Samskritam Songs · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
पठत संस्कृतम्, वदत संस्कृतं लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥
ज्ञानवैभवं वेदवाङ्मयं लसति यत्र भवभयापहारि मुनिभिरार्जितम् । कीर्तिरार्जिता यस्य प्रणयनात् व्यास-भास-कालिदास-बाण-मुख्यकविभिः ॥ 1॥
स्थानमूर्जितं यस्य मन्वते वाग्विचिंतका हि वाक्षु यस्य वीक्ष्य मधुरताम् । यद्विना जना नैव जानते भारतीयसंस्कृतिं सनातनाभिधां वराम् ॥ 2॥
जयतु संस्कृतम्, संस्कृतिस्तथा संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम् । जयतु संस्कृतम्, जयतु मनुकुलं जयतु जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ॥ 3॥
रचन: मंजुनाथशर्मा
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts