Vidura Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरहितवाक्ये पंचत्रिंशोऽध्यायः ॥
धृतराष्ट्र उवाच
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः । शऋण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ 1॥
विदुर उवाच
सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् । उभे एते समे स्यातामार्जवं वा विशिष्यते ॥ 2॥
आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो । इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ 3॥
यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते । तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥ 4॥
अत्राप्युदाहरंतीममितिहासं पुरातनम् । विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥ 5॥
केशिन्युवाच
किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन । अथ केन स्म पर्यंकं सुधन्वा नाधिरोहति ॥ 6॥
विरोचन उवाच
प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः । अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥ 7॥
केशिन्युवाच
इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन । सुधन्वा प्रातरागंता पश्येयं वां समागतौ ॥ 8॥
विरोचन उवाच
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे । सुधन्वानं च मां चैव प्रातर्द्रष्टासि संगतौ ॥ 9॥
विदुर उवाच
अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् । एकत्वमुपसंपन्नो न त्वासेयं त्वया सह ॥ 10॥
विरोचन उवाच
अन्वाहरंतु फलकं कूर्चं वाप्यथ वा बृसीम् । सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥ 11॥
सुधन्वोवाच । पितापि ते समासीनमुपासीतैव मामधः । बालः सुखैधितो गेहे न त्वं किं चन बुध्यसे ॥ 12॥
विरोचन उवाच
हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः । सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः ॥ 13॥
सुधन्वोवाच । हिरण्यं च गवाश्वं च तवैवास्तु विरोचन । प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥ 14॥
विरोचन उवाच
आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते । न हि देवेष्वहं स्थाता न मनुष्येषु कर्हि चित् ॥ 15
सुधन्वोवाच । पितरं ते गमिष्यावः प्राणयोर्विपणे कृते । पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ॥ 16॥
प्रह्लाद उवाच
इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह । आशीविषाविव क्रुद्धावेकमार्गमिहागतौ ॥ 17॥
किं वै सहैव चरतो न पुरा चरतः सह । विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ॥ 18॥
विरोचन उवाच
न मे सुधन्वना सख्यं प्राणयोर्विपणावहे । प्रह्राद तत्त्वामृप्च्छामि मा प्रश्नमनृतं वदीः ॥ 19॥
प्रह्लाद उवाच
उदकं मधुपर्कं चाप्यानयंतु सुधन्वने । ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता ॥ 20॥
सुधन्वोवाच । उदकं मधुपर्कं च पथ एवार्पितं मम । प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः ॥ 21॥
प्रह्लाद उवाच
पुर्तो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः । तयोर्विवदतोः प्रश्नं कथमस्मद्विभो वदेत् ॥ 22॥
अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् । एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् ॥ 23॥
सुधन्वोवाच । यां रात्रिमधिविन्ना स्त्री यां चैवाक्ष पराजितः । यां च भाराभितप्तांगो दुर्विवक्ता स्म तां वसेत् ॥ 24॥
नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः । अमित्रान्भूयसः पश्यंदुर्विवक्ता स्म तां वसेत् ॥ 25॥
पंच पश्वनृते हंति दश हंति गवानृते । शतमश्वानृते हंति सहस्रं पुरुषानृते ॥ 26॥
हंति जातानजातांश्च हिरण्यार्थोऽनृतं वदन् । सर्वं भूम्यनृते हंति मा स्म भूम्यनृतं वदीः ॥ 27॥
प्रह्लाद उवाच
मत्तः श्रेयानंगिरा वै सुधन्वा त्वद्विरोचन । मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥ 28॥
विरोचन सुधन्वायं प्राणानामीश्वरस्तव । सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ॥ 29॥
सुधन्वोवाच । यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः । पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ॥ 30॥
एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः । पादप्रक्षालनं कुर्यात्कुमार्याः सन्निधौ मम ॥ 31॥
विदुर उवाच
तस्माद्राजेंद्र भूम्यर्थे नानृतं वक्तुमर्हसि । मा गमः स सुतामात्योऽत्ययं पुत्राननुभ्रमन् ॥ 32॥
न देवा यष्टिमादाय रक्षंति पशुपालवत् । यं तु रक्षितुमिच्छंति बुद्ध्या संविभजंति तम् ॥ 33॥
यथा यथा हि पुरुषः कल्याणे कुरुते मनः । तथा तथास्य सर्वार्थाः सिध्यंते नात्र संशयः ॥ 34॥
न छंदांसि वृजिनात्तारयंति आयाविनं मायया वर्तमानम् । नीडं शकुंता इव जातपक्षाश् छंदांस्येनं प्रजहत्यंतकाले ॥ 35॥
मत्तापानं कलहं पूगवैरं भार्यापत्योरंतरं ज्ञातिभेदम् । राजद्विष्टं स्त्रीपुमांसोर्विवादं वर्ज्यान्याहुर्यश्च पंथाः प्रदुष्ठः ॥ 36॥
सामुद्रिकं वणिजं चोरपूर्वं शलाक धूर्तं च चिकित्सकं च । अरिं च मित्रं च कुशीलवं च नैतान्साख्येष्वधिकुर्वीत सप्त ॥ 37॥
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः । एतानि चत्वार्यभयंकराणि भयं प्रयच्छंत्ययथा कृतानि ॥ 38॥
अगार दाही गरदः कुंडाशी सोमविक्रयी । पर्व कारश्च सूची च मित्र ध्रुक्पारदारिकः ॥ 39॥
भ्रूणहा गुरु तल्पी च यश्च स्यात्पानपो द्विजः । अतितीक्ष्णश्च काकश्च नास्तिको वेद निंदकः ॥ 40॥
स्रुव प्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि । रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्मण्हणैः समाः ॥ 41॥
तृणोक्लया ज्ञायते जातरूपं युगे भद्रो व्यवहारेण साधुः । शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु सुहृदश्चारयश् च ॥ 42॥
जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणांधर्मचर्यामसूया । क्रोधः श्रियं शीलमनार्य सेवा ह्रियं कामः सर्वमेवाभिमानः ॥ 43॥
श्रीर्मंगलात्प्रभवति प्रागल्भ्यात्संप्रवर्धते । दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥ 44॥
अष्टौ गुणाः पुरुषं दीपयंति प्रज्ञा च कौल्यं च दमः श्रुतं च । पराक्रमश्चाबहु भाषिता च दानं यथाशक्ति कृतज्ञता च ॥ 45॥
एतान्गुणांस्तात महानुभावान् एको गुणः संश्रयते प्रसह्य । राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणोऽतिभाति ॥ 46॥
अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि । चत्वार्येषामन्ववेतानि सद्भिश् चत्वार्येषामन्ववयंति संतः ॥ 47॥
यज्ञो दानमध्ययनं तपश् च चत्वार्येतान्यन्ववेतानि सद्भिः । दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यन्ववयंति संतः ॥ 48॥
न सा सभा यत्र न संति वृद्धा न ते वृद्धा ये न वदंति धर्मम् । नासौ हर्मो यतन सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥ 49॥
सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् । शौर्यं च चिरभाष्यं च दशः संसर्गयोनयः ॥ 50॥
पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् । पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥ 51॥
पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः । नष्टप्रज्ञः पापमेव नित्यमारभते नरः ॥ 52॥
पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः । वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ॥ 53॥
असूयको दंद शूको निष्ठुरो वैरकृन्नरः । स कृच्छ्रं महदाप्नोतो नचिरात्पापमाचरन् ॥ 54॥
अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा । अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते ॥ 55॥
प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पंडितः । प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ 56॥
दिवसेनैव तत्कुर्याद्येन रातौ सुखं वसेत् । अष्ट मासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥ 57॥
पूर्वे वयसि तत्कुर्याद्येन वृद्धसुखं वसेत् । यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥ 58॥
जीर्णमन्नं प्रशंसंति भार्यं च गतयौवनाम् । शूरं विगतसंग्रामं गतपारं तपस्विनम् ॥ 59॥
धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते । असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ 60॥
गुरुरात्मवतां शास्ता शासा राजा दुरात्मनाम् । अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ 61॥
ऋषीणां च नदीनां च कुलानां च महामनाम् । प्रभवो नाधिगंतव्यः स्त्रीणां दुश्चरितस्य च ॥ 62॥
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी । क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ॥ 63॥
सुवर्णपुष्पां पृथिवीं चिन्वंति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ 64॥
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत । तानि जंघा जघन्यानि भारप्रत्यवराणि च ॥ 65॥
दुर्योधने च शकुनौ मूढे दुःशासने तथा । कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥ 66॥
सर्वैर्गुणैरुपेताश्च पांडवा भरतर्षभ । पितृवत्त्वयि वर्तंते तेषु वर्तस्व पुत्रवत् ॥ 67॥
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरहितवाक्ये पंचत्रिंशोऽध्यायः ॥ 35॥
Browse Related Categories: