Subrahmanya Swamy · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
सदा बालरूपाऽपि विघ्नाद्रिहंत्री महादंतिवक्त्राऽपि पंचास्यमान्या । विधींद्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियं काऽपि कल्याणमूर्तिः ॥ 1 ॥
न जानामि शब्दं न जानामि चार्थं न जानामि पद्यं न जानामि गद्यम् । चिदेका षडास्या हृदि द्योतते मे मुखान्निःसरंते गिरश्चापि चित्रम् ॥ 2 ॥
मयूराधिरूढं महावाक्यगूढं मनोहारिदेहं महच्चित्तगेहम् । महीदेवदेवं महावेदभावं महादेवबालं भजे लोकपालम् ॥ 3 ॥
यदा संनिधानं गता मानवा मे भवांभोधिपारं गतास्ते तदैव । इति व्यंजयन्सिंधुतीरे य आस्ते तमीडे पवित्रं पराशक्तिपुत्रम् ॥ 4 ॥
यथाब्धेस्तरंगा लयं यांति तुंगा- स्तथैवापदः संनिधौ सेवतां मे । इतीवोर्मिपंक्तीर्नृणां दर्शयंतं सदा भावये हृत्सरोजे गुहं तम् ॥ 5 ॥
गिरौ मन्निवासे नरा येऽधिरूढा- स्तदा पर्वते राजते तेऽधिरूढाः । इतीव ब्रुवन्गंधशैलाधिरूढः स देवो मुदे मे सदा षण्मुखोऽस्तु ॥ 6 ॥
महांभोधितीरे महापापचोरे मुनींद्रानुकूले सुगंधाख्यशैले । गुहायां वसंतं स्वभासा लसंतं जनार्तिं हरंतं श्रयामो गुहं तम् ॥ 7 ॥
लसत्स्वर्णगेहे नृणां कामदोहे सुमस्तोमसंछन्नमाणिक्यमंचे । समुद्यत्सहस्रार्कतुल्यप्रकाशं सदा भावये कार्तिकेयं सुरेशम् ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
रणथंसके मंजुलेऽत्यंतशोणे मनोहारिलावण्यपीयूषपूर्णे । मनःषट्पदो मे भवक्लेशतप्तः सदा मोदतां स्कंद ते पादपद्मे ॥ 9 ॥
सुवर्णाभदिव्यांबरैर्भासमानां क्वणत्किंकिणीमेखलाशोभमानाम् । लसद्धेमपट्टेन विद्योतमानं कटिं भावये स्कंद ते दीप्यमानाम् ॥ 10 ॥
पुलिंदेशकन्याघनाभोगतुंग- स्तनालिंगनासक्तकाश्मीररागम् । नमस्याम्यहं तारकारे तवोरः स्वभक्तावने सर्वदा सानुरागम् ॥ 11 ॥
विधौ क्लृप्तदंडान्स्वलीलाधृतांडा- न्निरस्तेभशुंडांद्विषत्कालदंडान् । हतेंद्रारिषंडान्जगत्राणशौंडा- न्सदा ते प्रचंडान्श्रये बाहुदंडान् ॥ 12 ॥
सदा शारदाः षण्मृगांका यदि स्युः समुद्यंत एव स्थिताश्चेत्समंतात् । सदा पूर्णबिंबाः कलंकैश्च हीना- स्तदा त्वन्मुखानां ब्रुवे स्कंद साम्यम् ॥ 13 ॥
स्फुरन्मंदहासैः सहंसानि चंच- त्कटाक्षावलीभृंगसंघोज्ज्वलानि । सुधास्यंदिबिंबाधराणीशसूनो तवालोकये षण्मुखांभोरुहाणि ॥ 14 ॥
विशालेषु कर्णांतदीर्घेष्वजस्रं दयास्यंदिषु द्वादशस्वीक्षणेषु । मयीषत्कटाक्षः सकृत्पातितश्चे- द्भवेत्ते दयाशील का नाम हानिः ॥ 15 ॥
सुतांगोद्भवो मेऽसि जीवेति षड्धा जपन्मंत्रमीशो मुदा जिघ्रते यान् । जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥ 16 ॥
स्फुरद्रत्नकेयूरहाराभिराम- श्चलत्कुंडलश्रीलसद्गंडभागः । कटौ पीतवासाः करे चारुशक्तिः पुरस्तान्ममास्तां पुरारेस्तनूजः ॥ 17 ॥
इहायाहि वत्सेति हस्तान्प्रसार्या- ह्वयत्यादराच्छंकरे मातुरंकात् । समुत्पत्य तातं श्रयंतं कुमारं हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥ 18 ॥
कुमारेशसूनो गुह स्कंद सेना- पते शक्तिपाणे मयूराधिरूढ । पुलिंदात्मजाकांत भक्तार्तिहारिन् प्रभो तारकारे सदा रक्ष मां त्वम् ॥ 19 ॥
प्रशांतेंद्रिये नष्टसंज्ञे विचेष्टे कफोद्गारिवक्त्रे भयोत्कंपिगात्रे । प्रयाणोन्मुखे मय्यनाथे तदानीं द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥ 20 ॥
कृतांतस्य दूतेषु चंडेषु कोपा- द्दहच्छिंद्धि भिंद्धीति मां तर्जयत्सु । मयूरं समारुह्य मा भैरिति त्वं पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥ 21 ॥
प्रणम्यासकृत्पादयोस्ते पतित्वा प्रसाद्य प्रभो प्रार्थयेऽनेकवारम् । न वक्तुं क्षमोऽहं तदानीं कृपाब्धे न कार्यांतकाले मनागप्युपेक्षा ॥ 22 ॥
सहस्रांडभोक्ता त्वया शूरनामा हतस्तारकः सिंहवक्त्रश्च दैत्यः । ममांतर्हृदिस्थं मनःक्लेशमेकं न हंसि प्रभो किं करोमि क्व यामि ॥ 23 ॥
अहं सर्वदा दुःखभारावसन्नो भवांदीनबंधुस्त्वदन्यं न याचे । भवद्भक्तिरोधं सदा क्लृप्तबाधं ममाधिं द्रुतं नाशयोमासुत त्वम् ॥ 24 ॥
अपस्मारकुष्टक्षयार्शः प्रमेह- ज्वरोन्मादगुल्मादिरोगा महांतः । पिशाचाश्च सर्वे भवत्पत्रभूतिं विलोक्य क्षणात्तारकारे द्रवंते ॥ 25 ॥
दृशि स्कंदमूर्तिः श्रुतौ स्कंदकीर्ति- र्मुखे मे पवित्रं सदा तच्चरित्रम् । करे तस्य कृत्यं वपुस्तस्य भृत्यं गुहे संतु लीना ममाशेषभावाः ॥ 26 ॥
मुनीनामुताहो नृणां भक्तिभाजा- मभीष्टप्रदाः संति सर्वत्र देवाः । नृणामंत्यजानामपि स्वार्थदाने गुहाद्देवमन्यं न जाने न जाने ॥ 27 ॥
कलत्रं सुता बंधुवर्गः पशुर्वा नरो वाथ नारी गृहे ये मदीयाः । यजंतो नमंतः स्तुवंतो भवंतं स्मरंतश्च ते संतु सर्वे कुमार ॥ 28 ॥
मृगाः पक्षिणो दंशका ये च दुष्टा- स्तथा व्याधयो बाधका ये मदंगे । भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे विनश्यंतु ते चूर्णितक्रौंचशैल ॥ 29 ॥
जनित्री पिता च स्वपुत्रापराधं सहेते न किं देवसेनाधिनाथ । अहं चातिबालो भवान् लोकतातः क्षमस्वापराधं समस्तं महेश ॥ 30 ॥
नमः केकिने शक्तये चापि तुभ्यं नमश्छाग तुभ्यं नमः कुक्कुटाय । नमः सिंधवे सिंधुदेशाय तुभ्यं पुनः स्कंदमूर्ते नमस्ते नमोऽस्तु ॥ 31 ॥
जयानंदभूमं जयापारधामं जयामोघकीर्ते जयानंदमूर्ते । जयानंदसिंधो जयाशेषबंधो जय त्वं सदा मुक्तिदानेशसूनो ॥ 32 ॥
भुजंगाख्यवृत्तेन क्लृप्तं स्तवं यः पठेद्भक्तियुक्तो गुहं संप्रणम्य । स पुत्रान्कलत्रं धनं दीर्घमायु- र्लभेत्स्कंदसायुज्यमंते नरः सः ॥ 33 ॥
Browse Related Categories: