Chanakya Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः । नारीपीनपयोधरोरुयुगला स्वप्नेऽपि नालिंगितं मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ 01 ॥
जल्पंति सार्धमन्येन पश्यंत्यन्यं सविभ्रमाः । हृदये चिंतयंत्यन्यं न स्त्रीणामेकतो रतिः ॥ 02 ॥
यो मोहान्मन्यते मूढो रक्तेयं मयि कामिनी । स तस्या वशगो भूत्वा नृत्येत् क्रीडाशकुंतवत् ॥ 03 ॥
कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खंडितं भुवि मनः को नाम राजप्रियः । कः कालस्य न गोचरत्वमगमत् कोऽर्थी गतो गौरवं को वा दुर्जनदुर्गमेषु पतितः क्षेमेण यातः पथि ॥ 04 ॥
न निर्मितो न चैव न दृष्टपूर्वो न श्रूयते हेममयः कुरंगः । तथाऽपि तृष्णा रघुनंदनस्य विनाशकाले विपरीतबुद्धिः ॥ 05 ॥
गुणैरुत्तमतां याति नोच्चैरासनसंस्थिताः । प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ 06 ॥
गुणाः सर्वत्र पूज्यंते न महत्योऽपि संपदः । पूर्णेंदुः किं तथा वंद्यो निष्कलंको यथा कृशः ॥ 07 ॥
परैरुक्तगुणो यस्तु निर्गुणोऽपि गुणी भवेत् । इंद्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥ 08 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
विवेकिनमनुप्राप्ता गुणा यांति मनोज्ञताम् । सुतरां रत्नमाभाति चामीकरनियोजितम् ॥ 09 ॥
गुणैः सर्वज्ञतुल्योऽपि सीदत्येको निराश्रयः । अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते ॥ 10 ॥
अतिक्लेशेन यद्द्रव्यमतिलोभेन यत्सुखम् । शत्रूणां प्रणिपातेन ते ह्यर्था मा भवंतु मे ॥ 11 ॥
किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या तु वेश्येव सामान्या पथिकैरपि भुज्यते ॥ 12 ॥
धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु । अतृप्ताः प्राणिनः सर्वे याता यास्यंति यांति च ॥ 13 ॥
क्षीयंते सर्वदानानि यज्ञहोमबलिक्रियाः । न क्षीयते पात्रदानमभयं सर्वदेहिनाम् ॥ 14 ॥
तृणं लघु तृणात्तूलं तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥ 15 ॥
वरं प्राणपरित्यागो मानभंगेन जीवनात् । प्राणत्यागे क्षणं दुःखं मानभंगे दिने दिने ॥ 16 ॥
प्रियवाक्यप्रदानेन सर्वे तुष्यंति जंतवः । तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥ 17 ॥
संसारकटुवृक्षस्य द्वे फलेऽमृतोपमे । सुभाषितं च सुस्वादु संगतिः सज्जने जने ॥ 18 ॥
जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाऽभ्यासयोगेन देही चाभ्यस्यते पुनः ॥ 19 ॥
पुस्तकस्था तु या विद्या परहस्तगतं धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ 20 ॥
Browse Related Categories: