Chanakya Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अनृतं साहसं माया मूर्खत्वमतिलोभिता । अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ॥ 01 ॥
भोज्यं भोजनशक्तिश्च रतिशक्तिर्वरांगना । विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥ 02 ॥
यस्य पुत्रो वशीभूतो भार्या छंदानुगामिनी । विभवे यश्च संतुष्टस्तस्य स्वर्ग इहैव हि ॥ 03 ॥
ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः ॥ 04 ॥
परोक्षे कार्यहंतारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुंभं पयोमुखम् ॥ 05 ॥
न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत् । कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ 06 ॥
मनसा चिंतितं कार्यं वाचा नैव प्रकाशयेत् । मंत्रेण रक्षयेद्गूढं कार्ये चापि नियोजयेत् ॥ 07 ॥
कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् । कष्टात्कष्टतरं चैव परगेहनिवासनम् ॥ 08 ॥
शैले शैले च माणिक्यं मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र चंदनं न वने वने ॥ 09 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
पुत्राश्च विविधैः शीलैर्नियोज्याः सततं बुधैः । नीतिज्ञाः शीलसंपन्ना भवंति कुलपूजिताः ॥ 10 ॥
माता शत्रुः पिता वैरी याभ्यां बाला न पाठिताः । सभामध्ये न शोभंते हंसमध्ये बको यथा ॥ 11 ॥
लालनाद्बहवो दोषास्ताडने बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत् ॥ 12 ॥
श्लोकेन वा तदर्धेन तदर्धार्धाक्षरेण वा । अबंध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥ 13 ॥
कांतावियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्य सेवा । दारिद्र्यभावाद्विमुखं च मित्रं विनाग्निना पंच दहंति कायम् ॥ 14 ॥
नदीतीरे च ये वृक्षाः परगेहेषु कामिनी । मंत्रहीनाश्च राजानः शीघ्रं नश्यंत्यसंशयम् ॥ 15 ॥
बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा । बलं वित्तं च वैश्यानां शूद्राणां पारिचर्यकम् ॥ 16 ॥
निर्धनं पुरुषं वेश्या प्रजा भग्नं नृपं त्यजेत् । खगा वीतफलं वृक्षं भुक्त्वा चाभ्यागतो गृहम् ॥ 17 ॥
गृहीत्वा दक्षिणां विप्रास्त्यजंति यजमानकम् । प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा ॥ 18 ॥
दुराचारी दुरादृष्टिर्दुरावासी च दुर्जनः । यन्मैत्री क्रियते पुंभिर्नरः शीघ्रं विनश्यति ॥ 19 ॥
समाने शोभते प्रीतिः राज्ञि सेवा च शोभते । वाणिज्यं व्यवहारेषु दिव्या स्त्री शोभते गृहे ॥ 20 ॥
Browse Related Categories: