Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ध्यानम् प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् । सैंहिकेयं करालास्यं लोकानामभयप्रदम् ॥ 1॥
। अथ राहु कवचम् ।
नीलांबरः शिरः पातु ललाटं लोकवंदितः । चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरिरवान् ॥ 2॥
नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम । जिह्वां मे सिंहिकासूनुः कंठं मे कठिनांघ्रिकः ॥ 3॥
भुजंगेशो भुजौ पातु नीलमाल्यांबरः करौ । पातु वक्षःस्थलं मंत्री पातु कुक्षिं विधुंतुदः ॥ 4॥
कटिं मे विकटः पातु ऊरू मे सुरपूजितः । स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा ॥ 5॥
गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः । सर्वाण्यंगानि मे पातु नीलचंदनभूषणः ॥ 6॥
फलश्रुतिः राहोरिदं कवचमृद्धिदवस्तुदं यो भक्त्या पठत्यनुदिनं नियतः शुचिः सन् । प्राप्नोति कीर्तिमतुलां श्रियमृद्धि- मायुरारोग्यमात्मविजयं च हि तत्प्रसादात् ॥ 7॥
॥ इति श्रीमहाभारते धृतराष्ट्रसंजयसंवादे द्रोणपर्वणि राहुकवचं संपूर्णम् ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
Browse Related Categories: