Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
स्कंद उवाच
ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत्
ब्रह्मोवाच । वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् ॥
अस्य श्री अंगारक स्तोत्र महामंत्रस्य गौतम ऋषिः, अनुष्टुप् छंदः, अंगारको देवता मम ऋण विमोचनार्थे जपे विनियोगः ।
ध्यानम् – धरणी गर्भ संभूतं विद्युत्कांति समप्रभम् । कुमारं शक्तिहस्तं तं कुजं प्रणमाम्यहम् ॥ 1 ॥
रक्तमाल्यांबरधरः शूलशक्तिगदाधरः । चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ 2 ॥
अथ स्तोत्रम् – मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः । स्थिरासनो महाकायः सर्वकर्मावबोधकः ॥ 3 ॥
लोहितो लोहितांगश्च सामगायी कृपाकरः । धर्मराजः कुजो भौमो भूमिजो भूमिनंदनः ॥ 4 ॥
अंगारको यमश्चैव सर्वरोगापहारकः । सृष्टिकर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ 5 ॥
भूतिदो ग्रहपूज्यश्च वक्त्रो रक्तवपुः प्रभुः । एतानि कुजनामानि यो नित्यं प्रयतः पठेत् । ऋणं न जायते तस्य धनं प्राप्नोत्यसंशयम् ॥ 6 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
रक्तपुष्पैश्च गंधैश्च दीपधूपादिभिस्तथा । मंगलं पूजयित्वा तु मंगलेऽहनि सर्वदा ॥ 7 ॥
ऋणरेखाः प्रकर्तव्याः दग्धांगारैस्तदग्रतः । सप्तविंशतिनामानि पठित्वा तु तदंतिके ॥ 8 ॥
ताश्च प्रमार्जयेत्पश्चाद्वामपादेन संस्पृशन् । एवं कृत्वा न संदेहो ऋणहीनो धनी भवेत् ॥ 9 ॥
भूमिजस्य प्रसादेन ग्रहपीडा विनश्यति । येनार्जिता जगत्कीर्तिर्भूमिपुत्रेण शाश्वती ॥ 10 ॥
शत्रवश्च हता येन भौमेन महितात्मना । स प्रीयतां तु भौमोऽद्य तुष्टो भूयात् सदा मम ॥ 11 ॥
मूलमंत्रः – अंगारक महीपुत्र भगवन् भक्तवत्सल । नमोऽस्तु ते ममाशेष ऋणमाशु विमोचय ॥ 12 ॥
अर्घ्यम् – भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः । ऋणार्तस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥ 13 ॥
इति ऋण विमोचन अंगारक स्तोत्रम् ॥
Browse Related Categories: