Sri Mooka Pancha Shati · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
मोहांधकारनिवहं विनिहंतुमीडे मूकात्मनामपि महाकवितावदान्यान् । श्रीकांचिदेशशिशिरीकृतिजागरूकान् एकाम्रनाथतरुणीकरुणावलोकान् ॥1॥
मातर्जयंति ममताग्रहमोक्षणानि माहेंद्रनीलरुचिशिक्षणदक्षिणानि । कामाक्षि कल्पितजगत्त्रयरक्षणानि त्वद्वीक्षणानि वरदानविचक्षणानि ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
आनंगतंत्रविधिदर्शितकौशलानाम् आनंदमंदपरिघूर्णितमंथराणाम् । तारल्यमंब तव ताडितकर्णसीम्नां कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥3॥
कल्लोलितेन करुणारसवेल्लितेन कल्माषितेन कमनीयमृदुस्मितेन । मामंचितेन तव किंचन कुंचितेन कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥4॥
साहाय्यकं गतवती मुहुरर्जनस्य मंदस्मितस्य परितोषितभीमचेताः । कामाक्षि पांडवचमूरिव तावकीना कर्णांतिकं चलति हंत कटाक्षलक्ष्मीः ॥5॥
अस्तं क्षणान्नयतु मे परितापसूर्यम् आनंदचंद्रमसमानयतां प्रकाशम् । कालांधकारसुषुमां कलयंदिगंते कामाक्षि कोमलकटाक्षनिशागमस्ते ॥6॥
ताटांकमौक्तिकरुचांकुरदंतकांतिः कारुण्यहस्तिपशिखामणिनाधिरूढः । उन्मूलयत्वशुभपादपमस्मदीयं कामाक्षि तावककटाक्षमतंगजेतंद्रः ॥7॥
छायाभरणे जगतां परितापहारी ताटंकरत्नमणितल्लजपल्लवश्रीः । कारुण्यनाम विकिरन्मकरंदजालं कामाक्षि राजति कटाक्षसुरद्रुमस्ते ॥8॥
सूर्याश्रयप्रणयिनी मणिकुंडलांशु- लौहित्यकोकनदकाननमाननीया । यांती तव स्मरहराननकांतिसिंधुं कामाक्षि राजति कटाक्षकलिंदकन्या ॥9॥
प्राप्नोति यं सुकृतिनं तव पक्षपातात् कामाक्षि वीक्षणविलासकलापुरंध्री । सद्यस्तमेव किल मुक्तिवधूर्वृणीते तस्मान्नितांतमनयोरिदमैकमत्यम् ॥10॥
यांती सदैव मरुतामनुकूलभावं भ्रूवल्लिशक्रधनुरुल्लसिता रसार्द्रा । कामाक्षि कौतुकतरंगितनीलकंठा कादंबिनीव तव भाति कटाक्षमाला ॥11॥
गंगांभसि स्मितमये तपनात्मजेव गंगाधरोरसि नवोत्पलमालिकेव । वक्त्रप्रभासरसि शैवलमंडलीव कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥12॥
संस्कारतः किमपि कंदलितान् रसज्ञ- केदारसीम्नि सुधियामुपभोगयोग्यान् । कल्याणसूक्तिलहरीकलमांकुरान्नः कामाक्षि पक्ष्मलयतु त्वदपांगमेघः ॥13॥
चांचल्यमेव नियतं कलयन्प्रकृत्या मालिन्यभूः श्रतिपथाक्रमजागरूकः । कैवल्यमेव किमु कल्पयते नतानां कामाक्षि चित्रमपि ते करुणाकटाक्षः ॥14॥
संजीवने जननि चूतशिलीमुखस्य संमोहने शशिकिशोरकशेखरस्य । संस्तंभने च ममताग्रहचेष्टितस्य कामाक्षि वीक्षणकला परमौषधं ते ॥15॥
नीलोऽपि रागमधिकं जनयन्पुरारेः लोलोऽपि भक्तिमधिकां दृढयन्नराणाम् । वक्रोऽपि देवि नमतां समतां वितन्वन् कामाक्षि नृत्यतु मयि त्वदपांगपातः ॥16॥
कामद्रुहो हृदययंत्रणजागरूका कामाक्षि चंचलदृगंचलमेखला ते । आश्चर्यमंब भजतां झटिति स्वकीय- संपर्क एव विधुनोति समस्तबंधान् ॥17॥
कुंठीकरोतु विपदं मम कुंचितभ्रू- चापांचितः श्रितविदेहभवानुरागः । रक्षोपकारमनिशं जनयंजगत्यां कामाक्षि राम इव ते करुणाकटाक्षः ॥18॥
श्रीकामकोटि शिवलोचनशोषितस्य शृंगारबीजविभवस्य पुनःप्ररोहे । प्रेमांभसार्द्रमचिरात्प्रचुरेण शंके केदारमंब तव केवलदृष्टिपातम् ॥19॥
माहात्म्यशेवधिरसौ तव दुर्विलंघ्य- संसारविंध्यगिरिकुंठनकेलिचुंचुः । धैर्यांबुधिं पशुपतेश्चुलकीकरोति कामाक्षि वीक्षणविजृंभणकुंभजन्मा ॥20॥
पीयूषवर्षवशिशिरा स्फुटदुत्पलश्री- मैत्री निसर्गमधुरा कृततारकाप्तिः । कामाक्षि संश्रितवती वपुरष्टमूर्तेः ज्योत्स्नायते भगवति त्वदपांगमाला ॥21॥
अंब स्मरप्रतिभटस्य वपुर्मनोज्ञम् अंभोजकाननमिवांचितकंटकाभम् । भृंगीव चुंबति सदैव सपक्षपाता कामाक्षि कोमलरुचिस्त्वदपांगमाला ॥22॥
केशप्रभापटलनीलवितानजाले कामाक्षि कुंडलमणिच्छविदीपशोभे । शंके कटाक्षरुचिरंगतले कृपाख्या शैलूषिका नटति शंकरवल्लभे ते ॥23॥
अत्यंतशीतलमतंद्रयतु क्षणार्धम् अस्तोकविभ्रममनंगविलासकंदम् । अल्पस्मितादृतमपारकृपाप्रवाहम् अक्षिप्ररोहमचिरान्मयि कामकोटि ॥24॥
मंदाक्षरागतरलीकृतिपारतंत्र्यात् कामाक्षि मंथरतरां त्वदपांगडोलाम् । आरुह्य मंदमतिकौतुकशालि चक्षुः आनंदमेति मुहुरर्धशशांकमौलेः ॥25॥
त्रैयंबकं त्रिपुरसुंदरि हर्म्यभूमि- रंगं विहारसरसी करुणाप्रवाहः । दासाश्च वासवमुखाः परिपालनीयं कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥26॥
वागीश्वरी सहचरी नियमेन लक्ष्मीः भ्रूवल्लरीवशकरी भुवनानि गेहम् । रूपं त्रिलोकनयनामृतमंब तेषां कामाक्षि येषु तव वीक्षणपारतंत्री ॥27॥
माहेश्वरं झटिति मानसमीनमंब कामाक्षि धैर्यजलधौ नितरां निमग्नम् । जालेन शृंखलयति त्वदपांगनाम्ना विस्तारितेन विषमायुधदाशकोऽसौ ॥28॥
उन्मथ्य बोधकमलाकारमंब जाड्य- स्तंबेरमं मम मनोविपिने भ्रमंतम् । कुंठीकुरुष्व तरसा कुटिलाग्रसीम्ना कामाक्षि तावककटाक्षमहांकुशेन ॥29॥
उद्वेल्लितस्तबकितैर्ललितैर्विलासैः उत्थाय देवि तव गाढकटाक्षकुंजात् । दूरं पलाययतु मोहमृगीकुलं मे कामाक्षि स्तवरमनुग्रहकेसरींद्रः ॥30॥
स्नेहादृतां विदलितोत्पलकंतिचोरां जेतारमेव जगदीश्वरि जेतुकामः । मानोद्धतो मकरकेतुरसौ धुनीते कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥31॥
श्रौतीं व्रजन्नपि सदा सरणिं मुनीनां कामाक्षि संततमपि स्मृतिमार्गगामी । कौटिल्यमंब कथमस्थिरतां च धत्ते चौर्यं च पंकजरुचां त्वदपांगपातः ॥32॥
नित्यं श्रेतुः परिचितौ यतमानमेव नीलोत्पलं निजसमीपनिवासलोलम् । प्रीत्यैव पाठयति वीक्षणदेशिकेंद्रः कामाक्षी किंतु तव कालिमसंप्रदायम् ॥33॥
भ्रांत्वा मुहुः स्तबकितस्मितफेनराशौ कामाक्षि वक्त्ररुचिसंचयवारिराशौ । आनंदति त्रिपुरमर्दननेत्रलक्ष्मीः आलंब्य देवि तव मंदमपांगसेतुम् ॥34॥
श्यामा तव त्रिपुरसुंदरि लोचनश्रीः कामाक्षि कंदलितमेदुरतारकांतिः । ज्योत्स्नावती स्मितरुचापि कथं तनोति स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥35॥
कालांजनं च तव देवि निरीक्षणं च कामाक्षि साम्यसरणिं समुपैति कांत्या । निश्शेषनेत्रसुलभं जगतीषु पूर्व- मन्यत्त्रिनेत्रसुलभं तुहिनाद्रिकन्ये ॥36॥
धूमांकुरो मकरकेतनपावकस्य कामाक्षि नेत्ररुचिनीलिमचातुरी ते । अत्यंतमद्भुतमिदं नयनत्रयस्य हर्षोदयं जनयते हरुणांकमौलेः ॥37॥
आरभ्भलेशसमये तव वीक्षणस्स कामाक्षि मूकमपि वीक्षणमात्रनम्रम् । सर्वज्ञता सकललोकसमक्षमेव कीर्तिस्वयंवरणमाल्यवती वृणीते ॥38॥
कालांबुवाह उव ते परितापहारी कामाक्षि पुष्करमधःकुरुते कटाख्क्ष्षः । पूर्वः परं क्षणरुचा समुपैति मैत्री- मन्यस्तु स.ततरुचिं प्रकटीकरोति ॥39॥
सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद- साहाय्यकेन विचरन्नपवर्गमार्गे । संसारपंकनिचये न पतत्यमूं ते कामाक्षि गाढमवलंब्य कटाक्षयष्टिम् ॥40॥
कामाक्षि संततमसौ हरिनीलरत्न- स्तंभे कटाक्षरुचिपुंजमये भवत्याः । बद्धोऽपि भक्तिनिगलैर्मम चित्तहस्ती स्तंभं च बंधमपि मुंचति हंत चित्रम् ॥41॥
कामाक्षि काष्णर्यमपि संततमंजनं च बिभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः । वैमल्यमन्वहमनंजनता च भूयः स्थैर्यं च भक्तहृदयाय कथं ददाति ॥42॥
मंदस्मितस्तबकितं मणिकुंडलांशु- स्तोमप्रवालरुचिरं शिशिरीकृताशम् । कामाक्षि राजति कटाक्षरुचेः कदंबम् उद्यानमंब करुणाहरिणेक्षणायाः ॥43॥
कामाक्षि तावककटाक्षमहेंद्रनील- सिंहासनं श्रितवतो मकरध्वजस्य । साम्राज्यमंगलविधौ मुणिकुंडलश्रीः नीराजनोत्सवतरंगितदीपमाला ॥44॥
मातः क्षणं स्नपय मां तव वीक्षितेन मंदाक्षितेन सुजनैरपरोक्षितेन । कामाक्षि कर्मतिमिरोत्करभास्करेण श्रेयस्करेण मधुपद्युतितस्करेण ॥45॥
प्रेमापगापयसि मज्जनमारचय्य युक्तः स्मितांशुकृतभस्मविलेपनेन । कामाक्षि कुंडलमणिद्युतिभिर्जटालः श्रीकंठमेव भजते तव दृष्टिपातः ॥46॥
कैवल्यदाय करुणारसकिंकराय कामाक्षि कंदलितविभ्रमशंकराय । आलोकनाय तव भक्तशिवंकराय मातर्नमोऽस्तु परतंत्रितशंकराय ॥47॥
साम्राज्यमंगलविधौ मकरध्वजस्य लोलालकालिकृततोरणमाल्यशोभे । कामेश्वरि प्रचलदुत्पलवैजयंती- चातुर्यमेति तव चंचलदृष्टिपातः ॥48॥
मार्गेण मंजुकचकांतितमोवृतेन मंदायमानगमना मदनातुरासौ । कामाक्षि दृष्टिरयते तव शंकराय संकेतभूमिमचिरादभिसारिकेव ॥49॥
व्रीडनुवृत्तिरमणीकृतसाहचर्या शैवालितां गलरुचा शशिशेखरस्य । कामाक्षि कांतिसरसीं त्वदपांगलक्ष्मीः मंदं समाश्रयति मज्जनखेलनाय ॥50॥
काषायमंशुकमिव प्रकटं दधानो माणिक्यकुंडलरुचिं ममताविरोधी । श्रुत्यंतसीमनि रतः सुतरां चकास्ति कामाक्षि तावककटाक्षयतीश्वरोऽसौ ॥51॥
पाषाण एव हरिनीलमणिर्दिनेषु प्रम्लनतां कुवलयं प्रकटीकरोति । नौमित्तिको जलदमेचकिमा ततस्ते कामाक्षि शून्यमुपमनमपांगलक्ष्म्याः ॥52॥
शृंगारविभ्रमवती सुतरां सलज्जा नासाग्रमौक्तिकरुचा कृतमंदहासा । श्यामा कटाक्षसुषमा तव युक्तमेतत् कामाक्षि चुंबति दिगंबरवक्त्रबिंबम् ॥53॥
नीलोत्पलेन मधुपेन च दृष्टिपातः कामाक्षि तुल्य इति ते कथमामनंति । शैत्येन निंदयति यदन्वहमिंदुपादान् पाथोरुहेण यदसौ कलहायते च ॥54॥
ओष्ठप्रभापटलविद्रुममुद्रिते ते भ्रूवल्लिवीचिसुभगे मुखकांतिसिंधौ । कामाक्षि वारिभरपूरणलंबमान- कालांबुवाहसरणिं लभते कटाक्षः ॥55॥
मंदस्मितैर्धवलिता मणिकुंडलांशु- संपर्कलोहितरुचिस्त्वदपांगधारा । कामाक्षि मल्लिकुसुमैर्नवपल्लवैश्च नीलोत्पलैश्च रचितेव विभाति माला ॥56॥
कामाक्षि शीतलकृपारसनिर्झरांभः- संपर्कपक्ष्मलरुचिस्त्वदपांगमाला । गोभिः सदा पुररिपोरभिलष्यमाणा दूर्वाकदंबकविडंबनमातनोति ॥57॥
हृत्पंकजं मम विकासयतु प्रमुष्ण- न्नुल्लासमुत्पलरुचेस्तमसां निरोद्धा । दोषानुषंगजडतां जगतां धुनानः कामाक्षि वीक्षणविलासदिनोदयस्ते ॥58॥
चक्षुर्विमोहयति चंद्रविभूषणस्य कामाक्षि तावककटाक्षतमःप्ररोहः । प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां प्राकाश्यमेव नयतीति परं विचित्रम् ॥59॥
कामाक्षि वीक्षणरुचा युधि निर्जितं ते नीलोत्पलं निरवशेषगताभिमानम् । आगत्य तत्परिसरं श्रवणवतंस- व्योजेन नूनमभयार्थनमातनोति ॥60॥
आश्चर्यमंब मदानाभ्युदयावलंबः कामाक्षि चंचलनिरीक्षणविभ्रमस्ते । धैर्यं विधूय तनुते हृदि रागबंधं शंभोस्तदेव विपरीततया मुनीनाम् ॥61॥
जंतोः सकृत्प्रणमतो जगदीड्यतां च तेजास्वितां च निशितां च मतिं सभायाम् । कामाक्षि माक्षिकझरीमिव वैखरीं च लक्ष्मीं च पक्ष्मलयति क्षणवीक्षणं ते ॥62॥
कादंबिनी किमयते न जलानुषंगं भृंगावली किमुररीकुरुते न पद्मम् । किं वा कलिंदतनया सहते न भंगं कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ॥63॥
काकोलपावकतृणीकरणेऽपि दक्षः कामाक्षि बालकसुधाकरशेखरस्य । अत्यंतशीतलतमोऽप्यनुपारतं ते चित्तं विमोहयति चित्रमयं कटाक्षः ॥64॥
कार्पण्यपूरपरिवर्धितमंब मोह- कंदोद्गतं भवमयं विषपादपं मे । तुंगं छिनत्तु तुहिनाद्रिसुते भवत्याः कांचीपुरेश्वरि कटाक्षकुठारधारा ॥65॥
कामाक्षि घोरभवरोगचिकित्सनार्थ- मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात् । तत्रापि देवि लभते सुकृती कदाचि- दन्यस्य दुर्लभमपांगमहौषधं ते ॥66॥
कामाक्षि देशिककृपांकुरमाश्रयंतो नानातपोनियमनाशितपाशबंधाः । वासालयं तव कटाक्षममुं महांतो लब्ध्वा सुखं समाधियो विचरंति लोके ॥67॥
साकूतसंलपितसंभृतमुग्धहासं व्रीडानुरागसहचारि विलोकनं ते । कामाक्षि कामपरिपंथिनि मारवीर- साम्राज्यविभ्रमदशां सफलीकरोति ॥68॥
कामाक्षि विभ्रमबलैकनिधिर्विधाय भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् । स्वाधीनतां तव निनाय शशांकमौले- रंगार्धराज्यसुखलाभमपांगवीरः ॥69॥
कामांकुरैकनिलयस्तव दृष्टिपातः कामाक्षि भक्तमनसां प्रददातु कामान् । रागान्वितः स्वयमपि प्रकटीकरोति वैराग्यमेव कथमेष महामुनीनाम् ॥70॥
कालांबुवाहनिवहैः कलहायते ते कामाक्षि कालिममदेन सदा कटाक्षः । चित्रं तथापि नितराममुमेव दृष्ट्वा सोत्कंठ एव रमते किल नीलकंठः ॥71॥
कामाक्षि मन्मथरिपुं प्रति मारताप- मोहांधकारजलदागमनेन नृत्यन् । दुष्कर्मकंचुकिकुलं कबलीकरोतु व्यामिश्रमेचकरुचिस्त्वदपांगकेकी ॥72॥
कामाक्षि मन्मथरिपोरवलोकनेषु कांतं पयोजमिव तावकमक्षिपातम् । प्रेमागमो दिवसवद्विकचीकरोति लज्जाभरो रजनिवन्मुकुलीकरोति ॥73॥
मूको विरिंचति परं पुरुषः कुरूपः कंदर्पति त्रिदशराजति किंपचानः । कामाक्षि केवलमुपक्रमकाल एव लीलातरंगितकटाक्षरुचः क्षणं ते ॥74॥
नीलालका मधुकरंति मनोज्ञनासा- मुक्तारुचः प्रकटकंदबिसांकुरंति । कारुण्यमंब मकरंदति कामकोटि मन्ये ततः कमलमेव विलोचनं ते ॥75॥
आकांक्ष्यमाणफलदानविचक्षणायाः । कामाक्षि तावककटाक्षककामधेनोः । संपर्क एव कथमंब विमुक्तपाश- बंधाः स्फुटं तनुभृतः पशुतां त्यजंति ॥76॥
संसारघर्मपरितापजुषां नराणां कामाक्षि शीतलतराणि तवेक्षितानि । चंद्रातपंति घनचंदनकर्दमंति मुक्तागुणंति हिमवारिनिषेचनंति ॥77॥
प्रेमांबुराशिसततस्नपितानि चित्रं कामाक्षि तावककटाक्षनिरीक्षणानि । संधुक्षयंति मुहुरिंधनराशिरीत्या मारद्रुहो मनसि मन्मथचित्रभानुम् ॥78॥
कालांजनप्रतिभटं कमनीयकांत्या कंदर्पतंत्रकलया कलितानुभावम् । कांचीविहाररसिके कलुषार्तिचोरं कल्लोलयस्व मयि ते करुणाकटाक्षम् ॥79॥
क्रांतेन मन्मथदेन विमोह्यमान- स्वांतेन चूततरुमूलगतस्य पुंसः । कांतेन किंचिदवलोकय लोचनस्य प्रांतेन मां जननि कांचिपुरीविभूषे ॥80॥
कामाक्षि कोऽपि सुजनास्त्वदपांगसंगे कंठेन कंदलितकालिमसंप्रदायाः । उत्तंसकल्पितचकोरकुटुंबपोषा नक्तंदिवसप्रसवभूनयना भवंति ॥81॥
नीलोत्पलप्रसवकांतिनिर्दशनेन कारुण्यविभ्रमजुषा तव वीक्षणेन । कामाक्षि कर्मजलधेः कलशीसुतेन पाशत्रयाद्वयममी परिमोचनीयाः ॥82॥
अत्यंतचंचलमकृत्रिममंजनं किं झंकारभंगिरहिता किमु भृंगमाला । धूमांकुरः किमु हुताशनसंगहीनः कामाक्षि नेत्ररुचिनीलिमकंदली ते ॥83॥
कामाक्षि नित्यमयमंजलिरस्तु मुक्ति- बीजाय विभ्रममदोदयघूर्णिताय । कंदर्पदर्पपुनरुद्भवसिद्धिदाय कल्याणदाय तव देवि दृगंचलाय ॥84॥
दर्पांकुरो मकरकेतनविभ्रमाणां निंदांकुरो विदलितोत्पलचातुरीणाम् । दीपांकुरो भवतमिस्रकदंबकानां कामाक्षि पालयतु मां त्वदपांगपातः ॥85॥
कैवल्यदिव्यमणिरोहणपर्वतेभ्यः कारुण्यनिर्झरपयःकृतमंजनेभ्यः । कामाक्षि किंकरितशंकरमानसेभ्य- स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ॥86॥
अल्पीय एव नवमुत्पलमंब हीना मीनस्य वा सरणिरंबुरुहां च किं वा । दूरे मृगीदृगसमंजसमंजनं च कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥87॥
मिश्रीभवद्गरलपंकिलशंकरोरस्- सीमांगणे किमपि रिंखणमादधानः । हेलावधूतललितश्रवणोत्पलोऽसौ कामाक्षि बाल इव राजति ते कटाक्षः ॥88॥
प्रौढिकरोति विदुषां नवसूक्तिधाटी- चूताटवीषु बुधकोकिललाल्यमानम् । माध्वीरसं परिमलं च निरर्गलं ते कामाक्षि वीक्षणविलासवसंतलक्ष्मीः ॥89॥
कूलंकषं वितनुते करुणांबुवर्षी सारस्वतं सुकृतिनः सुलभं प्रवाहम् । तुच्छीकरोति यमुनांबुतरंगभंगीं कामाक्षि किं तव कटाक्षमहांबुवाहः ॥90॥
जगर्ति देवि करुणाशुकसुंदरी ते ताटंकरत्नरुचिदाडिमखंडशोणे । कामाक्षि निर्भरकटाक्षमरीचिपुंज- माहेंद्रनीलमणिपंजरमध्यभागे ॥91॥
कामाक्षि सत्कुवलयस्य सगोत्रभावा- दाक्रामति श्रुतिमसौ तव दृष्टिपातः । किंच स्फुटं कुटिलतां प्रकटीकरोति भ्रूवल्लरीपरिचितस्य फलं किमेतत् ॥92॥
एषा तवाक्षिसुषमा विषमायुधस्य नाराचवर्षलहरी नगराजकन्ये । शंके करोति शतधा हृदि धैर्यमुद्रां श्रीकामकोटि यदसौ शिशिरांशुमौलेः ॥93॥
बाणेन पुष्पधनुषः परिकल्प्यमान- त्राणेन भक्तमनसां करुणाकरेण । कोणेन कोमलदृशस्तव कामकोटि शोणेन शोषय शिवे मम शोकसिंधुम् ॥94॥
मारद्रुहा मुकुटसीमनि लाल्यमाने मंदाकिनीपयसि ते कुटिलं चरिष्णुः । कामाक्षि कोपरभसाद्वलमानमीन- संदेहमंकुरयति क्षणमक्षिपातः ॥95॥
कामाक्षि संवलितमौक्तिककुंडलांशु- चंचत्सितश्रवणचामरचातुरीकः । स्तंभे निरंतरमपांगमये भवत्या बद्धश्चकास्ति मकरध्वजमत्तहस्ती ॥96॥
यावत्कटाक्षरजनीसमयागमस्ते कामाक्षि तावदचिरान्नमतां नराणाम् । आविर्भवत्यमृतदीधितिबिंबमंब संविन्मयं हृदयपूर्वगिरींद्रशृंगे ॥97॥
कामाक्षि कल्पविटपीव भवत्कटाक्षो दित्सुः समस्तविभवं नमतां नराणाम् । भृंगस्य नीलनलिनस्य च कांतिसंप- त्सर्वस्वमेव हरतीति परं विचित्रम् ॥98॥
अत्यंतशीतलमनर्गलकर्मपाक- काकोलहारि सुलभं सुमनोभिरेतत् । पीयूषमेव तव वीक्षणमंब किंतु कामाक्षि नीलमिदमित्ययमेव भेदः ॥99॥
अज्ञातभक्तिरसमप्रसरद्विवेक- मत्यंतगर्वमनधीतसमस्तशास्त्रम् । अप्राप्तसत्यमसमीपगतं च मुक्तेः कामाक्षि नैव तव स्पृहयति दृष्टिपातः ॥100॥
(कामाक्षि मामवतु ते करुणाकटाक्षः) पातेन लोचनरुचेस्तव कामकोटि पोतेन पतकपयोधिभयातुराणाम् । पूतेन तेन नवकांचनकुंडलांशु- वीतेन शीतलय भूधरकन्यके माम् ॥101॥
॥ इति कटाक्षशतकं संपूर्णम् ॥
Browse Related Categories: