Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुंज- -क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः । तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकी कैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेंद्रः ॥ 1 ॥
यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यस्येषुः शार्ंगधन्वा समजनि जगतां रक्षणे जागरूकः । मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
आतंकावेगहारी सकलदिविषदामंघ्रिपद्माश्रयाणां मातंगाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः । क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्व- -न्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥ 3 ॥
कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः । पायान्नः पावकार्चिःप्रसरसखमुखः पापहंता नितांतं शूलः श्रीपादसेवाभजनरसजुषां पालनैकांतशीलः ॥ 4 ॥
देवस्यांकाश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार- -प्रस्तारानत्युदारान्पिपठिषुरिव यो नित्यमत्यादरेण । आधत्ते भंगितुंगैरनिशमवयवैरंतरंगं समोदं सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरंगः कुरंगः ॥ 5 ॥
कंठप्रांतावसज्जत्कनकमयमहाघंटिकाघोरघोषैः कंठारावैरकुंठैरपि भरितजगच्चक्रवालांतरालः । चंडः प्रोद्दंडशृंगः ककुदकबलितोत्तुंगकैलासशृंगः कंठेकालस्य वाहः शमयतु शमलं शाश्वतः शाक्वरेंद्रः ॥ 6 ॥
निर्यद्दानांबुधारापरिमलतरलीभूतरोलंबपाली- -झंकारैः शंकराद्रेः शिखरशतदरीः पूरयन्भूरिघोषैः । शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता शर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥ 7 ॥
यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या- -द्यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजंते । भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौंचशैलः संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ 8 ॥
आरूढः प्रौढवेगप्रविजितपवनं तुंगतुंगं तुरंगं चेलं नीलं वसानः करतलविलसत्कांडकोदंडदंडः । रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता कुर्वन्नाखेटलीलां परिलसतु मनःकानने मामकीने ॥ 9 ॥
अंभोजाभ्यां च रंभारथचरणलताद्वंद्वकुंभींद्रकुंभै- -र्बिंबेनेंदोश्च कंबोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् । अंभोदेनापि संभावितमुपजनिताडंबरं शंबरारेः शंभोः संभोगयोग्यं किमपि धनमिदं संभवेत्संपदे नः ॥ 10 ॥
वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा- -न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् । एणीनेत्रांतभंगीनिरसननिपुणापांगकोणानुपासे शोणान्प्राणानुदूढप्रतिनवसुषमाकंदलानिंदुमौलेः ॥ 11 ॥
नृत्तारंभेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै- -श्चित्तानंदं विधत्ते सदसि भगवतः संततं यः स नंदी । चंडीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का- -रोत्कर्षोद्यत्प्रसादाः प्रमथपरिबृढाः पांतु संतोषिणो नः ॥ 12 ॥
मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं प्रत्युप्तानर्घरत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनाम् । उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः ॥ 13 ॥
स्तंभैर्जंभारिरत्नप्रवरविरचितैः संभृतोपांतभागं शुंभत्सोपानमार्गं शुचिमणिनिचयैर्गुंभितानल्पशिल्पम् । कुंभैः संपूर्णशोभं शिरसि सुघटितैः शातकुंभैरपंकैः शंभोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः ॥ 14 ॥
न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा ॥ वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीः पीठः पीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः ॥ 15 ॥
आसीनस्याधिपीठं त्रिजगदधिपतेरंघ्रिपीठानुषक्तौ पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्मादिरेखौ । पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर- -श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ ॥ 16 ॥
यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु- -र्लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे । शंभोः संभावनीये पदकमलसमासंगतस्तुंगशोभे मांगल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥ 17 ॥
अंगे शृंगारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत् । शंकामित्थं नतानाममरपरिषदामंतरंकूरयत्त- -त्संघातं चारु जंघायुगमखिलपतेरंहसां संहरेन्नः ॥ 18 ॥
जानुद्वंद्वेन मीनध्वजनृवरसमुद्रोपमानेन साकं राजंतौ राजरंभाकरिकरकनकस्तंभसंभावनीयौ । ऊरू गौरीकरांभोरुहसरससमामर्दनानंदभाजौ चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मांतरे नः ॥ 19 ॥
आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्याणकांची- -दाम्ना बद्देन दुग्धद्युतिनिचयमुषा चीनपट्टांबरेण । संवीते शैलकन्यासुचरितपरिपाकायमाणे नितंबे नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः ॥ 20 ॥
संध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढं व्यानद्धः स्निग्धमुग्धः सरसमुदरबंधेन वीतोपमेन । उद्दीप्तैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारो मध्यो मिथ्यार्थसध्र्यङ्मम दिशतु सदा संगतिं मंगलानाम् ॥ 21 ॥
नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता- -दुद्गच्छंती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयांति । श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं सा मा सोमार्धमौलेः सुखयतु सततं रोमवल्लीमतल्ली ॥ 22 ॥
आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपंक- -व्यासंगादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम् । दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥ 23 ॥
वामांके विस्फुरंत्याः करतलविलसच्चारुरक्तोत्पलायाः कांताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम् । अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिंदुमौले- -र्बाहूनाबद्धहेमांगदमणिकटकानंतरालोकयामः ॥ 24 ॥
संभ्रांतायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा- -त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम् । मध्ये त्रैशंकवीयामनुभवति दशां यत्र हालाहलोष्मा सोऽयं सर्वापदां नः शमयतु निचयं नीलकंठस्य कंठः ॥ 25 ॥
हृद्यैरद्रींद्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री- -रुद्द्योतंत्या नितांतं धवलधवलया मिश्रितो दंतकांत्या । मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः सद्योजातस्य दद्यादधरमणिरसौ संपदां संचयं नः ॥ 26 ॥
कर्णालंकारनानामणिनिकररुचां संचयैरंचितायां वर्ण्यायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासंनिभायाम् । पद्धत्यां प्राणवायोः प्रणतजनहृदंभोजवासस्य शंभो- -र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥ 27 ॥
अत्यंतं भासमाने रुचिरतररुचां संगमात्सन्मणीना- -मुद्यच्चंडांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने । भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलंबे भक्तालीभालसज्जज्जनिमरणलिपेः कुंडले कुंडले ते ॥ 28 ॥
याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां येषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम् । रुद्राणीवक्त्रपंकेरुहसततविहारोत्सुकेंदिंदिरेभ्य- -स्तेभ्यस्त्रिभ्यः प्रणामांजलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥ 29 ॥
वामं वामांकगाया वदनसरसिजे व्यावलद्वल्लभाया व्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् । भूयो भूयोपि मोदान्निपतदतिदयाशीतलं चूतबाणे दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥ 30 ॥
यस्मिन्नर्धेंदुमुग्धद्युतिनिचयतिरस्कारनिस्तंद्रकांतौ काश्मीरक्षोदसंकल्पतमिव रुचिरं चित्रकं भाति नेत्रम् । तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरंगायमाणे कालारेः फालदेशे विहरतु हृदयं वीतचिंतांतरं नः ॥ 31 ॥
स्वामिन्गंगामिवांगीकुरु तव शिरसा मामपीत्यर्थयंतीं धन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली । इत्थं शंकां जनानां जनयदतिघनं कैशिकं कालमेघ- -च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥ 32 ॥
शृंगाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृंगम् । तुंगं माणिक्यकांत्या परिहसितसुरावासशैलेंद्रशृंगं संघं नः संकटानां विघटयतु सदा कांकटीकं किरीटम् ॥ 33 ॥
वक्राकारः कलंकी जडतनुरहमप्यंघ्रिसेवानुभावा- -दुत्तंसत्वं प्रयातः सुलभतरघृणास्यंदिनश्चंद्रमौलेः । तत्सेवंतां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं वंदे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ॥ 34 ॥
कांत्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज- -न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजाम् । सानंदं नंदिदोष्णा मणिकटकवता वाह्यमानः पुरारेः श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ 35 ॥
दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां रुद्राणीसत्सखीनां मदतरलकटाक्षांचलैरंचितानाम् । उद्वेल्लद्बाहुवल्लीविलसनसमये चामरांदोलनीना- -मुद्भूतः कंकणालीवलयकलकलो वारयेदापदो नः ॥ 36 ॥
स्वर्गौकःसुंदरीणां सुललितवपुषां स्वामिसेवापराणां वल्गद्भूषाणि वक्रांबुजपरिविगलन्मुग्धगीतामृतानि । नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक- -प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्तसंभावनानि ॥ 37 ॥
स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यंजयन्मंजुवीणा- -स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् । नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं गानं वीणामहर्षेः कलमतिललितं कर्णपूरयतां नः ॥ 38 ॥
चेतो जातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनां पाणिद्वंद्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला । स्वीयारावेण पाथोधररवपटुना नादयंती मयूरीं मायूरी मंदभावं मणिमुरजभवा मार्जना मार्जयेन्नः ॥ 39 ॥
देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः साध्येभ्यश्चारणेभ्यो मनुजपशुपतज्जातिकीटादिकेभ्यः । श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये संति तेभ्यः सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥ 40 ॥
ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् । संपज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं संप्राप्यायुःशतांते पदमयति परब्रह्मणो मन्मथारेः ॥ 41 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्री शिव पादादिकेशांतवर्णन स्तोत्रम् ॥
Browse Related Categories: