Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अथ पंचमोऽध्यायः ।
राजा उवाच
भगवंतं हरिं प्रायः न भजंति आत्मवित्तमाः । तेषां अशांतकामानां का निष्ठा अविजितात्मनाम् ॥ 1
चमसः उवाच
मुखबाहूरूपादेभ्यः पुरुषस्य आश्रमैः सह । चत्वारः जज्ञिरे वर्णाः गुणैः विप्रादयः पृथक् ॥ 2
यः एषां पुरुषं साक्षात् आत्मप्रभवं ईश्वरम् । न भजंति अवजानंति स्थानात् भ्रष्टाः पतंति अधः ॥ 3॥
दूरे हरिकथाः केचित् दूरे च अच्युतकीर्र्तनाः । स्त्रियः शूद्रादयः च एव ते अनुकंप्या भवादृशाम् ॥ 4॥
विप्रः राजन्यवैश्यौ च हरेः प्राप्ताः पदांतिकम् । श्रौतेन जन्मना अथ अपि मुह्यंति आम्नायवादिनः ॥ 5॥
कर्मणि अकोविदाः स्तब्धाः मूर्खाः पंडितमानिनः । वदंति चाटुकात् मूढाः यया माध्व्या गिर उत्सुकाः ॥ 6॥
रजसा घोरसंकल्पाः कामुकाः अहिमन्यवः । दांभिकाः मानिनः पापाः विहसंति अच्युतप्रियान् ॥ 7॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
वदंति ते अन्योन्यं उपासितस्त्रियः गृहेषु मैथुन्यसुखेषु च आशिषः । यजंति असृष्टान् अविधान् अदक्षिणम् वृत्त्यै परं घ्नंति पशून् अतद्विदः ॥ 8॥
श्रिया विभूत्या अभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा सतः अवमन्यंति हरिप्रियान् खलाः ॥ 9॥
सर्वेषु शश्वत् तनुभृत् स्ववस्थितम् यथा स्वं आत्मानं अभीष्टं ईश्वरम् । वेदोपगीतं च न श्रुण्वते अबुधाः मनोरथानां प्रवदंति वार्तया ॥ 10॥
लोके व्यवाय आमिषं अद्यसेवा नित्याः तु जंतोः न हि तत्र चोदना । व्यवस्थितिः तेषु विवाहयज्ञ सुराग्रहैः आसु निवृत्तिः इष्टा ॥ 11॥
धनं च धर्मेकफलं यतः वै ज्ञानं सविज्ञानं अनुप्रशांति । गृहेषु युंजंति कलेवरस्य मृत्युं न पश्यंति दुरंतवीर्यम् ॥ 12॥
यत् घ्राणभक्षः विहितः सुरायाः तथा पशोः आलभनं न हिंसा । एवं व्यवायः प्रजया न रत्या इअमं विशुद्धं न विदुः स्वधर्मम् ॥ 13॥
ये तु अनेवंविदः असंतः स्तब्धाः सत् अभिमानिनः । पशून् द्रुह्यंति विस्रब्धाः प्रेत्य खादंति ते च तान् ॥ 14॥
द्विषंतः परकायेषु स्वात्मानं हरिं ईश्वरम् । मृतके सानुबंधे अस्मिन् बद्धस्नेहाः पतंति अधः ॥ 15॥
ये कैवल्यं असंप्राप्ताः ये च अतीताः च मूढताम् । त्रैवर्गिकाः हि अक्षणिकाः आत्मानं घातयंति ते ॥ 16॥
एतः आत्महनः अशांताः अज्ञाने ज्ञानमानिनः । सीदंति अकृतकृत्याः वै कालध्वस्तमनोरथाः ॥ 17॥
हित्वा आत्याय असरचिताः गृह अपत्यसुहृत् श्रियः । तमः विशंति अनिच्छंतः वासुदेवपराङ्मुखाः ॥ 18॥
राजा उवाच
कस्मिन् काले सः भगवान् किं वर्णः कीदृशः नृभिः । नाम्ना वा केन विधिना पूज्यते तत् इह उच्यताम् ॥ 19
करभाजनः उवाच
कृतं त्रेता द्वापरं च कलिः इत्येषु केशवः । नानावर्ण अभिधाकारः नाना एव विधिना इज्यते ॥ 20
कृते शुक्लः चतुर्बाहुः जटिलः वल्कलांबरः । कृष्णाजिनौपवीताक्षान् बिभ्रत् दंडकमंडलून् ॥ 21॥
मनुष्याः तु तदा शांताः निर्वैराः सुहृदः समाः । यजंति तपसा देवं शमेन च दमेन च ॥ 22॥
हंसः सुपर्णः वैकुंठः धर्मः योगेश्वरः अमलः । ईश्वरः पुरुषः अव्यक्तः परमात्मा इति गीयते ॥ 23॥
त्रेतायां रक्तवर्णः असौ चतुर्बाहुः त्रिमेखलः । हिरण्यकेशः त्रयी आत्मा स्रुक्स्रुवादि उपलक्षणः ॥ 24॥
तं तदा मनुजा देवं सर्वदेवमयं हरिम् । यजंति विद्यया त्रय्या धर्मिष्ठाः ब्रह्मवादिनः ॥ 25॥
विष्णुः यज्ञः पृष्णिगर्भः सर्वदेवः उरुक्रमः । वृषाकपिः जयंतः च उरुगाय इति ईर्यते ॥ 26॥
द्वापरे भगवान् श्यामः पीतवासा निजायुधः । श्रीवत्सादिभिः अंकैः च लक्षणैः उपलक्षितः ॥ 27॥
तं तदा पुरुषं मर्त्या महाराजौपलक्षणम् । यजंति वेदतंत्राभ्यां परं जिज्ञासवः नृप ॥ 28॥
नमः ते वासुदेवाय नमः संकर्षणाय च । प्रद्युम्नाय अनिरुद्धाय तुभ्यं भगवते नमः ॥ 29॥
नारायणाय ऋषये पुरुषाय महात्मने । विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ 30॥
इति द्वापरः उर्वीश स्तुवंति जगदीश्वरम् । नानातंत्रविधानेन कलौ अपि यथा श्रुणु ॥ 31॥
कृष्णवर्णं त्विषाकृष्णं सांगौपांगास्त्र पार्षदम् । यज्ञैः संकीर्तनप्रायैः यजंति हि सुमेधसः ॥ 32॥
ध्येयं सदा परिभवघ्नं अभीष्टदोहम् तीर्थास्पदं शिवविरिंचिनुतं शरण्यम् । भृत्यार्तिहन् प्रणतपाल भवाब्धिपोतम् वंदे महापुरुष ते चरणारविंदम् ॥ 33॥
त्यक्त्वा सुदुस्त्यजसुरैप्सितराज्यलक्ष्मीम् धर्मिष्ठः आर्यवचसा यत् अगात् अरण्यम् । मायामृगं दयितया इप्सितं अन्वधावत् वंदे महापुरुष ते चरणारविंदम् ॥ 34॥
एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः । मनुजैः इज्यते राजन् श्रेयसां ईश्वरः हरिः ॥ 35॥
कलिं सभाजयंति आर्या गुणज्ञाः सारभागिनः । यत्र संकीर्तनेन एव सर्वः स्वार्थः अभिलभ्यते ॥ 36॥
न हि अतः परमः लाभः देहिनां भ्राम्यतां इह । यतः विंदेत परमां शांतिं नश्यति संसृतिः ॥ 37॥
कृतादिषु प्रजा राजन् कलौ इच्छंति संभवम् । कलौ खलु भविष्यंति नारायणपरायणाः ॥ 38॥
क्वचित् क्वचित् महाराज द्रविडेषु च भूरिशः । ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ 39॥
कावेरी च महापुण्या प्रतीची च महानदी । ये पिबंति जलं तासां मनुजा मनुजेश्वर । प्रायः भक्ताः भगवति वासुदेवः अमल आशयाः ॥ 40॥
देवर्षिभूताप्तनृणा पितॄणां न किंकरः न अयं ऋणी च राजन् । सर्वात्मना यः शरणं शरण्यम् गतः मुकुंदं परिहृत्य कर्तुम् ॥ 41॥
स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यत् च उत्पतितं कथंचित् धुनोति सर्वं हृदि संनिविष्टः ॥ 42॥
नारदः उवाच
धर्मान् भागवतान् इत्थं श्रुत्वा अथ मिथिलेश्वरः । जायंत इयान् मुनीन् प्रीतः सोपाध्यायः हि अपूजयत् ॥ 43
ततः अंतः दधिरे सिद्धाः सर्वलोकस्य पश्यतः । राजा धर्मान् उपातिष्ठन् अवाप परमां गतिम् ॥ 44॥
त्वं अपि एतान् महाभाग धर्मान् भागवतान् श्रुतान् । आस्थितः श्रद्धया युक्तः निःसंगः यास्यसे परम् ॥ 45॥
युवयोः खलु दंपत्योः यशसा पूरितं जगत् । पुत्रतां अगमत् यत् वां भगवान् ईश्वरः हरिः ॥ 46॥
दर्शनालिंगनालापैः शयनासनभोजनैः । आत्मा वां पावितः कृष्णे पुत्रस्नेह प्रकुर्वतोः ॥ 47॥
वैरेण यं नृपतयः शिशुपालपौंड्र शाल्वादयः गतिविलासविलोकनादयैः । ध्यायंतः आकृतधियः शयनासनादौ तत् साम्यं आपुः अनुरक्तधियां पुनः किम् ॥ 48॥
मा अपत्यबुद्धिं अकृथाः कृष्णे सर्वात्मनीश्वरे । मायामनुष्यभावेन गूढ ऐश्वर्ये परे अव्यये ॥ 49॥
भूभारराजन्यहंतवे गुप्तये सताम् । अवतीर्णस्य निर्वृत्यै यशः लोके वितन्यते ॥ 50॥
श्रीशुकः उवाच
एतत् श्रुत्वा महाभागः वसुदेवः अतिविस्मितः । देवकी च महाभागाः जहतुः मोहं आत्मनः ॥ 51
इतिहासं इमं पुण्यं धारयेत् यः समाहितः । सः विधूय इह शमलं ब्रह्मभूयाय कल्पते ॥ 52॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे वसुदेवनारदसंवादे पंचमोऽध्यायः ॥
Browse Related Categories: