वंगारमयः शृंगारमयश्च संगमे हि त्वम् नितरामंगारमयस्तत्र पुनस्संगमेऽपि चित्रमिदम् ॥9॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
राधातुंगपयोधरसाधुपरीरंभलोलुपात्मानम् । आराधये भवंतं पवनपुराधीश शमय सकलगदान् ॥10॥
Browse Related Categories: