Samskritam Songs · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगंगाधारा । धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धाराः ॥
निपततु पंडितहरशिरसि प्रवहतु नित्यमिदं वचसि प्रविशतु वैयाकरणमुखं पुनरपि वहताज्जनमनसि पुत्रसहस्रं समुद्धृतं स्यात् यांतु च जन्मविकाराः ॥ 1 ॥
ग्रामं ग्रामं गच्छाम संस्कृतशिक्षां यच्छाम सर्वेषामपि तृप्तिहितार्थं स्वक्लेशं न हि गणयेम कृते प्रयत्ने किं न लभेत एवं संति विचाराः ॥ 2 ॥
या माता संस्कृतिमूला यस्या व्याप्तिस्सुविशाला वाङ्मयरूपा सा भवतु लसतु चिरं सा वाङ्माला सुरवाणीं जनवाणीं कर्तुं यतामहे कृतिशूराः ॥ 3 ॥
रचन: डा. नारायणभट्टः
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts