Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ओमित्येकाक्षरं ब्रह्म व्याहरंति त्रयश्शिखाः । तस्मैतारात्मने मेधादक्षिणामूर्तये नमः ॥ 1 ॥
नत्वा यं मुनयस्सर्वे परंयांति दुरासदम् । नकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
मोहजालविनिर्मुक्तो ब्रह्मविद्याति यत्पदम् । मोकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 3 ॥
भवमाश्रित्ययं विद्वान् नभवोह्यभवत्परः । भकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 4 ॥
गगनाकारवद्भांतमनुभात्यखिलं जगत् । गकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 5 ॥
वटमूलनिवासो यो लोकानां प्रभुरव्ययः । वकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 6 ॥
तेजोभिर्यस्यसूर्योऽसौ कालक्लृप्तिकरो भवेत् । तेकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 7 ॥
दक्षत्रिपुरसंहारे यः कालविषभंजने । दकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 8 ॥
क्षिप्रं भवति वाक्सिद्धिर्यन्नामस्मरणान्नृणाम् । क्षिकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 9 ॥
णाकारवाच्योयस्सुप्तं संदीपयति मे मनः । णाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 10 ॥
मूर्तयो ह्यष्टधायस्य जगज्जन्मादिकारणम् । मूकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 11 ॥
तत्त्वं ब्रह्मासि परममिति यद्गुरुबोधितः । सरेफतात्मने मेधादक्षिणामूर्तये नमः ॥ 12 ॥
येयं विदित्वा ब्रह्माद्या ऋषयो यांति निर्वृतिम् । येकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 13 ॥
महतां देवमित्याहुर्निगमागमयोश्शिवः । मकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 14 ॥
सर्वस्यजगतो ह्यंतर्बहिर्यो व्याप्यसंस्थितः । ह्यकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 15 ॥
त्वमेव जगतस्साक्षी सृष्टिस्थित्यंतकारणम् । मेकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 16 ॥
धामेति धातृसृष्टेर्यत्कारणं कार्यमुच्यते । धांकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 17 ॥
प्रकृतेर्यत्परं ध्यात्वा तादात्म्यं याति वै मुनिः । प्रकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 18 ॥
ज्ञानिनोयमुपास्यंति तत्त्वातीतं चिदात्मकम् । ज्ञाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 19 ॥
प्रज्ञा संजायते यस्य ध्याननामार्चनादिभिः । प्रकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 20 ॥
यस्य स्मरणमात्रेण नरोमुक्तस्सबंधनात् । [ सरोमुक्त ] यकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 21 ॥
छवेर्यन्नेंद्रियाण्यापुर्विषयेष्विह जाड्यताम् । छकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 22 ॥
स्वांतेविदां जडानां यो दूरेतिष्ठति चिन्मयः । स्वाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 23 ॥
हारप्रायफणींद्राय सर्वविद्याप्रदायिने । हाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 24 ॥
इति श्री मेधादक्षिणामूर्ति मंत्रवर्णपद स्तुतिः ॥
Browse Related Categories: