Samskritam Songs · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ग्रामे नगरे समस्तराष्ट्रे रचयेम संस्कृतभवनं इष्टिकां विना मृत्तिकां विना केवलसंभाषणविधया संस्कृतसंभाषणकलया ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
शिशुबालानां स्मितमृदुवचने युवयुवतीनां मंजुभाषणे वृद्धगुरूणां वत्सलहृदये रचयेम संस्कृतभवनम् ॥ 1 ॥
अरुणोदयतः सुप्रभातं शुभरात्रिं निशि संवदेम दिवानिशं संस्कृतवचनेन रचयेम संस्कृतभवनम् ॥ 2 ॥
सोदर-सोदरी-भाव-बंधुरं मातृप्रेमतो बहुजनरुचिरं वचनललितं श्रवणमधुरं रचयेम संस्कृतभवनम् ॥ 3 ॥
मूलशिला संभाषणमस्य हिंदुजनैक्यं शिखरमुन्नतं सोपानं श्रवणादिविधानं रचयेम संस्कृतभवनम् ॥ 4 ॥
रचन: गु. गणपय्यहोल्लः
Browse Related Categories: