Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
सुंदरगोपालं उरवनमालं नयनविशालं दुःखहरं बृंदावनचंद्रमानंदकंदं परमानंदं धरणिधरम् । वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 1 ॥
सुंदरवारिजवदनं निर्जितमदनं आनंदसदनं मुकुटधरं गुंजाकृतिहारं विपिनविहारं परमोदारं चीरहरम् । वल्लभपटपीतं कृत उपवीतं करनवनीतं विबुधवरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 2 ॥
शोभितसुखमूलं यमुनाकूलं निपट अतूलं सुखदतरं मुखमंडितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् । वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 3 ॥
शिरमुकुटसुदेशं कुंचितकेशं नटवरवेषं कामवरं मायाकृतमनुजं हलधर अनुजं प्रतिहतदनुजं भारहरम् । वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 4 ॥
इंदीवरभासं प्रकटसरासं कुसुमविकासं वंशधरं हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् । वल्लभमृदुहासं कुंजनिवासं विविधविलासं केलिकरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 5 ॥
अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् । वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 6 ॥
जलधरद्युतिअंगं ललितत्रिभंगं बहुकृतिरंगं रसिकवरं गोकुलपरिवारं मदनाकारं कुंजविहारं गूढतरम् । वल्लभव्रजचंद्रं सुभगसुछंदं कृत आनंदं भ्रांतिहरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
वंदितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् । वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 8 ॥
इति श्रीमद्वल्लभाचार्यविरचितं श्रीनंदकुमाराष्टकम् ॥
Browse Related Categories: