Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अस्य श्रीललिता त्रिशतीस्तोत्र महामंत्रस्य, भगवान् हयग्रीव ऋषिः, अनुष्टुप् छंदः, श्रीललितामहात्रिपुरसुंदरी देवता, ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, मम चतुर्विधपुरुषार्थफलसिद्ध्यर्थे जपे विनियोगः । ऐमित्यादिभिरंगन्यासकरन्यासाः कार्याः ।
ध्यानम् । अतिमधुरचापहस्ता- -मपरिमितामोदबाणसौभाग्याम् । अरुणामतिशयकरुणा- -मभिनवकुलसुंदरीं वंदे ।
श्री हयग्रीव उवाच
ककाररूपा कल्याणी कल्याणगुणशालिनी । कल्याणशैलनिलया कमनीया कलावती ॥ 1
कमलाक्षी कल्मषघ्नी करुणामृतसागरा । कदंबकाननावासा कदंबकुसुमप्रिया ॥ 2 ॥
कंदर्पविद्या कंदर्पजनकापांगवीक्षणा । कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटा ॥ 3 ॥
कलिदोषहरा कंजलोचना कम्रविग्रहा । कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥ 4 ॥
एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः । एतत्तदित्यनिर्देश्या चैकानंदचिदाकृतिः ॥ 5 ॥
एवमित्यागमाबोध्या चैकभक्तिमदर्चिता । एकाग्रचित्तनिर्ध्याता चैषणारहितादृता ॥ 6 ॥
Offered for worship and study, not as prediction. Non-commercial.
एलासुगंधिचिकुरा चैनःकूटविनाशिनी । एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी ॥ 7 ॥
एकातपत्रसाम्राज्यप्रदा चैकांतपूजिता । एधमानप्रभा चैजदनेकजगदीश्वरी ॥ 8 ॥
एकवीरादिसंसेव्या चैकप्राभवशालिनी । ईकाररूपा चेशित्री चेप्सितार्थप्रदायिनी ॥ 9 ॥
ईदृगित्यविनिर्देश्या चेश्वरत्वविधायिनी । ईशानादिब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥ 10 ॥
ईक्षित्रीक्षणसृष्टांडकोटिरीश्वरवल्लभा । ईडिता चेश्वरार्धांगशरीरेशाधिदेवता ॥ 11 ॥
ईश्वरप्रेरणकरी चेशतांडवसाक्षिणी । ईश्वरोत्संगनिलया चेतिबाधाविनाशिनी ॥ 12 ॥
ईहाविरहिता चेशशक्तिरीषत्स्मितानना । लकाररूपा ललिता लक्ष्मीवाणीनिषेविता ॥ 13 ॥
लाकिनी ललनारूपा लसद्दाडिमपाटला । ललंतिकालसत्फाला ललाटनयनार्चिता ॥ 14 ॥
लक्षणोज्ज्वलदिव्यांगी लक्षकोट्यंडनायिका । लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः ॥ 15 ॥
ललामराजदलिका लंबिमुक्तालतांचिता । लंबोदरप्रसूर्लभ्या लज्जाढ्या लयवर्जिता ॥ 16 ॥
ह्रींकाररूपा ह्रींकारनिलया ह्रींपदप्रिया । ह्रींकारबीजा ह्रींकारमंत्रा ह्रींकारलक्षणा ॥ 17 ॥
ह्रींकारजपसुप्रीता ह्रींमती ह्रींविभूषणा । ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा ॥ 18 ॥
ह्रींकारवाच्या ह्रींकारपूज्या ह्रींकारपीठिका । ह्रींकारवेद्या ह्रींकारचिंत्या ह्रीं ह्रींशरीरिणी ॥ 19 ॥
हकाररूपा हलधृक्पूजिता हरिणेक्षणा । हरप्रिया हराराध्या हरिब्रह्मेंद्रवंदिता ॥ 20 ॥
हयारूढासेवितांघ्रिर्हयमेधसमर्चिता । हर्यक्षवाहना हंसवाहना हतदानवा ॥ 21 ॥
हत्यादिपापशमनी हरिदश्वादिसेविता । हस्तिकुंभोत्तुंगकुचा हस्तिकृत्तिप्रियांगना ॥ 22 ॥
हरिद्राकुंकुमादिग्धा हर्यश्वाद्यमरार्चिता । हरिकेशसखी हादिविद्या हालामदालसा ॥ 23 ॥
सकाररूपा सर्वज्ञा सर्वेशी सर्वमंगला । सर्वकर्त्री सर्वभर्त्री सर्वहंत्री सनातना ॥ 24 ॥
सर्वानवद्या सर्वांगसुंदरी सर्वसाक्षिणी । सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ॥ 25 ॥
सर्वाधारा सर्वगता सर्वावगुणवर्जिता । सर्वारुणा सर्वमाता सर्वभूषणभूषिता ॥ 26 ॥
ककारार्था कालहंत्री कामेशी कामितार्थदा । कामसंजीवनी कल्या कठिनस्तनमंडला ॥ 27 ॥
करभोरूः कलानाथमुखी कचजितांबुदा । कटाक्षस्यंदिकरुणा कपालिप्राणनायिका ॥ 28 ॥
कारुण्यविग्रहा कांता कांतिधूतजपावलिः । कलालापा कंबुकंठी करनिर्जितपल्लवा ॥ 29 ॥
कल्पवल्लीसमभुजा कस्तूरीतिलकांचिता । हकारार्था हंसगतिर्हाटकाभरणोज्ज्वला ॥ 30 ॥
हारहारिकुचाभोगा हाकिनी हल्यवर्जिता । हरित्पतिसमाराध्या हठात्कारहतासुरा ॥ 31 ॥
हर्षप्रदा हविर्भोक्त्री हार्दसंतमसापहा । हल्लीसलास्यसंतुष्टा हंसमंत्रार्थरूपिणी ॥ 32 ॥
हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी । हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥ 33 ॥
हय्यंगवीनहृदया हरिगोपारुणांशुका । लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥ 34 ॥
लास्यदर्शनसंतुष्टा लाभालाभविवर्जिता । लंघ्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ॥ 35 ॥
लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता । लभ्येतरा लब्धभक्तिसुलभा लांगलायुधा ॥ 36 ॥
लग्नचामरहस्तश्रीशारदापरिवीजिता । लज्जापदसमाराध्या लंपटा लकुलेश्वरी ॥ 37 ॥
लब्धमाना लब्धरसा लब्धसंपत्समुन्नतिः । ह्रींकारिणी ह्रींकाराद्या ह्रींमध्या ह्रींशिखामणिः ॥ 38 ॥
ह्रींकारकुंडाग्निशिखा ह्रींकारशशिचंद्रिका । ह्रींकारभास्कररुचिर्ह्रींकारांभोदचंचला ॥ 39 ॥
ह्रींकारकंदांकुरिका ह्रींकारैकपरायणा । ह्रींकारदीर्घिकाहंसी ह्रींकारोद्यानकेकिनी ॥ 40 ॥
ह्रींकारारण्यहरिणी ह्रींकारावालवल्लरी । ह्रींकारपंजरशुकी ह्रींकारांगणदीपिका ॥ 41 ॥
ह्रींकारकंदरासिंही ह्रींकारांभोजभृंगिका । ह्रींकारसुमनोमाध्वी ह्रींकारतरुमंजरी ॥ 42 ॥
सकाराख्या समरसा सकलागमसंस्तुता । सर्ववेदांततात्पर्यभूमिः सदसदाश्रया ॥ 43 ॥
सकला सच्चिदानंदा साध्या सद्गतिदायिनी । सनकादिमुनिध्येया सदाशिवकुटुंबिनी ॥ 44 ॥
सकालाधिष्ठानरूपा सत्यरूपा समाकृतिः । सर्वप्रपंचनिर्मात्री समनाधिकवर्जिता ॥ 45 ॥
सर्वोत्तुंगा संगहीना सगुणा सकलेष्टदा । ककारिणी काव्यलोला कामेश्वरमनोहरा ॥ 46 ॥
कामेश्वरप्राणनाडी कामेशोत्संगवासिनी । कामेश्वरालिंगितांगी कामेश्वरसुखप्रदा ॥ 47 ॥
कामेश्वरप्रणयिनी कामेश्वरविलासिनी । कामेश्वरतपःसिद्धिः कामेश्वरमनःप्रिया ॥ 48 ॥
कामेश्वरप्राणनाथा कामेश्वरविमोहिनी । कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी ॥ 49 ॥
कामेश्वराह्लादकरी कामेश्वरमहेश्वरी । कामेश्वरी कामकोटिनिलया कांक्षितार्थदा ॥ 50 ॥
लकारिणी लब्धरूपा लब्धधीर्लब्धवांछिता । लब्धपापमनोदूरा लब्धाहंकारदुर्गमा ॥ 51 ॥
लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नतिः । लब्धवृद्धिर्लब्धलीला लब्धयौवनशालिनी ॥ 52 ॥
लब्धातिशयसर्वांगसौंदर्या लब्धविभ्रमा । लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः ॥ 53 ॥
लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता । ह्रींकारमूर्तिर्ह्रींकारसौधशृंगकपोतिका ॥ 54 ॥
ह्रींकारदुग्धाब्धिसुधा ह्रींकारकमलेंदिरा । ह्रींकारमणिदीपार्चिर्ह्रींकारतरुशारिका ॥ 55 ॥
ह्रींकारपेटकमणिर्ह्रींकारादर्शबिंबिता । ह्रींकारकोशासिलता ह्रींकारास्थाननर्तकी ॥ 56 ॥
ह्रींकारशुक्तिकामुक्तामणिर्ह्रींकारबोधिता । ह्रींकारमयसौवर्णस्तंभविद्रुमपुत्रिका ॥ 57 ॥
ह्रींकारवेदोपनिषद् ह्रींकाराध्वरदक्षिणा । ह्रींकारनंदनारामनवकल्पकवल्लरी ॥ 58 ॥
ह्रींकारहिमवद्गंगा ह्रींकारार्णवकौस्तुभा । ह्रींकारमंत्रसर्वस्वा ह्रींकारपरसौख्यदा ॥ 59 ॥
उत्तरपीठिका (फलशृतिः) हयग्रीव उवाच
इत्येवं ते मयाख्यातं देव्या नामशतत्रयम् । रहस्यातिरहस्यत्वाद्गोपनीयं त्वया मुने ॥ 1
शिववर्णानि नामानि श्रीदेव्या कथितानि हि । शक्त्यक्षराणि नामानि कामेशकथितानि च ॥ 2 ॥
उभयाक्षरनामानि ह्युभाभ्यां कथितानि वै । तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ॥ 3 ॥
नानेन सदृशं स्तोत्रं श्रीदेवीप्रीतिदायकम् । लोकत्रयेऽपि कल्याणं संभवेन्नात्र संशयः ॥ 4 ॥
सूत उवाच
इति हयमुखगीतं स्तोत्रराजं निशम्य प्रगलितकलुषोऽभूच्चित्तपर्याप्तिमेत्य । निजगुरुमथ नत्वा कुंभजन्मा तदुक्तं पुनरधिकरहस्यं ज्ञातुमेवं जगाद ॥ 5
अगस्त्य उवाच
अश्वानन महाभाग रहस्यमपि मे वद । शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि ॥ 6
उभयोरपि वर्णानि कानि वा वद देशिक । इति पृष्टः कुंभजेन हयग्रीवोऽवदत्पुनः ॥ 7 ॥
हयग्रीव उवाच
तव गोप्यं किमस्तीह साक्षादंबानुशासनात् । इदं त्वतिरहस्यं ते वक्ष्यामि शृणु कुंभज ॥ 8
एतद्विज्ञानमात्रेण श्रीविद्या सिद्धिदा भवेत् । कत्रयं हद्वयं चैव शैवो भागः प्रकीर्तितः ॥ 9 ॥
शक्त्यक्षराणि शेषाणि ह्रींकार उभयात्मकः । एवं विभागमज्ञात्वा ये विद्याजपशालिनः ॥ 10 ॥
न तेषां सिद्धिदा विद्या कल्पकोटिशतैरपि । चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पंचभिः ॥ 11 ॥
नवचक्रैश्च संसिद्धं श्रीचक्रं शिवयोर्वपुः । त्रिकोणमष्टकोणं च दशकोणद्वयं तथा ॥ 12 ॥
चतुर्दशारं चैतानि शक्तिचक्राणि पंच च । बिंदुश्चाष्टदलं पद्मं पद्मं षोडशपत्रकम् ॥ 13 ॥
चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात् । त्रिकोणे बैंदवं श्लिष्टं अष्टारेऽष्टदलांबुजम् ॥ 14 ॥
दशारयोः षोडशारं भूगृहं भुवनाश्रके । शैवानामपि शाक्तानां चक्राणां च परस्परम् ॥ 15 ॥
अविनाभावसंबंधं यो जानाति स चक्रवित् । त्रिकोणरूपिणी शक्तिर्बिंदुरूपपरः शिवः ॥ 16 ॥
अविनाभावसंबंधं तस्माद्बिंदुत्रिकोणयोः । एवं विभागमज्ञात्वा श्रीचक्रं यः समर्चयेत् ॥ 17 ॥
न तत्फलमवाप्नोति ललितांबा न तुष्यति । ये च जानंति लोकेऽस्मिन् श्रीविद्याचक्रवेदिनः ॥ 18 ॥
सामन्यवेदिनः सर्वे विशेषज्ञोऽतिदुर्लभः । स्वयंविद्याविशेषज्ञो विशेषज्ञं समर्चयेत् ॥ 19 ॥
तस्मै देयं ततो ग्राह्यमशक्तस्तस्य दापयेत् । अंधं तमः प्रविशंति येऽविद्यां समुपासते ॥ 20 ॥
इति श्रुतिरपाहैतानविद्योपासकान्पुनः । विद्यान्योपासकानेव निंदत्यारुणिकी श्रुतिः ॥ 21 ॥
अश्रुता सश्रुतासश्च यज्वानो येऽप्ययज्वनः । स्वर्यंतो नापेक्षंते इंद्रमग्निं च ये विदुः ॥ 22 ॥
सिकता इव संयंति रश्मिभिः समुदीरिताः । अस्माल्लोकादमुष्माच्चेत्याह चारण्यकश्रुतिः ॥ 23 ॥
यस्य नो पश्चिमं जन्म यदि वा शंकरः स्वयम् । तेनैव लभ्यते विद्या श्रीमत्पंचदशाक्षरी ॥ 24 ॥
इति मंत्रेषु बहुधा विद्याया महिमोच्यते । मोक्षैकहेतुविद्या तु श्रीविद्या नात्र संशयः ॥ 25 ॥
न शिल्पादिज्ञानयुक्ते विद्वच्छब्धः प्रयुज्यते । मोक्षैकहेतुविद्या सा श्रीविद्यैव न संशयः ॥ 26 ॥
तस्माद्विद्याविदेवात्र विद्वान्विद्वानितीर्यते । स्वयं विद्याविदे दद्यात्ख्यापयेत्तद्गुणान्सुधीः ॥ 27 ॥
स्वयंविद्यारहस्यज्ञो विद्यामाहात्म्यवेद्यपि । विद्याविदं नार्चयेच्चेत्को वा तं पूजयेज्जनः ॥ 28 ॥
प्रसंगादिदमुक्तं ते प्रकृतं शृणु कुंभज । यः कीर्तयेत्सकृद्भक्त्या दिव्यनामशतत्रयम् ॥ 29 ॥
तस्य पुण्यमहं वक्ष्ये शृणु त्वं कुंभसंभव । रहस्यनामसाहस्रपाठे यत्फलमीरितम् ॥ 30 ॥
तत्फलं कोटिगुणितमेकनामजपाद्भवेत् । कामेश्वरीकामेशाभ्यां कृतं नामशतत्रयम् ॥ 31 ॥
नान्येन तुलयेदेतत् स्तोत्रेणान्यकृतेन च । श्रियः परंपरा यस्य भावि वा चोत्तरोत्तरम् ॥ 32 ॥
तेनैव लभ्यते चैतत्पश्चाच्छ्रेयः परीक्षयेत् । अस्या नाम्नां त्रिशत्यास्तु महिमा केन वर्ण्यते ॥ 33 ॥
या स्वयं शिवयोर्वक्त्रपद्माभ्यां परिनिःसृता । नित्यं षोडशसंख्याकान्विप्रानादौ तु भोजयेत् ॥ 34 ॥
अभ्यक्तांस्तिलतैलेन स्नातानुष्णेन वारिणा । अभ्यर्च्य गंधपुष्पाद्यैः कामेश्वर्यादिनामभिः ॥ 35 ॥
सूपापूपैः शर्कराद्यैः पायसैः फलसंयुतैः । विद्याविदो विशेषेण भोजयेत्षोडश द्विजान् ॥ 36 ॥
एवं नित्यार्चनं कुर्यादादौ ब्राह्मणभोजनम् । त्रिशतीनामभिः पश्चाद्ब्राह्मणान्क्रमशोऽर्चयेत् ॥ 37 ॥
तैलाभ्यंगादिकं दत्वा विभवे सति भक्तितः । शुक्लप्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ॥ 38 ॥
दिवसे दिवसे विप्रा भोज्या विंशतिसंख्यया । दशभिः पंचभिर्वापि त्रिभिरेकेन वा दिनैः ॥ 39 ॥
त्रिंशत्षष्टिः शतं विप्राः संभोज्यास्त्रिशतं क्रमात् । एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नरः ॥ 40 ॥
तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिरा । रहस्यनामसाहस्रभोजनेऽप्येवमेव हि ॥ 41 ॥
आदौ नित्यबलिं कुर्यात्पश्चाद्ब्राह्मणभोजनम् । रहस्यनामसाहस्रमहिमा यो मयोदितः ॥ 42 ॥
स शीकराणुरत्नैकनाम्नो महिमवारिधेः । वाग्देवीरचिते नामसाहस्रे यद्यदीरितम् ॥ 43 ॥
तत्फलं कोटिगुणितं नाम्नोऽप्येकस्य कीर्तनात् । एतदन्यैर्जपैः स्तोत्रैरर्चनैर्यत्फलं भवेत् ॥ 44 ॥
तत्फलं कोटिगुणितं भवेन्नामशतत्रयात् । वाग्देवीरचिते स्तोत्रे तादृशो महिमा यदि ॥ 45 ॥
साक्षात्कामेशकामेशीकृतेऽस्मिन्गृह्यतामिति । सकृत्संकीर्तनादेव नाम्नामस्मिन् शतत्रये ॥ 46 ॥
भवेच्चित्तस्य पर्याप्तिर्न्यूनमन्यानपेक्षिणी । न ज्ञातव्यमितोऽप्यन्यत्र जप्तव्यं च कुंभज ॥ 47 ॥
यद्यत्साध्यतमं कार्यं तत्तदर्थमिदं जपेत् । तत्तत्फलमवाप्नोति पश्चात्कार्यं परीक्षयेत् ॥ 48 ॥
ये ये प्रयोगास्तंत्रेषु तैस्तैर्यत्साध्यते फलम् । तत्सर्वं सिध्यति क्षिप्रं नामत्रिशतकीर्तनात् ॥ 49 ॥
आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम् । विद्याप्रदं कीर्तिकरं सुकवित्वप्रदायकम् ॥ 50 ॥
सर्वसंपत्प्रदं सर्वभोगदं सर्वसौख्यदम् । सर्वाभीष्टप्रदं चैव देव्या नामशतत्रयम् ॥ 51 ॥
एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन । एतत्कीर्तनसंतुष्टा श्रीदेवी ललितांबिका ॥ 52 ॥
भक्तस्य यद्यदिष्टं स्यात्तत्तत्पूरयते ध्रुवम् । तस्मात्कुंभोद्भव मुने कीर्तय त्वमिदं सदा ॥ 53 ॥
नापरं किंचिदपि ते बोद्धव्यमवशिष्यते । इति ते कथितं स्तोत्रं ललिताप्रीतिदायकम् ॥ 54 ॥
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन । न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ॥ 56 ॥
यो ब्रूयात्त्रिशतीं नाम्नां तस्यानर्थो महान्भवेत् । इत्याज्ञा शांकरी प्रोक्ता तस्माद्गोप्यमिदं त्वया ॥ 57 ॥
ललिताप्रेरितेनैव मयोक्तं स्तोत्रमुत्तमम् । रहस्यनामसाहस्रादपि गोप्यमिदं मुने ॥ 58 ॥
सूत उवाच
एवमुक्त्वा हयग्रीवः कुंभजं तापसोत्तमम् । स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुंदरीम् । आनंदलहरीमग्नमानसः समवर्तत ॥ 59
इति ब्रह्मांडपुराणे उत्तरखंडे हयग्रीवागस्त्यसंवादे ललितोपाख्याने स्तोत्रखंडे श्रीललितात्रिशतीस्तोत्ररत्नम् ।
Browse Related Categories: