Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ वाचे नमः । ॐ वाण्यै नमः । ॐ वरदायै नमः । ॐ वंद्यायै नमः । ॐ वरारोहायै नमः । ॐ वरप्रदायै नमः । ॐ वृत्त्यै नमः । ॐ वागीश्वर्यै नमः । ॐ वार्तायै नमः । ॐ वरायै नमः । ॐ वागीशवल्लभायै नमः । ॐ विश्वेश्वर्यै नमः । ॐ विश्ववंद्यायै नमः । ॐ विश्वेशप्रियकारिण्यै नमः । ॐ वाग्वादिन्यै नमः । ॐ वाग्देव्यै नमः । ॐ वृद्धिदायै नमः । ॐ वृद्धिकारिण्यै नमः । ॐ वृद्ध्यै नमः । ॐ वृद्धायै नमः । 20
ॐ विषघ्न्यै नमः । ॐ वृष्ट्यै नमः । ॐ वृष्टिप्रदायिन्यै नमः । ॐ विश्वाराध्यायै नमः । ॐ विश्वमात्रे नमः । ॐ विश्वधात्र्यै नमः । ॐ विनायकायै नमः । ॐ विश्वशक्त्यै नमः । ॐ विश्वसारायै नमः । ॐ विश्वायै नमः । ॐ विश्वविभावर्यै नमः । ॐ वेदांतवेदिन्यै नमः । ॐ वेद्यायै नमः । ॐ वित्तायै नमः । ॐ वेदत्रयात्मिकायै नमः । ॐ वेदज्ञायै नमः । ॐ वेदजनन्यै नमः । ॐ विश्वायै नमः । ॐ विश्वविभावर्यै नमः । ॐ वरेण्यायै नमः । 40
ॐ वाङ्मय्यै नमः । ॐ वृद्धायै नमः । ॐ विशिष्टप्रियकारिण्यै नमः । ॐ विश्वतोवदनायै नमः । ॐ व्याप्तायै नमः । ॐ व्यापिन्यै नमः । ॐ व्यापकात्मिकायै नमः । ॐ व्यालघ्न्यै नमः । ॐ व्यालभूषांग्यै नमः । ॐ विरजायै नमः । ॐ वेदनायिकायै नमः । ॐ वेदवेदांतसंवेद्यायै नमः । ॐ वेदांतज्ञानरूपिण्यै नमः । ॐ विभावर्यै नमः । ॐ विक्रांतायै नमः । ॐ विश्वामित्रायै नमः । ॐ विधिप्रियायै नमः । ॐ वरिष्ठायै नमः । ॐ विप्रकृष्टायै नमः । ॐ विप्रवर्यप्रपूजितायै नमः । 60
ॐ वेदरूपायै नमः । ॐ वेदमय्यै नमः । ॐ वेदमूर्त्यै नमः । ॐ वल्लभायै नमः । ॐ गौर्यै नमः । ॐ गुणवत्यै नमः । ॐ गोप्यायै नमः । ॐ गंधर्वनगरप्रियायै नमः । ॐ गुणमात्रे नमः । ॐ गुणांतस्थायै नमः । ॐ गुरुरूपायै नमः । ॐ गुरुप्रियायै नमः । ॐ गुरुविद्यायै नमः । ॐ गानतुष्टायै नमः । ॐ गायकप्रियकारिण्यै नमः । ॐ गायत्र्यै नमः । ॐ गिरीशाराध्यायै नमः । ॐ गिरे नमः । ॐ गिरीशप्रियंकर्यै नमः । ॐ गिरिज्ञायै नमः । 80
ॐ ज्ञानविद्यायै नमः । ॐ गिरिरूपायै नमः । ॐ गिरीश्वर्यै नमः । ॐ गीर्मात्रे नमः । ॐ गणसंस्तुत्यायै नमः । ॐ गणनीयगुणान्वितायै नमः । ॐ गूढरूपायै नमः । ॐ गुहायै नमः । ॐ गोप्यायै नमः । ॐ गोरूपायै नमः । ॐ गवे नमः । ॐ गुणात्मिकायै नमः । ॐ गुर्व्यै नमः । ॐ गुर्वंबिकायै नमः । ॐ गुह्यायै नमः । ॐ गेयजायै नमः । ॐ गृहनाशिन्यै नमः । ॐ गृहिण्यै नमः । ॐ गृहदोषघ्न्यै नमः । ॐ गवघ्न्यै नमः । 100
Offered for worship and study, not as prediction. Non-commercial.
ॐ गुरुवत्सलायै नमः । ॐ गृहात्मिकायै नमः । ॐ गृहाराध्यायै नमः । ॐ गृहबाधाविनाशिन्यै नमः । ॐ गंगायै नमः । ॐ गिरिसुतायै नमः । ॐ गम्यायै नमः । ॐ गजयानायै नमः । ॐ गुहस्तुतायै नमः । ॐ गरुडासनसंसेव्यायै नमः । ॐ गोमत्यै नमः । ॐ गुणशालिन्यै नमः । ॐ शारदायै नमः । ॐ शाश्वत्यै नमः । ॐ शैव्यै नमः । ॐ शांकर्यै नमः । ॐ शंकरात्मिकायै नमः । ॐ श्रियै नमः । ॐ शर्वाण्यै नमः । ॐ शतघ्न्यै नमः । 120
ॐ शरच्चंद्रनिभाननायै नमः । ॐ शर्मिष्ठायै नमः । ॐ शमनघ्न्यै नमः । ॐ शतसाहस्ररूपिण्यै नमः । ॐ शिवायै नमः । ॐ शंभुप्रियायै नमः । ॐ श्रद्धायै नमः । ॐ श्रुतिरूपायै नमः । ॐ श्रुतिप्रियायै नमः । ॐ शुचिष्मत्यै नमः । ॐ शर्मकर्यै नमः । ॐ शुद्धिदायै नमः । ॐ शुद्धिरूपिण्यै नमः । ॐ शिवायै नमः । ॐ शिवंकर्यै नमः । ॐ शुद्धायै नमः । ॐ शिवाराध्यायै नमः । ॐ शिवात्मिकायै नमः । ॐ श्रीमत्यै नमः । ॐ श्रीमय्यै नमः । 140
ॐ श्राव्यायै नमः । ॐ श्रुत्यै नमः । ॐ श्रवणगोचरायै नमः । ॐ शांत्यै नमः । ॐ शांतिकर्यै नमः । ॐ शांतायै नमः । ॐ शांताचारप्रियंकर्यै नमः । ॐ शीललभ्यायै नमः । ॐ शीलवत्यै नमः । ॐ श्रीमात्रे नमः । ॐ शुभकारिण्यै नमः । ॐ शुभवाण्यै नमः । ॐ शुद्धविद्यायै नमः । ॐ शुद्धचित्तप्रपूजितायै नमः । ॐ श्रीकर्यै नमः । ॐ श्रुतपापघ्न्यै नमः । ॐ शुभाक्ष्यै नमः । ॐ शुचिवल्लभायै नमः । ॐ शिवेतरघ्न्यै नमः । ॐ शबर्यै नमः । 160 [शर्वर्यै]
ॐ श्रवणीयगुणान्वितायै नमः । ॐ शार्यै नमः । ॐ शिरीषपुष्पाभायै नमः । ॐ शमनिष्ठायै नमः । ॐ शमात्मिकायै नमः । ॐ शमान्वितायै नमः । ॐ शमाराध्यायै नमः । ॐ शितिकंठप्रपूजितायै नमः । ॐ शुद्ध्यै नमः । ॐ शुद्धिकर्यै नमः । ॐ श्रेष्ठायै नमः । ॐ श्रुतानंतायै नमः । ॐ शुभावहायै नमः । ॐ सरस्वत्यै नमः । ॐ सर्वज्ञायै नमः । ॐ सर्वसिद्धिप्रदायिन्यै नमः । ॐ सरस्वत्यै नमः । ॐ सावित्र्यै नमः । ॐ संध्यायै नमः । ॐ सर्वेप्सितप्रदायै नमः । 180
ॐ सर्वार्तिघ्न्यै नमः । ॐ सर्वमय्यै नमः । ॐ सर्वविद्याप्रदायिन्यै नमः । ॐ सर्वेश्वर्यै नमः । ॐ सर्वपुण्यायै नमः । ॐ सर्गस्थित्यंतकारिण्यै नमः । ॐ सर्वाराध्यायै नमः । ॐ सर्वमात्रे नमः । ॐ सर्वदेवनिषेवितायै नमः । ॐ सर्वैश्वर्यप्रदायै नमः । ॐ सत्यायै नमः । ॐ सत्यै नमः । ॐ सत्वगुणाश्रयायै नमः । ॐ सर्वक्रमपदाकारायै नमः । ॐ सर्वदोषनिषूदिन्यै नमः । ॐ सहस्राक्ष्यै नमः । ॐ सहस्रास्यायै नमः । ॐ सहस्रपदसंयुतायै नमः । ॐ सहस्रहस्तायै नमः । ॐ सहस्रगुणालंकृतविग्रहायै नमः । 200
ॐ सहस्रशीर्षायै नमः । ॐ सद्रूपायै नमः । ॐ स्वधायै नमः । ॐ स्वाहायै नमः । ॐ सुधामय्यै नमः । ॐ षड्ग्रंथिभेदिन्यै नमः । ॐ सेव्यायै नमः । ॐ सर्वलोकैकपूजितायै नमः । ॐ स्तुत्यायै नमः । ॐ स्तुतिमय्यै नमः । ॐ साध्यायै नमः । ॐ सवितृप्रियकारिण्यै नमः । ॐ संशयच्छेदिन्यै नमः । ॐ सांख्यवेद्यायै नमः । ॐ संख्यायै नमः । ॐ सदीश्वर्यै नमः । ॐ सिद्धिदायै नमः । ॐ सिद्धसंपूज्यायै नमः । ॐ सर्वसिद्धिप्रदायिन्यै नमः । ॐ सर्वज्ञायै नमः । 220
ॐ सर्वशक्त्यै नमः । ॐ सर्वसंपत्प्रदायिन्यै नमः । ॐ सर्वाऽशुभघ्न्यै नमः । ॐ सुखदायै नमः । ॐ सुखयै नमः । ॐ संवित्स्वरूपिण्यै नमः । ॐ सर्वसंभाषण्यै नमः । ॐ सर्वजगत्सम्मोहिन्यै नमः । ॐ सर्वप्रियंकर्यै नमः । ॐ सर्वशुभदायै नमः । ॐ सर्वमंगलायै नमः । ॐ सर्वमंत्रमय्यै नमः । ॐ सर्वतीर्थपुण्यफलप्रदायै नमः । ॐ सर्वपुण्यमय्यै नमः । ॐ सर्वव्याधिघ्न्यै नमः । ॐ सर्वकामदायै नमः । ॐ सर्वविघ्नहर्यै नमः । ॐ सर्ववंदितायै नमः । ॐ सर्वमंगलायै नमः । ॐ सर्वमंत्रकर्यै नमः । 240
ॐ सर्वलक्ष्म्यै नमः । ॐ सर्वगुणान्वितायै नमः । ॐ सर्वानंदमय्यै नमः । ॐ सर्वज्ञानदायै नमः । ॐ सत्यनायिकायै नमः । ॐ सर्वज्ञानमय्यै नमः । ॐ सर्वराज्यदायै नमः । ॐ सर्वमुक्तिदायै नमः । ॐ सुप्रभायै नमः । ॐ सर्वदायै नमः । ॐ सर्वायै नमः । ॐ सर्वलोकवशंकर्यै नमः । ॐ सुभगायै नमः । ॐ सुंदर्यै नमः । ॐ सिद्धायै नमः । ॐ सिद्धांबायै नमः । ॐ सिद्धमातृकायै नमः । ॐ सिद्धमात्रे नमः । ॐ सिद्धविद्यायै नमः । ॐ सिद्धेश्यै नमः । 260
ॐ सिद्धरूपिण्यै नमः । ॐ सुरूपिण्यै नमः । ॐ सुखमय्यै नमः । ॐ सेवकप्रियकारिण्यै नमः । ॐ स्वामिन्यै नमः । ॐ सर्वदायै नमः । ॐ सेव्यायै नमः । ॐ स्थूलसूक्ष्मापरांबिकायै नमः । ॐ साररूपायै नमः । ॐ सरोरूपायै नमः । ॐ सत्यभूतायै नमः । ॐ समाश्रयायै नमः । ॐ सिताऽसितायै नमः । ॐ सरोजाक्ष्यै नमः । ॐ सरोजासनवल्लभायै नमः । ॐ सरोरुहाभायै नमः । ॐ सर्वांग्यै नमः । ॐ सुरेंद्रादिप्रपूजितायै नमः । ॐ महादेव्यै नमः । ॐ महेशान्यै नमः । 280
ॐ महासारस्वतप्रदायै नमः । ॐ महासरस्वत्यै नमः । ॐ मुक्तायै नमः । ॐ मुक्तिदायै नमः । ॐ मोहनाशिन्यै नमः । ॐ महेश्वर्यै नमः । ॐ महानंदायै नमः । ॐ महामंत्रमय्यै नमः । ॐ मह्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ महाविद्यायै नमः । ॐ मात्रे नमः । ॐ मंदरवासिन्यै नमः । ॐ मंत्रगम्यायै नमः । ॐ मंत्रमात्रे नमः । ॐ महामंत्रफलप्रदायै नमः । ॐ महामुक्त्यै नमः ॐ महानित्यायै नमः । ॐ महासिद्धिप्रदायिन्यै नमः । ॐ महासिद्धायै नमः । 300
ॐ महामात्रे नमः । ॐ महदाकारसंयुतायै नमः । ॐ मह्यै नमः । ॐ महेश्वर्यै नमः । ॐ मूर्त्यै नमः । ॐ मोक्षदायै नमः । ॐ मणिभूषणायै नमः । ॐ मेनकायै नमः । ॐ मानिन्यै नमः । ॐ मान्यायै नमः । ॐ मृत्युघ्न्यै नमः । ॐ मेरुरूपिण्यै नमः । ॐ मदिराक्ष्यै नमः । ॐ मदावासायै नमः । ॐ मखरूपायै नमः । ॐ मखेश्वर्यै नमः । ॐ महामोहायै नमः । ॐ महामायायै नमः । ॐ मातॄणां मूर्ध्निसंस्थितायै नमः । ॐ महापुण्यायै नमः । 320
ॐ मुदावासायै नमः । ॐ महासंपत्प्रदायिन्यै नमः । ॐ मणिपूरैकनिलयायै नमः । ॐ मधुरूपायै नमः । ॐ मदोत्कटायै नमः । ॐ महासूक्ष्मायै नमः । ॐ महाशांतायै नमः । ॐ महाशांतिप्रदायिन्यै नमः । ॐ मुनिस्तुतायै नमः । ॐ मोहहंत्र्यै नमः । ॐ माधव्यै नमः । ॐ माधवप्रियायै नमः । ॐ मायै नमः । ॐ महादेवसंस्तुत्यायै नमः । ॐ महिषीगणपूजितायै नमः । ॐ मृष्टान्नदायै नमः । ॐ माहेंद्र्यै नमः । ॐ महेंद्रपददायिन्यै नमः । ॐ मत्यै नमः । ॐ मतिप्रदायै नमः । 340
ॐ मेधायै नमः । ॐ मर्त्यलोकनिवासिन्यै नमः । ॐ मुख्यायै नमः । ॐ महानिवासायै नमः । ॐ महाभाग्यजनाश्रितायै नमः । ॐ महिलायै नमः । ॐ महिमायै नमः । ॐ मृत्युहार्यै नमः । ॐ मेधाप्रदायिन्यै नमः । ॐ मेध्यायै नमः । ॐ महावेगवत्यै नमः । ॐ महामोक्षफलप्रदायै नमः । ॐ महाप्रभाभायै नमः । ॐ महत्यै नमः । ॐ महादेवप्रियंकर्यै नमः । ॐ महापोषायै नमः । ॐ महर्थ्यै नमः । ॐ मुक्ताहारविभूषणायै नमः । ॐ माणिक्यभूषणायै नमः । ॐ मंत्रायै नमः । 360
ॐ मुख्यचंद्रार्धशेखरायै नमः । ॐ मनोरूपायै नमः । ॐ मनश्शुद्ध्यै नमः । ॐ मनश्शुद्धिप्रदायिन्यै नमः । ॐ महाकारुण्यसंपूर्णायै नमः । ॐ मनोनमनवंदितायै नमः । ॐ महापातकजालघ्न्यै नमः । ॐ मुक्तिदायै नमः । ॐ मुक्तभूषणायै नमः । ॐ मनोन्मन्यै नमः । ॐ महास्थूलायै नमः । ॐ महाक्रतुफलप्रदायै नमः । ॐ महापुण्यफलप्राप्यायै नमः । ॐ मायात्रिपुरनाशिन्यै नमः । ॐ महानसायै नमः । ॐ महामेधायै नमः । ॐ महामोदायै नमः । ॐ महेश्वर्यै नमः । ॐ मालाधर्यै नमः । ॐ महोपायायै नमः । 380
ॐ महातीर्थफलप्रदायै नमः । ॐ महामंगलसंपूर्णायै नमः । ॐ महादारिद्र्यनाशिन्यै नमः । ॐ महामखायै नमः । ॐ महामेघायै नमः । ॐ महाकाल्यै नमः । ॐ महाप्रियायै नमः । ॐ महाभूषायै नमः । ॐ महादेहायै नमः । ॐ महाराज्ञ्यै नमः । ॐ मुदालयायै नमः । ॐ भूरिदायै नमः । ॐ भाग्यदायै नमः । ॐ भोग्यायै नमः । ॐ भोग्यदायै नमः । ॐ भोगदायिन्यै नमः । ॐ भवान्यै नमः । ॐ भूतिदायै नमः । ॐ भूत्यै नमः । ॐ भूम्यै नमः । 400
ॐ भूमिसुनायिकायै नमः । ॐ भूतधात्र्यै नमः । ॐ भयहर्यै नमः । ॐ भक्तसारस्वतप्रदायै नमः । ॐ भुक्त्यै नमः । ॐ भुक्तिप्रदायै नमः । ॐ भोक्त्र्यै नमः । ॐ भक्त्यै नमः । ॐ भक्तिप्रदायिन्यै नमः । ॐ भक्तसायुज्यदायै नमः । ॐ भक्तस्वर्गदायै नमः । ॐ भक्तराज्यदायै नमः । ॐ भागीरथ्यै नमः । ॐ भवाराध्यायै नमः । ॐ भाग्यासज्जनपूजितायै नमः । ॐ भवस्तुत्यायै नमः । ॐ भानुमत्यै नमः । ॐ भवसागरतारिण्यै नमः । ॐ भूत्यै नमः । ॐ भूषायै नमः । 420
ॐ भूतेश्यै नमः । ॐ भाललोचनपूजितायै नमः । ॐ भूतायै नमः । ॐ भव्यायै नमः । ॐ भविष्यायै नमः । ॐ भवविद्यायै नमः । ॐ भवात्मिकायै नमः । ॐ बाधापहारिण्यै नमः । ॐ बंधुरूपायै नमः । ॐ भुवनपूजितायै नमः । ॐ भवघ्न्यै नमः । ॐ भक्तिलभ्यायै नमः । ॐ भक्तरक्षणतत्परायै नमः । ॐ भक्तार्तिशमन्यै नमः । ॐ भाग्यायै नमः । ॐ भोगदानकृतोद्यमायै नमः । ॐ भुजंगभूषणायै नमः । ॐ भीमायै नमः । ॐ भीमाक्ष्यै नमः । ॐ भीमरूपिण्यै नमः । 440
ॐ भाविन्यै नमः । ॐ भ्रातृरूपायै नमः । ॐ भारत्यै नमः । ॐ भवनायिकायै नमः । ॐ भाषायै नमः । ॐ भाषावत्यै नमः । ॐ भीष्मायै नमः । ॐ भैरव्यै नमः । ॐ भैरवप्रियायै नमः । ॐ भूत्यै नमः । ॐ भासितसर्वांग्यै नमः । ॐ भूतिदायै नमः । ॐ भूतिनायिकायै नमः । ॐ भास्वत्यै नमः । ॐ भगमालायै नमः । ॐ भिक्षादानकृतोद्यमायै नमः । ॐ भिक्षुरूपायै नमः । ॐ भक्तिकर्यै नमः । ॐ भक्तलक्ष्मीप्रदायिन्यै नमः । ॐ भ्रांतिघ्नायै नमः । 460
ॐ भ्रांतिरूपायै नमः । ॐ भूतिदायै नमः । ॐ भूतिकारिण्यै नमः । ॐ भिक्षणीयायै नमः । ॐ भिक्षुमात्रे नमः । ॐ भाग्यवद्दृष्टिगोचरायै नमः । ॐ भोगवत्यै नमः । ॐ भोगरूपायै नमः । ॐ भोगमोक्षफलप्रदायै नमः । ॐ भोगश्रांतायै नमः । ॐ भाग्यवत्यै नमः । ॐ भक्ताघौघविनाशिन्यै नमः । ॐ ब्राह्म्यै नमः । ॐ ब्रह्मस्वरूपायै नमः । ॐ बृहत्यै नमः । ॐ ब्रह्मवल्लभायै नमः । ॐ ब्रह्मदायै नमः । ॐ ब्रह्ममात्रे नमः । ॐ ब्रह्माण्यै नमः । ॐ ब्रह्मदायिन्यै नमः । 480
ॐ ब्रह्मेश्यै नमः । ॐ ब्रह्मसंस्तुत्यायै नमः । ॐ ब्रह्मवेद्यायै नमः । ॐ बुधप्रियायै नमः । ॐ बालेंदुशेखरायै नमः । ॐ बालायै नमः । ॐ बलिपूजाकरप्रियायै नमः । ॐ बलदायै नमः । ॐ बिंदुरूपायै नमः । ॐ बालसूर्यसमप्रभायै नमः । ॐ ब्रह्मरूपायै नमः । ॐ ब्रह्ममय्यै नमः । ॐ ब्रध्नमंडलमध्यगायै नमः । ॐ ब्रह्माण्यै नमः । ॐ बुद्धिदायै नमः । ॐ बुद्ध्यै नमः । ॐ बुद्धिरूपायै नमः । ॐ बुधेश्वर्यै नमः । ॐ बंधक्षयकर्यै नमः । ॐ बाधानाशिन्यै नमः । 500
ॐ बंधुरूपिण्यै नमः । ॐ बिंद्वालयायै नमः । ॐ बिंदुभूषायै नमः । ॐ बिंदुनादसमन्वितायै नमः । ॐ बीजरूपायै नमः । ॐ बीजमात्रे नमः । ॐ ब्रह्मण्यायै नमः । ॐ ब्रह्मकारिण्यै नमः । ॐ बहुरूपायै नमः । ॐ बलवत्यै नमः । ॐ ब्रह्मज्ञायै नमः । ॐ ब्रह्मचारिण्यै नमः । ॐ ब्रह्मस्तुत्यायै नमः । ॐ ब्रह्मविद्यायै नमः । ॐ ब्रह्मांडाधिपवल्लभायै नमः । ॐ ब्रह्मेशविष्णुरूपायै नमः । ॐ ब्रह्मविष्ण्वीशसंस्थितायै नमः । ॐ बुद्धिरूपायै नमः । ॐ बुधेशान्यै नमः । ॐ बंध्यै नमः । 520
ॐ बंधविमोचन्यै नमः । ॐ अक्षमालायै नमः । ॐ अक्षराकारायै नमः । ॐ अक्षरायै नमः । ॐ अक्षरफलप्रदायै नमः । ॐ अनंतायै नमः । ॐ आनंदसुखदायै नमः । ॐ अनंतचंद्रनिभाननायै नमः । ॐ अनंतमहिमायै नमः । ॐ अघोरायै नमः । ॐ अनंतगंभीरसम्मितायै नमः । ॐ अदृष्टायै नमः । ॐ अदृष्टदायै नमः । ॐ अनंतायै नमः । ॐ अदृष्टभाग्यफलप्रदायै नमः । ॐ अरुंधत्यै नमः । ॐ अव्ययीनाथायै नमः । ॐ अनेकसद्गुणसंयुतायै नमः । ॐ अनेकभूषणायै नमः । ॐ अदृश्यायै नमः । 540
ॐ अनेकलेखनिषेवितायै नमः । ॐ अनंतायै नमः । ॐ अनंतसुखदायै नमः । ॐ अघोरायै नमः । ॐ अघोरस्वरूपिण्यै नमः । ॐ अशेषदेवतारूपायै नमः । ॐ अमृतरूपायै नमः । ॐ अमृतेश्वर्यै नमः । ॐ अनवद्यायै नमः । ॐ अनेकहस्तायै नमः । ॐ अनेकमाणिक्यभूषणायै नमः । ॐ अनेकविघ्नसंहर्त्र्यै नमः । ॐ अनेकाभरणान्वितायै नमः । ॐ अविद्याज्ञानसंहर्त्र्यै नमः । ॐ अविद्याजालनाशिन्यै नमः । ॐ अभिरूपायै नमः । ॐ अनवद्यांग्यै नमः । ॐ अप्रतर्क्यगतिप्रदायै नमः । ॐ अकलंकरूपिण्यै नमः । ॐ अनुग्रहपरायणायै नमः । 560
ॐ अंबरस्थायै नमः । ॐ अंबरमयायै नमः । ॐ अंबरमालायै नमः । ॐ अंबुजेक्षणायै नमः । ॐ अंबिकायै नमः । ॐ अब्जकरायै नमः । ॐ अब्जस्थायै नमः । ॐ अंशुमत्यै नमः । ॐ अंशुशतान्वितायै नमः । ॐ अंबुजायै नमः । ॐ अनवरायै नमः । ॐ अखंडायै नमः । ॐ अंबुजासनमहाप्रियायै नमः । ॐ अजरायै नमः । ॐ अमरसंसेव्यायै नमः । ॐ अजरसेवितपद्युगायै नमः । ॐ अतुलार्थप्रदायै नमः । ॐ अर्थैक्यायै नमः । ॐ अत्युदारायै नमः । ॐ अभयान्वितायै नमः । 580
ॐ अनाथवत्सलायै नमः । ॐ अनंतप्रियायै नमः । ॐ अनंतेप्सितप्रदायै नमः । ॐ अंबुजाक्ष्यै नमः । ॐ अंबुरूपायै नमः । ॐ अंबुजातोद्भवमहाप्रियायै नमः । ॐ अखंडायै नमः । ॐ अमरस्तुत्यायै नमः । ॐ अमरनायकपूजितायै नमः । ॐ अजेयायै नमः । ॐ अजसंकाशायै नमः । ॐ अज्ञाननाशिन्यै नमः । ॐ अभीष्टदायै नमः । ॐ अक्तायै नमः । ॐ अघनेनायै नमः । ॐ अस्त्रेश्यै नमः । ॐ अलक्ष्मीनाशिन्यै नमः । ॐ अनंतसारायै नमः । ॐ अनंतश्रियै नमः । ॐ अनंतविधिपूजितायै नमः । 600
ॐ अभीष्टायै नमः । ॐ अमर्त्यसंपूज्यायै नमः । ॐ अस्तोदयविवर्जितायै नमः । ॐ आस्तिकस्वांतनिलयायै नमः । ॐ अस्त्ररूपायै नमः । ॐ अस्त्रवत्यै नमः । ॐ अस्खलत्यै नमः । ॐ अस्खलद्रूपायै नमः । ॐ अस्खलद्विद्याप्रदायिन्यै नमः । ॐ अस्खलत्सिद्धिदायै नमः । ॐ आनंदायै नमः । ॐ अंबुजातायै नमः । ॐ अमरनायिकायै नमः । ॐ अमेयायै नमः । ॐ अशेषपापघ्न्यै नमः । ॐ अक्षयसारस्वतप्रदायै नमः । ॐ जयायै नमः । ॐ जयंत्यै नमः । ॐ जयदायै नमः । ॐ जन्मकर्मविवर्जितायै नमः । 620
ॐ जगत्प्रियायै नमः । ॐ जगन्मात्रे नमः । ॐ जगदीश्वरवल्लभायै नमः । ॐ जात्यै नमः । ॐ जयायै नमः । ॐ जितामित्रायै नमः । ॐ जप्यायै नमः । ॐ जपनकारिण्यै नमः । ॐ जीवन्यै नमः । ॐ जीवनिलयायै नमः । ॐ जीवाख्यायै नमः । ॐ जीवधारिण्यै नमः । ॐ जाह्नव्यै नमः । ॐ ज्यायै नमः । ॐ जपवत्यै नमः । ॐ जातिरूपायै नमः । ॐ जयप्रदायै नमः । ॐ जनार्दनप्रियकर्यै नमः । ॐ जोषनीयायै नमः । ॐ जगत्स्थितायै नमः । 640
ॐ जगज्ज्येष्ठायै नमः । ॐ जगन्मायायै नमः । ॐ जीवनत्राणकारिण्यै नमः । ॐ जीवातुलतिकायै नमः । ॐ जीवजन्म्यै नमः । ॐ जन्मनिबर्हण्यै नमः । ॐ जाड्यविध्वंसनकर्यै नमः । ॐ जगद्योन्यै नमः । ॐ जयात्मिकायै नमः । ॐ जगदानंदजनन्यै नमः । ॐ जंब्व्यै नमः । ॐ जलजेक्षणायै नमः । ॐ जयंत्यै नमः । ॐ जंगपूगघ्न्यै नमः । ॐ जनितज्ञानविग्रहायै नमः । ॐ जटायै नमः । ॐ जटावत्यै नमः । ॐ जप्यायै नमः । ॐ जपकर्तृप्रियंकर्यै नमः । ॐ जपकृत्पापसंहर्त्र्यै नमः । 660
ॐ जपकृत्फलदायिन्यै नमः । ॐ जपापुष्पसमप्रख्यायै नमः । ॐ जपाकुसुमधारिण्यै नमः । ॐ जनन्यै नमः । ॐ जन्मरहितायै नमः । ॐ ज्योतिर्वृत्यभिदायिन्यै नमः । ॐ जटाजूटनचंद्रार्धायै नमः । ॐ जगत्सृष्टिकर्यै नमः । ॐ जगत्त्राणकर्यै नमः । ॐ जाड्यध्वंसकर्त्र्यै नमः । ॐ जयेश्वर्यै नमः । ॐ जगद्बीजायै नमः । ॐ जयावासायै नमः । ॐ जन्मभुवे नमः । ॐ जन्मनाशिन्यै नमः । ॐ जन्मांत्यरहितायै नमः । ॐ जैत्र्यै नमः । ॐ जगद्योन्यै नमः । ॐ जपात्मिकायै नमः । ॐ जयलक्षणसंपूर्णायै नमः । 680
ॐ जयदानकृतोद्यमायै नमः । ॐ जंभराद्यादिसंस्तुत्यायै नमः । ॐ जंभारिफलदायिन्यै नमः । ॐ जगत्त्रयहितायै नमः । ॐ ज्येष्ठायै नमः । ॐ जगत्त्रयवशंकर्यै नमः । ॐ जगत्त्रयांबायै नमः । ॐ जगत्यै नमः । ॐ ज्वालायै नमः । ॐ ज्वालितलोचनायै नमः । ॐ ज्वालिन्यै नमः । ॐ ज्वलनाभासायै नमः । ॐ ज्वलंत्यै नमः । ॐ ज्वलनात्मिकायै नमः । ॐ जितारातिसुरस्तुत्यायै नमः । ॐ जितक्रोधायै नमः । ॐ जितेंद्रियायै नमः । ॐ जरामरणशून्यायै नमः । ॐ जनित्र्यै नमः । ॐ जन्मनाशिन्यै नमः । 700
ॐ जलजाभायै नमः । ॐ जलमय्यै नमः । ॐ जलजासनवल्लभायै नमः । ॐ जलजस्थायै नमः । ॐ जपाराध्यायै नमः । ॐ जनमंगलकारिण्यै नमः । ॐ कामिन्यै नमः । ॐ कामरूपायै नमः । ॐ काम्यायै नमः । ॐ काम्यप्रदायिन्यै नमः । ॐ कमौल्यै नमः । ॐ कामदायै नमः । ॐ कर्त्र्यै नमः । ॐ क्रतुकर्मफलप्रदायै नमः । ॐ कृतघ्नघ्न्यै नमः । ॐ क्रियारूपायै नमः । ॐ कार्यकारणरूपिण्यै नमः । ॐ कंजाक्ष्यै नमः । ॐ करुणारूपायै नमः । ॐ केवलामरसेवितायै नमः । 720
ॐ कल्याणकारिण्यै नमः । ॐ कांतायै नमः । ॐ कांतिदायै नमः । ॐ कांतिरूपिण्यै नमः । ॐ कमलायै नमः । ॐ कमलावासायै नमः । ॐ कमलोत्पलमालिन्यै नमः । ॐ कुमुद्वत्यै नमः । ॐ कल्याण्यै नमः । ॐ कांत्यै नमः । ॐ कामेशवल्लभायै नमः । ॐ कामेश्वर्यै नमः । ॐ कमलिन्यै नमः । ॐ कामदायै नमः । ॐ कामबंधिन्यै नमः । ॐ कामधेनवे नमः । ॐ कांचनाक्ष्यै नमः । ॐ कांचनाभायै नमः । ॐ कलानिधये नमः । ॐ क्रियायै नमः । 740
ॐ कीर्तिकर्यै नमः । ॐ कीर्त्यै नमः । ॐ क्रतुश्रेष्ठायै नमः । ॐ कृतेश्वर्यै नमः । ॐ क्रतुसर्वक्रियास्तुत्यायै नमः । ॐ क्रतुकृत्प्रियकारिण्यै नमः । ॐ क्लेशनाशकर्यै नमः । ॐ कर्त्र्यै नमः । ॐ कर्मदायै नमः । ॐ कर्मबंधिन्यै नमः । ॐ कर्मबंधहर्यै नमः । ॐ कृष्टायै नमः । ॐ क्लमघ्न्यै नमः । ॐ कंजलोचनायै नमः । ॐ कंदर्पजनन्यै नमः । ॐ कांतायै नमः । ॐ करुणायै नमः । ॐ करुणावत्यै नमः । ॐ क्लींकारिण्यै नमः । ॐ कृपाकारायै नमः । 760
ॐ कृपासिंधवे नमः । ॐ कृपावत्यै नमः । ॐ करुणार्द्रायै नमः । ॐ कीर्तिकर्यै नमः । ॐ कल्मषघ्न्यै नमः । ॐ क्रियाकर्यै नमः । ॐ क्रियाशक्त्यै नमः । ॐ कामरूपायै नमः । ॐ कमलोत्पलगंधिन्यै नमः । ॐ कलायै नमः । ॐ कलावत्यै नमः । ॐ कूर्म्यै नमः । ॐ कूटस्थायै नमः । ॐ कंजसंस्थितायै नमः । ॐ कालिकायै नमः । ॐ कल्मषघ्न्यै नमः । ॐ कमनीयजटान्वितायै नमः । ॐ करपद्मायै नमः । ॐ कराभीष्टप्रदायै नमः । ॐ क्रतुफलप्रदायै नमः । 780
ॐ कौशिक्यै नमः । ॐ कोशदायै नमः । ॐ काव्यायै नमः । ॐ कर्त्र्यै नमः । ॐ कोशेश्वर्यै नमः । ॐ कृशायै नमः । ॐ कूर्मयानायै नमः । ॐ कल्पलतायै नमः । ॐ कालकूटविनाशिन्यै नमः । ॐ कल्पोद्यानवत्यै नमः । ॐ कल्पवनस्थायै नमः । ॐ कल्पकारिण्यै नमः । ॐ कदंबकुसुमाभासायै नमः । ॐ कदंबकुसुमप्रियायै नमः । ॐ कदंबोद्यानमध्यस्थायै नमः । ॐ कीर्तिदायै नमः । ॐ कीर्तिभूषणायै नमः । ॐ कुलमात्रे नमः । ॐ कुलावासायै नमः । ॐ कुलाचारप्रियंकर्यै नमः । 800
ॐ कुलनाथायै नमः । ॐ कामकलायै नमः । ॐ कलानाथायै नमः । ॐ कलेश्वर्यै नमः । ॐ कुंदमंदारपुष्पाभायै नमः । ॐ कपर्दस्थितचंद्रिकायै नमः । ॐ कवित्वदायै नमः । ॐ काम्यमात्रे नमः । ॐ कविमात्रे नमः । ॐ कलाप्रदायै नमः । ॐ तरुण्यै नमः । ॐ तरुणीतातायै नमः । ॐ ताराधिपसमाननायै नमः । ॐ तृप्तये नमः । ॐ तृप्तिप्रदायै नमः । ॐ तर्क्यायै नमः । ॐ तपन्यै नमः । ॐ तापिन्यै नमः । ॐ तर्पण्यै नमः । ॐ तीर्थरूपायै नमः । 820
ॐ त्रिपदायै नमः । ॐ त्रिदशेश्वर्यै नमः । ॐ त्रिदिवेश्यै नमः । ॐ त्रिजनन्यै नमः । ॐ त्रिमात्रे नमः । ॐ त्र्यंबकेश्वर्यै नमः । ॐ त्रिपुरायै नमः । ॐ त्रिपुरेशान्यै नमः । ॐ त्र्यंबकायै नमः । ॐ त्रिपुरांबिकायै नमः । ॐ त्रिपुरश्रियै नमः । ॐ त्रयीरूपायै नमः । ॐ त्रयीवेद्यायै नमः । ॐ त्रयीश्वर्यै नमः । ॐ त्रय्यंतवेदिन्यै नमः । ॐ ताम्रायै नमः । ॐ तापत्रितयहारिण्यै नमः । ॐ तमालसदृश्यै नमः । ॐ त्रात्रे नमः । ॐ तरुणादित्यसन्निभायै नमः । 840
ॐ त्रैलोक्यव्यापिन्यै नमः । ॐ तृप्तायै नमः । ॐ तृप्तिकृते नमः । ॐ तत्त्वरूपिण्यै नमः । ॐ तुर्यायै नमः । ॐ त्रैलोक्यसंस्तुत्यायै नमः । ॐ त्रिगुणायै नमः । ॐ त्रिगुणेश्वर्यै नमः । ॐ त्रिपुरघ्न्यै नमः । ॐ त्रिमात्रे नमः । ॐ त्र्यंबकायै नमः । ॐ त्रिगुणान्वितायै नमः । ॐ तृष्णाच्छेदकर्यै नमः । ॐ तृप्तायै नमः । ॐ तीक्ष्णायै नमः । ॐ तीक्ष्णस्वरूपिण्यै नमः । ॐ तुलायै नमः । ॐ तुलादिरहितायै नमः । ॐ तत्तद्ब्रह्मस्वरूपिण्यै नमः । ॐ त्राणकर्त्र्यै नमः । 860
ॐ त्रिपापघ्न्यै नमः । ॐ त्रिदशायै नमः । ॐ त्रिदशान्वितायै नमः । ॐ तथ्यायै नमः । ॐ त्रिशक्त्यै नमः । ॐ त्रिपदायै नमः । ॐ तुर्यायै नमः । ॐ त्रैलोक्यसुंदर्यै नमः । ॐ तेजस्कर्यै नमः । ॐ त्रिमूर्त्याद्यायै नमः । ॐ तेजोरूपायै नमः । ॐ त्रिधामतायै नमः । ॐ त्रिचक्रकर्त्र्यै नमः । ॐ त्रिभगायै नमः । ॐ तुर्यातीतफलप्रदायै नमः । ॐ तेजस्विन्यै नमः । ॐ तापहार्यै नमः । ॐ तापोपप्लवनाशिन्यै नमः । ॐ तेजोगर्भायै नमः । ॐ तपस्सारायै नमः । 880
ॐ त्रिपुरारिप्रियंकर्यै नमः । ॐ तन्व्यै नमः । ॐ तापससंतुष्टायै नमः । ॐ तपनांगजभीतिनुते नमः । ॐ त्रिलोचनायै नमः । ॐ त्रिमार्गायै नमः । ॐ तृतीयायै नमः । ॐ त्रिदशस्तुतायै नमः । ॐ त्रिसुंदर्यै नमः । ॐ त्रिपथगायै नमः । ॐ तुरीयपददायिन्यै नमः । ॐ शुभायै नमः । ॐ शुभावत्यै नमः । ॐ शांतायै नमः । ॐ शांतिदायै नमः । ॐ शुभदायिन्यै नमः । ॐ शीतलायै नमः । ॐ शूलिन्यै नमः । ॐ शीतायै नमः । ॐ श्रीमत्यै नमः । 900
ॐ शुभान्वितायै नमः । ॐ योगसिद्धिप्रदायै नमः । ॐ योग्यायै नमः । ॐ यज्ञेनपरिपूरितायै नमः । ॐ यज्ञायै नमः । ॐ यज्ञमय्यै नमः । ॐ यक्ष्यै नमः । ॐ यक्षिण्यै नमः । ॐ यक्षिवल्लभायै नमः । ॐ यज्ञप्रियायै नमः । ॐ यज्ञपूज्यायै नमः । ॐ यज्ञतुष्टायै नमः । ॐ यमस्तुतायै नमः । ॐ यामिनीयप्रभायै नमः । ॐ याम्यायै नमः । ॐ यजनीयायै नमः । ॐ यशस्कर्यै नमः । ॐ यज्ञकर्त्र्यै नमः । ॐ यज्ञरूपायै नमः । ॐ यशोदायै नमः । 920
ॐ यज्ञसंस्तुतायै नमः । ॐ यज्ञेश्यै नमः । ॐ यज्ञफलदायै नमः । ॐ योगयोन्यै नमः । ॐ यजुस्स्तुतायै नमः । ॐ यमिसेव्यायै नमः । ॐ यमाराध्यायै नमः । ॐ यमिपूज्यायै नमः । ॐ यमीश्वर्यै नमः । ॐ योगिन्यै नमः । ॐ योगरूपायै नमः । ॐ योगकर्तृप्रियंकर्यै नमः । ॐ योगयुक्तायै नमः । ॐ योगमय्यै नमः । ॐ योगयोगीश्वरांबिकायै नमः । ॐ योगज्ञानमय्यै नमः । ॐ योनये नमः । ॐ यमाद्यष्टांगयोगतायै नमः । ॐ यंत्रिताघौघसंहारायै नमः । ॐ यमलोकनिवारिण्यै नमः । 940
ॐ यष्टिव्यष्टीशसंस्तुत्यायै नमः । ॐ यमाद्यष्टांगयोगयुजे नमः ॐ योगीश्वर्यै नमः । ॐ योगमात्रे नमः । ॐ योगसिद्धायै नमः । ॐ योगदायै नमः । ॐ योगारूढायै नमः । ॐ योगमय्यै नमः । ॐ योगरूपायै नमः । ॐ यवीयस्यै नमः । ॐ यंत्ररूपायै नमः । ॐ यंत्रस्थायै नमः । ॐ यंत्रपूज्यायै नमः । ॐ यंत्रिकायै नमः । ॐ युगकर्त्र्यै नमः । ॐ युगमय्यै नमः । ॐ युगधर्मविवर्जितायै नमः । ॐ यमुनायै नमः । ॐ यामिन्यै नमः । ॐ याम्यायै नमः । 960
ॐ यमुनाजलमध्यगायै नमः । ॐ यातायातप्रशमन्यै नमः । ॐ यातनानांनिकृंतन्यै नमः । ॐ योगावासायै नमः । ॐ योगिवंद्यायै नमः । ॐ यत्तच्छब्दस्वरूपिण्यै नमः । ॐ योगक्षेममय्यै नमः । ॐ यंत्रायै नमः । ॐ यावदक्षरमातृकायै नमः । ॐ यावत्पदमय्यै नमः । ॐ यावच्छब्दरूपायै नमः । ॐ यथेश्वर्यै नमः । ॐ यत्तदीयायै नमः । ॐ यक्षवंद्यायै नमः । ॐ यद्विद्यायै नमः । ॐ यतिसंस्तुतायै नमः । ॐ यावद्विद्यामय्यै नमः । ॐ यावद्विद्याबृंदसुवंदितायै नमः । ॐ योगिहृत्पद्मनिलयायै नमः । ॐ योगिवर्यप्रियंकर्यै नमः । 980
ॐ योगिवंद्यायै नमः । ॐ योगिमात्रे नमः । ॐ योगीशफलदायिन्यै नमः । ॐ यक्षवंद्यायै नमः । ॐ यक्षपूज्यायै नमः । ॐ यक्षराजसुपूजितायै नमः । ॐ यज्ञरूपायै नमः । ॐ यज्ञतुष्टायै नमः । ॐ यायजूकस्वरूपिण्यै नमः । ॐ यंत्राराध्यायै नमः । ॐ यंत्रमध्यायै नमः । ॐ यंत्रकर्तृप्रियंकर्यै नमः । ॐ यंत्रारूढायै नमः । ॐ यंत्रपूज्यायै नमः । ॐ योगिध्यानपरायणायै नमः । ॐ यजनीयायै नमः । ॐ यमस्तुत्यायै नमः । ॐ योगयुक्तायै नमः । ॐ यशस्कर्यै नमः । ॐ योगबद्धायै नमः । 1000
ॐ यतिस्तुत्यायै नमः । ॐ योगज्ञायै नमः । ॐ योगनायक्यै नमः । ॐ योगिज्ञानप्रदायै नमः । ॐ यक्ष्यै नमः । ॐ यमबाधाविनाशिन्यै नमः । ॐ योगिकाम्यप्रदात्र्यै नमः । ॐ योगिमोक्षप्रदायिन्यै नमः । 1008
इति श्री सरस्वती सहस्रनामावली ॥
Browse Related Categories: