Surya Bhagavan · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1. धाता – धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने । पुलस्त्यस्तुंबुरुरिति मधुमासं नयंत्यमी ॥ धाता शुभस्य मे दाता भूयो भूयोऽपि भूयसः । रश्मिजालसमाश्लिष्टः तमस्तोमविनाशनः ॥
2. अर्यम – अर्यमा पुलहोऽथौजाः प्रहेति पुंजिकस्थली । नारदः कच्छनीरश्च नयंत्येते स्म माधवम् ॥ मेरुशृंगांतरचरः कमलाकरबांधवः । अर्यमा तु सदा भूत्यै भूयस्यै प्रणतस्य मे ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
3. मित्रः – मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहः । रथस्वन इति ह्येते शुक्रमासं नयंत्यमी ॥ निशानिवारणपटुः उदयाद्रिकृताश्रयः । मित्रोऽस्तु मम मोदाय तमस्तोमविनाशनः ॥
4. वरुणः – वसिष्ठो ह्यरुणो रंभा सहजन्यस्तथा हुहुः । शुक्रश्चित्रस्वनश्चैव शुचिमासं नयंत्यमी ॥ सूर्यस्यंदनमारूढ अर्चिर्माली प्रतापवान् । कालभूतः कामरूपो ह्यरुणः सेव्यते मया ॥
5. इंद्रः – इंद्रो विश्वावसुः श्रोता एलापत्रस्तथाऽंगिराः । प्रम्लोचा राक्षसोवर्यो नभोमासं नयंत्यमी ॥ सहस्ररश्मिसंवीतं इंद्रं वरदमाश्रये । शिरसा प्रणमाम्यद्य श्रेयो वृद्धिप्रदायकम् ॥
6. विवस्वान् – विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः । अनुम्लोचाः शंखपालो नभस्याख्यं नयंत्यमी ॥ जगन्निर्माणकर्तारं सर्वदिग्व्याप्ततेजसम् । नभोग्रहमहादीपं विवस्वंतं नमाम्यहम् ॥
7. त्वष्टा – त्वष्टा ऋचीकतनयः कंबलाख्यस्तिलोत्तमा । ब्रह्मापेतोऽथ शतजित् धृतराष्ट्र इषंभरा ॥ त्वष्टा शुभाय मे भूयात् शिष्टावलिनिषेवितः । नानाशिल्पकरो नानाधातुरूपः प्रभाकरः ।
8. विष्णुः – विष्णुरश्वतरो रंभा सूर्यवर्चाश्च सत्यजित् । विश्वामित्रो मखापेत ऊर्जमासं नयंत्यमी ॥ भानुमंडलमध्यस्थं वेदत्रयनिषेवितम् । गायत्रीप्रतिपाद्यं तं विष्णुं भक्त्या नमाम्यहम् ॥
9. अंशुमन् – अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी । विद्युच्छत्रुर्महाशंखः सहोमासं नयंत्यमी ॥ सदा विद्रावणरतो जगन्मंगलदीपकः । मुनींद्रनिवहस्तुत्यो भूतिदोऽंशुर्भवेन्मम ॥
10. भगः – भगः स्फूर्जोऽरिष्टनेमिः ऊर्ण आयुश्च पंचमः । कर्कोटकः पूर्वचित्तिः पौषमासं नयंत्यमी ॥ तिथि मास ऋतूनां च वत्सराऽयनयोरपि । घटिकानां च यः कर्ता भगो भाग्यप्रदोऽस्तु मे ॥
11. पूष – पूषा धनंजयो वातः सुषेणः सुरुचिस्तथा । घृताची गौतमश्चेति तपोमासं नयंत्यमी । पूषा तोषाय मे भूयात् सर्वपापाऽपनोदनात् । सहस्रकरसंवीतः समस्ताशांतरांतरः ॥
12. पर्जन्यः – क्रतुर्वार्चा भरद्वाजः पर्जन्यः सेनजित् तथा । विश्वश्चैरावतश्चैव तपस्याख्यं नयंत्यमी ॥ प्रपंचं प्रतपन् भूयो वृष्टिभिर्मादयन् पुनः । जगदानंदजनकः पर्जन्यः पूज्यते मया ॥
ध्यायेस्सदा सवितृमंडलमध्यवर्ती नारायणस्सरसिजासन सन्निविष्टः। केयूरवान् मकरकुंडलवान् किरीटी हारी हिरण्मयवपुः धृतशंखचक्रः ॥
Browse Related Categories: