Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
शांतिपाठः ॐ यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
ध्यानम् ॐ मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं वर्षिष्ठांते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः । आचार्येंद्रं करकलित चिन्मुद्रमानंदमूर्तिं स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ 1 ॥
वटविटपिसमीपेभूमिभागे निषण्णं सकलमुनिजनानां ज्ञानदातारमारात् । त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं जननमरणदुःखच्छेददक्षं नमामि ॥ 2 ॥
चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा । गुरोस्तु मौनं व्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥ 3 ॥
निधये सर्वविद्यानां भिषजे भवरोगिणाम् । गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥ 4 ॥
ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये । निर्मलाय प्रशांताय दक्षिणामूर्तये नमः ॥ 5 ॥
चिद्धनाय महेशाय वटमूलनिवासिने । सच्चिदानंदरूपाय दक्षिणामूर्तये नमः ॥ 6 ॥
ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने । व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
अंगुष्ठतर्जनी योगमुद्रा व्याजेनयोगिनाम् । शृत्यर्थं ब्रह्मजीवैक्यं दर्शयन्योगता शिवः ॥ 8 ॥
ॐ शांतिः शांतिः शांतिः ॥
स्तोत्रम् विश्वं दर्पण-दृश्यमान-नगरी तुल्यं निजांतर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया । यस्साक्षात्कुरुते प्रबोधसमये स्वात्मानमे वाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 1 ॥
बीजस्यांतरि-वांकुरो जगदितं प्राङ्निर्विकल्पं पुनः मायाकल्पित देशकालकलना वैचित्र्यचित्रीकृतम् । मायावीव विजृंभयत्यपि महायोगीव यः स्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 2 ॥
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते साक्षात्तत्वमसीति वेदवचसा यो बोधयत्याश्रितान् । यस्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवांभोनिधौ तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 3 ॥
नानाच्छिद्र घटोदर स्थित महादीप प्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरण द्वारा बहिः स्पंदते । जानामीति तमेव भांतमनुभात्येतत्समस्तं जगत् तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 4 ॥
देहं प्राणमपींद्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्री बालांध जडोपमास्त्वहमिति भ्रांताभृशं वादिनः । मायाशक्ति विलासकल्पित महाव्यामोह संहारिणे तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 5 ॥
राहुग्रस्त दिवाकरेंदु सदृशो माया समाच्छादनात् सन्मात्रः करणोप संहरणतो योऽभूत्सुषुप्तः पुमान् । प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 6 ॥
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्ता स्वनु वर्तमान महमित्यंतः स्फुरंतं सदा । स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 7 ॥
विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबंधतः शिष्यचार्यतया तथैव पितृ पुत्राद्यात्मना भेदतः । स्वप्ने जाग्रति वा य एष पुरुषो माया परिभ्रामितः तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 8 ॥
भूरंभांस्यनलोऽनिलोंबर महर्नाथो हिमांशुः पुमान् इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् । नान्यत्किंचन विद्यते विमृशतां यस्मात्परस्माद्विभो तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 9 ॥
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे तेनास्व श्रवणात्तदर्थ मननाद्ध्यानाच्च संकीर्तनात् । सर्वात्मत्व महाविभूतिसहितं स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्य-मव्याहतम् ॥ 10 ॥
॥ इति श्रीमच्छंकराचार्यविरचितं दक्षिणामूर्तिस्तोत्रं संपूर्णम् ॥
Browse Related Categories: