Subrahmanya Swamy · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
भजेऽहं कुमारं भवानीकुमारं गलोल्लासिहारं नमत्सद्विहारम् । रिपुस्तोमपारं नृसिंहावतारं सदानिर्विकारं गुहं निर्विचारम् ॥ 1 ॥
नमामीशपुत्रं जपाशोणगात्रं सुरारातिशत्रुं रवींद्वग्निनेत्रम् । महाबर्हिपत्रं शिवास्याब्जमित्रं प्रभास्वत्कलत्रं पुराणं पवित्रम् ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
अनेकार्ककोटि-प्रभावज्ज्वलं तं मनोहारि माणिक्य भूषोज्ज्वलं तम् । श्रितानामभीष्टं निशांतं नितांतं भजे षण्मुखं तं शरच्चंद्रकांतम् ॥ 3 ॥
कृपावारि कल्लोलभास्वत्कटाक्षं विराजन्मनोहारि शोणांबुजाक्षम् । प्रयोगप्रदानप्रवाहैकदक्षं भजे कांतिकांतं परस्तोमरक्षम् ॥ 4 ॥
सुकस्तूरिसिंदूरभास्वल्ललाटं दयापूर्णचित्तं महादेवपुत्रम् । रवींदूल्लसद्रत्नराजत्किरीटं भजे क्रीडिताकाश गंगाद्रिकूटम् ॥ 5 ॥
सुकुंदप्रसूनावलीशोभितांगं शरत्पूर्णचंद्रप्रभाकांतिकांतम् । शिरीषप्रसूनाभिरामं भवंतं भजे देवसेनापतिं वल्लभं तम् ॥ 6 ॥
सुलावण्यसत्सूर्यकोटिप्रतीकं प्रभुं तारकारिं द्विषड्बाहुमीशम् । निजांकप्रभादिव्यमानापदीशं भजे पार्वतीप्राणपुत्रं सुकेशम् ॥ 7 ॥
अजं सर्वलोकप्रियं लोकनाथं गुहं शूरपद्मादिदंभोलिधारम् । सुचारुं सुनासापुटं सच्चरित्रं भजे कार्तिकेयं सदा बाहुलेयम् ॥ 8 ॥
शरारण्यसंभूतमिंद्रादिवंद्यं द्विषड्बाहुसंख्यायुधश्रेणिरम्यम् । मरुत्सारथिं कुक्कुटेशं सुकेतुं भजे योगिहृत्पद्ममध्याधिवासम् ॥ 9 ॥
विरिंचींद्रवल्लीश देवेशमुख्यं प्रशस्तामरस्तोमसंस्तूयमानम् । दिश त्वं दयालो श्रियं निश्चलां मे विना त्वां गतिः का प्रभो मे प्रसीद ॥ 10 ॥
पदांभोजसेवा समायातबृंदा- रकश्रेणिकोटीरभास्वल्ललाटम् । कलत्रोल्लसत्पार्श्वयुग्मं वरेण्यं भजे देवमाद्यंतहीनप्रभावम् ॥ 11 ॥
भवांभोधिमध्ये तरंगे पतंतं प्रभो मां सदा पूर्णदृष्ट्या समीक्ष्य । भवद्भक्तिनावोद्धर त्वं दयालो सुगत्यंतरं नास्ति देव प्रसीद ॥ 12 ॥
गले रत्नभूषं तनौ मंजुवेषं करे ज्ञानशक्तिं दरस्मेरमास्ये । कटिन्यस्तपाणिं शिखिस्थं कुमारं भजेऽहं गुहादन्यदेवं न मन्ये ॥ 13 ॥
दयाहीनचित्तं परद्रोहपात्रं सदा पापशीलं गुरोर्भक्तिहीनम् । अनन्यावलंबं भवन्नेत्रपात्रं कृपाशील मां भो पवित्रं कुरु त्वम् ॥ 14 ॥
महासेन गांगेय वल्लीसहाय प्रभो तारकारे षडास्यामरेश । सदा पायसान्नप्रदातर्गुहेति स्मरिष्यामि भक्त्या सदाहं विभो त्वाम् ॥ 15 ॥
प्रतापस्य बाहो नमद्वीरबाहो प्रभो कार्तिकेयेष्टकामप्रदेति । यदा ये पठंते भवंतं तदेवं प्रसन्नस्तु तेषां बहुश्रीं ददासि ॥ 16 ॥
अपारातिदारिद्र्यवाराशिमध्ये भ्रमंतं जनग्राहपूर्णे नितांतम् । महासेन मामुद्धर त्वं कटाक्षा- वलोकेन किंचित्प्रसीद प्रसीद ॥ 17 ॥
स्थिरां देहि भक्तिं भवत्पादपद्मे श्रियं निश्चलां देहि मह्यं कुमार । गुहं चंद्रतारं सुवंशाभिवृद्धिं कुरु त्वं प्रभो मे मनः कल्पसालः ॥ 18 ॥
नमस्ते नमस्ते महाशक्तिपाणे नमस्ते नमस्ते लसद्वज्रपाणे । नमस्ते नमस्ते कटिन्यस्तपाणे नमस्ते नमस्ते सदाभीष्टपाणे ॥ 19 ॥
नमस्ते नमस्ते महाशक्तिधारिन् नमस्ते सुराणां महासौख्यदायिन् । नमस्ते सदा कुक्कुटेशाख्यक त्वं समस्तापराधं विभो मे क्षमस्व ॥ 20 ॥
कुमारात्परं कर्मयोगं न जाने कुमारात्परं कर्मशीलं न जाने । य एको मुनीनां हृदब्जाधिवासः शिवांकं समारुह्य सत्पीठकल्पम् ॥ 21 ॥
विरिंचाय मंत्रोपदेशं चकार प्रमोदेन सोऽयं तनोतु श्रियं मे । यमाहुः परं वेद शूरेषु मुख्यं सदा यस्य शक्त्या जगत्भीतभीता ॥ 22 ॥
यमाश्रित्य देवाः स्थिरं स्वर्गपालाः सदोंकाररूपं चिदानंदमीडे । गुहस्तोत्रमेतत् कृतं तारकारे भुजंगप्रयातेन हृद्येन कांतम् ॥ 23 ॥
जना ये पठंते महाभक्तियुक्ताः प्रमोदेन सायं प्रभाते विशेषः । न जन्मर्क्षयोगे यदा ते रुदांता मनोवांछितान् सर्वकामान् लभंते ॥ 23 ॥
इति श्री सुब्रह्मण्य भुजंग प्रयात स्तोत्रम् ।
Browse Related Categories: