Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
यः श्रीगोवर्धनाद्रिं सकलसुरपतींस्तत्रगोगोपबृंदं स्वीयं संरक्षितुं चेत्यमरसुखकरं मोहयन् संदधार । तन्मानं खंडयित्वा विजितरिपुकुलो नीलधाराधराभः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 1 ॥
यं दृष्ट्वा कंसभूपः स्वकृतकृतिमहो संस्मरन्मंत्रिवर्यान् किं वा पूर्वं मयेदं कृतमिति वचनं दुःखितः प्रत्युवाच । आज्ञप्तो नारदेन स्मितयुतवदनः पूरयन्सर्वकामान् कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 2 ॥
येन प्रोद्यत्प्रतापा नृपतिकुलभवाः पांडवाः कौरवाब्धिं तीर्त्वा पारं तदीयं जगदखिलनृणां दुस्तरंचेति जग्मुः । तत्पत्नीचीरवृद्धिप्रविदितमहिमा भूतले भूपतीशः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 3 ॥
यस्मै चोद्धृत्य पात्राद्दधियुतनवनीतं करैर्गोपिकाभि- र्दत्तं तद्भावपूर्तौ विनिहितहृदयस्सत्यमेवं तिरोधात् । मुक्तागुंजावलीभिः प्रचुरतमरुचिः कुंडलाक्रांतगंडः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 4 ॥
यस्माद्विश्वाभिरामादिह जननविधौ सर्वनंदादिगोपाः संसारार्तेर्विमुक्ताः सकलसुखकराः संपदः प्रापुरेव । इत्थं पूर्णेंदुवक्त्रः कलकमलदृशः स्वीयजन्म स्तुवंतः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 5 ॥
यस्य श्रीनंदसूनोः व्रजयुवतिजनाश्चागता भर्तृपुत्रां- स्त्यक्त्वा श्रुत्वा समीपे विचकितनयनाः सप्रमोदाः स्वगेहे । रंतुं रासादिलीला मनसिजदलिता वेणुनादं च रम्यं कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 6 ॥
यस्मिन् दृष्टे समस्ते जगति युवतयः प्राणनाथव्रताया- स्ता अप्येवं हि नूनं किमपि च हृदये कामभावं दधत्यः । तत्स्नेहाब्धिं वपुश्चेदविदितधरणौ सूर्यबिंबस्वरूपाः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
यः स्वीये गोकुलेऽस्मिन्विदितनिजकुलोद्भूतबालैः समेतो मातर्येवं चकार प्रसृततमगुणान्बाललीलाविलासान् । हत्वा वत्सप्रलंबद्विविदबकखरान्गोपबृंदं जुगोप कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 8 ॥
कृष्णाराधाष्टकं प्रातरुत्थाय प्रपठेन्नरः । य एवं सर्वदा नूनं स प्राप्नोति परां गतिम् ॥ 9 ॥
इति श्रीरघुनाथचार्य विरचितं श्रीराधाकृष्णाष्टकम् ।
Browse Related Categories: