Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ परमानंदलहर्यै नमः । ॐ परचैतन्यदीपिकायै नमः । ॐ स्वयंप्रकाशकिरणायै नमः । ॐ नित्यवैभवशालिन्यै नमः । ॐ विशुद्धकेवलाखंडसत्यकालात्मरूपिण्यै नमः । ॐ आदिमध्यांतरहितायै नमः । ॐ महामायाविलासिन्यै नमः । ॐ गुणत्रयपरिच्छेत्र्यै नमः । ॐ सर्वतत्त्वप्रकाशिन्यै नमः । ॐ स्त्रीपुंसभावरसिकायै नमः । 10 ।
Offered for worship and study, not as prediction. Non-commercial.
ॐ जगत्सर्गादिलंपटायै नमः । ॐ अशेषनामरूपादिभेदच्छेदरविप्रभायै नमः । ॐ अनादिवासनारूपायै नमः । ॐ वासनोद्यत्प्रपंचिकायै नमः । ॐ प्रपंचोपशमप्रौढायै नमः । ॐ चराचरजगन्मय्यै नमः । ॐ समस्तजगदाधारायै नमः । ॐ सर्वसंजीवनोत्सुकायै नमः । ॐ भक्तचेतोमयानंतस्वार्थवैभवविभ्रमायै नमः । ॐ सर्वाकर्षणवश्यादिसर्वकर्मधुरंधरायै नमः । 20 ।
ॐ विज्ञानपरमानंदविद्यायै नमः । ॐ संतानसिद्धिदायै नमः । ॐ आयुरारोग्यसौभाग्यबलश्रीकीर्तिभाग्यदायै नमः । ॐ धनधान्यमणीवस्त्रभूषालेपनमाल्यदायै नमः । ॐ गृहग्राममहाराज्यसाम्राज्यसुखदायिन्यै नमः । ॐ सप्तांगशक्तिसंपूर्णसार्वभौमफलप्रदायै नमः । ॐ ब्रह्मविष्णुशिवेंद्रादिपदविश्राणनक्षमायै नमः । ॐ भुक्तिमुक्तिमहाभक्तिविरक्त्यद्वैतदायिन्यै नमः । ॐ निग्रहानुग्रहाध्यक्षायै नमः । ॐ ज्ञाननिर्द्वैतदायिन्यै नमः । ॐ परकायप्रवेशादियोगसिद्धिप्रदायिन्यै नमः । 30 ।
ॐ शिष्टसंजीवनप्रौढायै नमः । ॐ दुष्टसंहारसिद्धिदायै नमः । ॐ लीलाविनिर्मितानेककोटिब्रह्मांडमंडलायै नमः । ॐ एकस्यै नमः । ॐ अनेकात्मिकायै नमः । ॐ नानारूपिण्यै नमः । ॐ अर्धांगनेश्वर्यै नमः । ॐ शिवशक्तिमय्यै नमः । ॐ नित्यशृंगारैकरसप्रियायै नमः । 40 ।
ॐ तुष्टायै नमः । ॐ पुष्टायै नमः । ॐ अपरिच्छिन्नायै नमः । ॐ नित्ययौवनमोहिन्यै नमः । ॐ समस्तदेवतारूपायै नमः । ॐ सर्वदेवाधिदेवतायै नमः । ॐ देवर्षिपितृसिद्धादियोगिनीभैरवात्मिकायै नमः । ॐ निधिसिद्धिमणीमुद्रायै नमः । ॐ शस्त्रास्त्रायुधभासुरायै नमः । ॐ छत्रचामरवादित्रपताकाव्यजनांचितायै नमः । 50 ।
ॐ हस्त्यश्वरथपादातामात्यसेनासुसेवितायै नमः । ॐ पुरोहितकुलाचार्यगुरुशिष्यादिसेवितायै नमः । ॐ सुधासमुद्रमध्योद्यत्सुरद्रुमनिवासिन्यै नमः । ॐ मणिद्वीपांतरप्रोद्यत्कदंबवनवासिन्यै नमः । ॐ चिंतामणिगृहांतःस्थायै नमः । ॐ मणिमंटपमध्यगायै नमः । ॐ रत्नसिंहासनप्रोद्यच्छिवमंचाधिशायिन्यै नमः । ॐ सदाशिवमहालिंगमूलसंघट्टयोनिकायै नमः । ॐ अन्योन्यालिंगसंघर्षकंडूसंक्षुब्धमानसायै नमः । ॐ कलोद्यद्बिंदुकालिन्यातुर्यनादपरंपरायै नमः । 60 ।
ॐ नादांतानंदसंदोहस्वयंव्यक्तवचोऽमृतायै नमः । ॐ कामराजमहातंत्ररहस्याचारदक्षिणायै नमः । ॐ मकारपंचकोद्भूतप्रौढांतोल्लाससुंदर्यै नमः । ॐ श्रीचक्रराजनिलयायै नमः । ॐ श्रीविद्यामंत्रविग्रहायै नमः । ॐ अखंडसच्चिदानंदशिवशक्तैक्यरूपिण्यै नमः । ॐ त्रिपुरायै नमः । ॐ त्रिपुरेशान्यै नमः । ॐ महात्रिपुरसुंदर्यै नमः । ॐ त्रिपुरावासरसिकायै नमः । 70 ।
ॐ त्रिपुराश्रीस्वरूपिण्यै नमः । ॐ महापद्मवनांतस्थायै नमः । ॐ श्रीमत्त्रिपुरमालिन्यै नमः । ॐ महात्रिपुरसिद्धांबायै नमः । ॐ श्रीमहात्रिपुरांबिकायै नमः । ॐ नवचक्रक्रमादेव्यै नमः । ॐ महात्रिपुरभैरव्यै नमः । ॐ श्रीमात्रे नमः । ॐ ललितायै नमः । ॐ बालायै नमः । 80 ।
ॐ राजराजेश्वर्यै नमः । ॐ शिवायै नमः । ॐ उत्पत्तिस्थितिसंहारक्रमचक्रनिवासिन्यै नमः । ॐ अर्धमेर्वात्मचक्रस्थायै नमः । ॐ सर्वलोकमहेश्वर्यै नमः । ॐ वल्मीकपुरमध्यस्थायै नमः । ॐ जंबूवननिवासिन्यै नमः । ॐ अरुणाचलशृंगस्थायै नमः । ॐ व्याघ्रालयनिवासिन्यै नमः । ॐ श्रीकालहस्तिनिलयायै नमः । 90 ।
ॐ काशीपुरनिवासिन्यै नमः । ॐ श्रीमत्कैलासनिलयायै नमः । ॐ द्वादशांतमहेश्वर्यै नमः । ॐ श्रीषोडशांतमध्यस्थायै नमः । ॐ सर्ववेदांतलक्षितायै नमः । ॐ श्रुतिस्मृतिपुराणेतिहासागमकलेश्वर्यै नमः । ॐ भूतभौतिकतन्मात्रदेवताप्राणहृन्मय्यै नमः । ॐ जीवेश्वरब्रह्मरूपायै नमः । ॐ श्रीगुणाढ्यायै नमः । ॐ गुणात्मिकायै नमः । 100 ।
ॐ अवस्थात्रयनिर्मुक्तायै नमः । ॐ वाग्रमोमामहीमय्यै नमः । ॐ गायत्रीभुवनेशानीदुर्गाकाल्यादिरूपिण्यै नमः । ॐ मत्स्यकूर्मवराहादिनानारूपविलासिन्यै नमः । ॐ महायोगीश्वराराध्यायै नमः । ॐ महावीरवरप्रदायै नमः । ॐ सिद्धेश्वरकुलाराध्यायै नमः । ॐ श्रीमच्चरणवैभवायै नमः । 108
इति देवीवैभवाश्चर्याष्टोत्तरशतनामावलिः ।
Browse Related Categories: