Ganesha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
सर्वे उचुः । यतोऽनंतशक्तेरनंताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते । यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ 1 ॥
यतश्चाविरासीज्जगत्सर्वमेत- -त्तथाब्जासनो विश्वगो विश्वगोप्ता । तथेंद्रादयो देवसंघा मनुष्याः सदा तं गणेशं नमामो भजामः ॥ 2 ॥
यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चंद्रमा व्योम वायुः । यतः स्थावरा जंगमा वृक्षसंघाः सदा तं गणेशं नमामो भजामः ॥ 3 ॥
यतो दानवाः किन्नरा यक्षसंघा यतश्चारणा वारणाः श्वापदाश्च । यतः पक्षिकीटा यतो वीरुधश्च सदा तं गणेशं नमामो भजामः ॥ 4 ॥
यतो बुद्धिरज्ञाननाशो मुमुक्षो- -र्यतः संपदो भक्तसंतोषदाः स्युः । यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥ 5 ॥
यतः पुत्रसंपद्यतो वांछितार्थो यतोऽभक्तविघ्नास्तथाऽनेकरूपाः । यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः ॥ 6 ॥
यतोऽनंतशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः । यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥ 7 ॥
यतो वेदवाचो विकुंठा मनोभिः सदा नेति नेतीति यत्ता गृणंति । परब्रह्मरूपं चिदानंदभूतं सदा तं गणेशं नमामो भजामः ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
श्रीगणेश उवाच
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः । त्रिसंध्यं त्रिदिनं तस्य सर्वकार्यं भविष्यति ॥ 9
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् । अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात् ॥ 10 ॥
यः पठेन्मासमात्रं तु दशवारं दिने दिने । स मोचयेद्बंधगतं राजवध्यं न संशयः ॥ 11 ॥
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् । वांछिताँल्लभते सर्वानेकविंशतिवारतः ॥ 12 ॥
यो जपेत्परया भक्त्या गजाननपरो नरः । एवमुक्त्वा ततो देवश्चांतर्धानं गतः प्रभुः ॥ 13 ॥
इति श्रीगणेशपुराणे उपासनाखंडे श्रीगणेशाष्टकम् ।
Browse Related Categories: