Chanakya Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वंचनं चापमानं च मतिमान्न प्रकाशयेत् ॥ 01 ॥
धनधान्यप्रयोगेषु विद्यासंग्रहणे तथा । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥ 02 ॥
संतोषामृततृप्तानां यत्सुखं शांतिरेव च । न च तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ 03 ॥
संतोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥ 04 ॥
विप्रयोर्विप्रवह्न्योश्च दंपत्योः स्वामिभृत्ययोः । अंतरेण न गंतव्यं हलस्य वृषभस्य च ॥ 05 ॥
पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च । नैव गां न कुमारीं च न वृद्धं न शिशुं तथा ॥ 06 ॥
शकटं पंचहस्तेन दशहस्तेन वाजिनम् । गजं हस्तसहस्रेण देशत्यागेन दुर्जनम् ॥ 07 ॥
हस्ती अंकुशमात्रेण वाजी हस्तेन ताड्यते । शऋंगी लगुडहस्तेन खड्गहस्तेन दुर्जनः ॥ 08 ॥
तुष्यंति भोजने विप्रा मयूरा घनगर्जिते । साधवः परसंपत्तौ खलाः परविपत्तिषु ॥ 09 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् । आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥ 10 ॥
बाहुवीर्यं बलं राज्ञां ब्रह्मणो ब्रह्मविद्बली । रूपयौवनमाधुर्यं स्त्रीणां बलमनुत्तमम् ॥ 11 ॥
नात्यंतं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम् । छिद्यंते सरलास्तत्र कुब्जास्तिष्ठंति पादपाः ॥ 12 ॥
यत्रोदकं तत्र वसंति हंसा- स्तथैव शुष्कं परिवर्जयंति । न हंसतुल्येन नरेण भाव्यं पुनस्त्यजंतः पुनराश्रयंते ॥ 13 ॥
उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परीवाह इवांभसाम् ॥ 14 ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बांधवाः । यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पंडितः ॥ 15 ॥
स्वर्गस्थितानामिह जीवलोके चत्वारि चिह्नानि वसंति देहे । दानप्रसंगो मधुरा च वाणी देवार्चनं ब्राह्मणतर्पणं च ॥ 16 ॥
अत्यंतकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरम् । नीचप्रसंगः कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् ॥ 17 ॥
गम्यते यदि मृगेंद्रमंदिरं लभ्यते करिकपालमौक्तिकम् । जंबुकालयगते च प्राप्यते वत्सपुच्छखरचर्मखंडनम् ॥ 18 ॥
शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना । न गुह्यगोपने शक्तं न च दंशनिवारणे ॥ 19 ॥
वाचां शौचं च मनसः शौचमिंद्रियनिग्रहः । सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम् ॥ 20 ॥
पुष्पे गंधं तिले तैलं काष्ठेऽग्निं पयसि घृतम् । इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥ 21 ॥
Browse Related Categories: