Ganesha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ब्रह्मविष्णुमहेशा ऊचुः । अजं निर्विकल्पं निराकारमेकं निरानंदमद्वैतमानंदपूर्णम् । परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम ॥ 1 ॥
गुणातीतमाद्यं चिदानंदरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् । मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम ॥ 2 ॥
जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं युगादिं गणेशम् । जगद्व्यापिनं विश्ववंद्यं सुरेशं परब्रह्मरूपं गणेशं भजेम ॥ 3 ॥
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदाचिंत्यरूपम् । जगत्कारकं सर्वविद्यानिधानं परब्रह्मरूपं गणेशं नतास्मः ॥ 4 ॥
सदा सत्त्वयोगं मुदा क्रीडमानं सुरारीन्हरंतं जगत्पालयंतम् । अनेकावतारं निजज्ञानहारं सदा विष्णुरूपं गणेशं नमामः ॥ 5 ॥
तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् । अनेकागमैः स्वं जनं बोधयंतं सदा शर्वरूपं गणेशं नमामः ॥ 6 ॥
तमस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् । मुनिज्ञानकारं विदूरेविकारं सदा ब्रह्मरूपं गणेशं नमामः ॥ 7 ॥
निजैरोषधीस्तर्पयंतं करोद्यैः सरौघान्कलाभिः सुधास्राविणीभिः । दिनेशांशु संतापहारं द्विजेशं शशांकस्वरूपं गणेशं नमामः ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभूतम् । अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः ॥ 9 ॥
प्रधानस्वरूपं महत्तत्त्वरूपं धरावारिरूपं दिगीशादिरूपम् । असत्सत्स्वरूपं जगद्धेतुभूतं सदा विश्वरूपं गणेशं नतास्मः ॥ 10 ॥
त्वदीये मनः स्थापयेदंघ्रियुग्मे जनो विघ्नसंघान्न पीडां लभेत । लसत्सूर्यबिंबे विशाले स्थितोऽयं जनोध्वांत पीडां कथं वा लभेत ॥ 11 ॥
वयं भ्रामिताः सर्वथाऽज्ञानयोगा- -दलब्धा तवांघ्रिं बहून्वर्षपूगान् । इदानीमवाप्तास्तवैव प्रसादा- -त्प्रपन्नान्सदा पाहि विश्वंभराद्य ॥ 12 ॥
गणेश उवाच
इदं यः पठेत्प्रातरुत्थाय धीमान् त्रिसंध्यं सदा भक्तियुक्तो विशुद्धः । सपुत्रान् श्रियं सर्वकामान् लभेत परब्रह्मरूपो भवेदंतकाले ॥ 13
इति गणेशपुराणे उपासनाखंडे त्रयोदशोऽध्याये श्रीगणपतिस्तवः ।
Browse Related Categories: