Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ध्यानम् उमाकांते रमाकांते एषामासी-न्मतिस्समा । नमामि दीक्षितेंद्रां स्तान् नयषट्क-विशारदाम् ॥
वेधोहरीश्वरस्तुत्यां विहर्त्रीं विंध्यभूधरे । हरप्राणेश्वरीं वंदे हंत्रीं विबुधविद्विषाम् ॥ 1 ॥
अभ्यर्थनेन सरसीरुहसंभवस्य त्यक्त्वोदिता भगवदक्षिपिधानलीलाम् । विश्वेश्वरी विपदपाकमने पुरस्तात् माता ममास्तु मधुकैटभयोर्निहंत्री ॥ 2 ॥
प्राङ्निर्जरेषु निहतैर्निजशक्तिलेशैः एकीभवद्भिरुदिताऽखिललोकगुप्त्यै । संपन्नशस्त्रनिकरा च तदायुधस्थैः माता ममास्तु महिषांतकरी पुरस्तात् ॥ 3 ॥
प्रालेयशैलतनया तनुकांतिसंपत् कोशोदिता कुवलयच्छविचारुदेहा । नारायणी नमदभीप्सितकल्पवल्ली सुप्रीतिमावहतु शुंभनिशुंभहंत्री ॥ 4 ॥
विश्वेश्वरीति महिषांतकरीति यस्याः नारायणीत्यपि च नामभिरंकितानि । सूक्तानि पंकजभुवा च सुरर्षिभिश्च दृष्टानि पावकमुखैश्च शिवां भजे ताम् ॥ 5 ॥
उत्पत्तिदैत्यहननस्तवनात्मकानि संरक्षकाण्यखिलभूतहिताय यस्याः । सूक्तान्यशेषनिगमांतविदः पठंति तां विश्वमातरमजस्रमभिष्टवीमि ॥ 6 ॥
ये वैप्रचित्तपुनरुत्थितशुंभमुख्यैः दुर्भिक्षघोरसमयेन च कारितासु । आविष्कृतास्त्रिजगदार्तिषु रूपभेदाः तैरंबिका समभिरक्षतु मां विपद्भ्यः ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
सूक्तं यदीयमरविंदभवादि दृष्टं आवर्त्य देव्यनुपदं सुरथः समाधिः । द्वावप्यवापतुरभीष्टमनन्यलभ्यं तामादिदेवतरुणीं प्रणमामि मूर्ध्ना ॥ 8 ॥
माहिष्मतीतनुभवं च रुरुं च हंतुं आविष्कृतैर्निजरसादवतारभेदैः । अष्टादशाहतनवाहतकोटिसंख्यैः अंबा सदा समभिरक्षतु मां विपद्भ्यः ॥ 9 ॥
एतच्चरित्रमखिलं लिखितं हि यस्याः संपूजितं सदन एव निवेशितं वा । दुर्गं च तारयति दुस्तरमप्यशेषं श्रेयः प्रयच्छति च सर्वमुमां भजे ताम् ॥ 10 ॥
यत्पूजनस्तुतिनमस्कृतिभिर्भवंति प्रीताः पितामहरमेशहरास्त्रयोऽपि । तेषामपि स्वकगुणैर्ददती वपूंषि तामीश्वरस्य तरुणीं शरणं प्रपद्ये ॥ 11 ॥
कांतारमध्यदृढलग्नतयाऽवसन्नाः मग्नाश्च वारिधिजले रिपुभिश्च रुद्धाः । यस्याः प्रपद्य चरणौ विपदस्तरंति सा मे सदाऽस्तु हृदि सर्वजगत्सवित्री ॥ 12 ॥
बंधे वधे महति मृत्युभये प्रसक्ते वित्तक्षये च विविधे य महोपतापे । यत्पादपूजनमिह प्रतिकारमाहुः सा मे समस्तजननी शरणं भवानी ॥ 13 ॥
बाणासुरप्रहितपन्नगबंधमोक्षः तद्बाहुदर्पदलनादुषया च योगः । प्राद्युम्निना द्रुतमलभ्यत यत्प्रसादात् सा मे शिवा सकलमप्यशुभं क्षिणोतु ॥ 14 ॥
पापः पुलस्त्यतनयः पुनरुत्थितो मां अद्यापि हर्तुमयमागत इत्युदीतम् । यत्सेवनेन भयमिंदिरयाऽवधूतं तामादिदेवतरुणीं शरणं गतोऽस्मि ॥ 15 ॥
यद्ध्यानजं सुखमवाप्यमनंतपुण्यैः साक्षात्तमच्युत परिग्रहमाश्ववापुः । गोपांगनाः किल यदर्चनपुण्यमात्राः सा मे सदा भगवती भवतु प्रसन्ना ॥ 16 ॥
रात्रिं प्रपद्य इति मंत्रविदः प्रपन्नान् उद्बोध्य मृत्युवधिमन्यफलैः प्रलोभ्य । बुद्ध्वा च तद्विमुखतां प्रतनं नयंतीं आकाशमादिजननीं जगतां भजे ताम् ॥ 17 ॥
देशकालेषु दुष्टेषु दुर्गाचंद्रकलास्तुतिः । संध्ययोरनुसंधेया सर्वापद्विनिवृत्तये ॥ 18 ॥
इति श्रीमदपय्यदीक्षितविरचिता दुर्गाचंद्रकलास्तुतिः ॥
Browse Related Categories: