Chanakya Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अधमा धनमिच्छंति धनमानौ च मध्यमाः । उत्तमा मानमिच्छंति मानो हि महतां धनम् ॥ 01 ॥
इक्षुरापः पयो मूलं तांबूलं फलमौषधम् । भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥ 02 ॥
दीपो भक्षयते ध्वांतं कज्जलं च प्रसूयते । यदन्नं भक्षयते नित्यं जायते तादृशी प्रजा ॥ 03 ॥
वित्तं देहि गुणान्वितेषु मतिमन्नान्यत्र देहि क्वचित् प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं सदा । जीवान्स्थावरजंगमांश्च सकलान्संजीव्य भूमंडलं भूयः पश्य तदेव कोटिगुणितं गच्छंतमंभोनिधिम् ॥ 04 ॥
चांडालानां सहस्रैश्च सूरिभिस्तत्त्वदर्शिभिः । एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥ 05 ॥
तैलाभ्यंगे चिताधूमे मैथुने क्षौरकर्मणि । तावद्भवति चांडालो यावत्स्नानं न चाचरेत् ॥ 06 ॥
अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् । भोजने चामृतं वारि भोजनांते विषापहम् ॥ 07 ॥
हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानतो नरः । हतं निर्णायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥ 08 ॥
वृद्धकाले मृता भार्या बंधुहस्तगतं धनम् । भोजनं च पराधीनं तिस्रः पुंसां विडंबनाः ॥ 09 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
नाग्निहोत्रं विना वेदा न च दानं विना क्रिया । न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥ 10 ॥
न देवो विद्यते काष्ठे न पाषाणे न मृण्मये । न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥ 11 ॥
काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् । श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः ॥ 12 ॥
न देवो विद्यते काष्ठे न पाषाणे न मृन्मये । भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥ 13 ॥
शांतितुल्यं तपो नास्ति न संतोषात्परं सुखम् । अपत्यं च कलत्रं च सतां संगतिरेव च ॥ 14 ॥
गुणो भूषयते रूपं शीलं भूषयते कुलम् । प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ 15 ॥
निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् । असिद्धस्य हता विद्या ह्यभोगेन हतं धनम् ॥ 16 ॥
शुद्धं भूमिगतं तोयं शुद्धा नारी पतिव्रता । शुचिः क्षेमकरो राजा संतोषो ब्राह्मणः शुचिः ॥ 17 ॥
असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलांगना ॥ 18 ॥
किं कुलेन विशालेन विद्याहीनेन देहिनाम् । दुष्कुलं चापि विदुषो देवैरपि स पूज्यते ॥ 19 ॥
विद्वान्प्रशस्यते लोके विद्वान् सर्वत्र पूज्यते । विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ॥ 20 ॥
मांसभक्ष्यैः सुरापानैर्मुखैश्चाक्षरवर्जितैः । पशुभिः पुरुषाकारैर्भाराक्रांता हि मेदिनी ॥ 21 ॥
अन्नहीनो दहेद्राष्ट्रं मंत्रहीनश्च ऋत्विजः । यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥ 22 ॥
Browse Related Categories: