Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ तुलस्यै नमः । ॐ पावन्यै नमः । ॐ पूज्यायै नमः । ॐ बृंदावननिवासिन्यै नमः । ॐ ज्ञानदात्र्यै नमः । ॐ ज्ञानमय्यै नमः । ॐ निर्मलायै नमः । ॐ सर्वपूजितायै नमः । ॐ सत्यै नमः । ॐ पतिव्रतायै नमः । 10 ।
ॐ बृंदायै नमः । ॐ क्षीराब्धिमथनोद्भवायै नमः । ॐ कृष्णवर्णायै नमः । ॐ रोगहंत्र्यै नमः । ॐ त्रिवर्णायै नमः । ॐ सर्वकामदायै नमः । ॐ लक्ष्मीसख्यै नमः । ॐ नित्यशुद्धायै नमः । ॐ सुदत्यै नमः । ॐ भूमिपावन्यै नमः । 20 ।
ॐ हरिद्रान्नैकनिरतायै नमः । ॐ हरिपादकृतालयायै नमः । ॐ पवित्ररूपिण्यै नमः । ॐ धन्यायै नमः । ॐ सुगंधिन्यै नमः । ॐ अमृतोद्भवायै नमः । ॐ सुरूपारोग्यदायै नमः । ॐ तुष्टायै नमः । ॐ शक्तित्रितयरूपिण्यै नमः । ॐ देव्यै नमः । 30 ।
ॐ देवर्षिसंस्तुत्यायै नमः । ॐ कांतायै नमः । ॐ विष्णुमनःप्रियायै नमः । ॐ भूतवेतालभीतिघ्न्यै नमः । ॐ महापातकनाशिन्यै नमः । ॐ मनोरथप्रदायै नमः । ॐ मेधायै नमः । ॐ कांत्यै नमः । ॐ विजयदायिन्यै नमः । ॐ शंखचक्रगदापद्मधारिण्यै नमः । 40 ।
ॐ कामरूपिण्यै नमः । ॐ अपवर्गप्रदायै नमः । ॐ श्यामायै नमः । ॐ कृशमध्यायै नमः । ॐ सुकेशिन्यै नमः । ॐ वैकुंठवासिन्यै नमः । ॐ नंदायै नमः । ॐ बिंबोष्ठ्यै नमः । ॐ कोकिलस्वरायै नमः । ॐ कपिलायै नमः । 50 ।
ॐ निम्नगाजन्मभूम्यै नमः । ॐ आयुष्यदायिन्यै नमः । ॐ वनरूपायै नमः । ॐ दुःखनाशिन्यै नमः । ॐ अविकारायै नमः । ॐ चतुर्भुजायै नमः । ॐ गरुत्मद्वाहनायै नमः । ॐ शांतायै नमः । ॐ दांतायै नमः । ॐ विघ्ननिवारिण्यै नमः । 60 ।
ॐ श्रीविष्णुमूलिकायै नमः । ॐ पुष्ट्यै नमः । ॐ त्रिवर्गफलदायिन्यै नमः । ॐ महाशक्त्यै नमः । ॐ महामायायै नमः । ॐ लक्ष्मीवाणीसुपूजितायै नमः । ॐ सुमंगल्यर्चनप्रीतायै नमः । ॐ सौमंगल्यविवर्धिन्यै नमः । ॐ चातुर्मास्योत्सवाराध्यायै नमः । ॐ विष्णुसान्निध्यदायिन्यै नमः । 70 ।
Offered for worship and study, not as prediction. Non-commercial.
ॐ उत्थानद्वादशीपूज्यायै नमः । ॐ सर्वदेवप्रपूजितायै नमः । ॐ गोपीरतिप्रदायै नमः । ॐ नित्यायै नमः । ॐ निर्गुणायै नमः । ॐ पार्वतीप्रियायै नमः । ॐ अपमृत्युहरायै नमः । ॐ राधाप्रियायै नमः । ॐ मृगविलोचनायै नमः । ॐ अम्लानायै नमः । 80 ।
ॐ हंसगमनायै नमः । ॐ कमलासनवंदितायै नमः । ॐ भूलोकवासिन्यै नमः । ॐ शुद्धायै नमः । ॐ रामकृष्णादिपूजितायै नमः । ॐ सीतापूज्यायै नमः । ॐ राममनःप्रियायै नमः । ॐ नंदनसंस्थितायै नमः । ॐ सर्वतीर्थमय्यै नमः । ॐ मुक्तायै नमः । 90 ।
ॐ लोकसृष्टिविधायिन्यै नमः । ॐ प्रातर्दृश्यायै नमः । ॐ ग्लानिहंत्र्यै नमः । ॐ वैष्णव्यै नमः । ॐ सर्वसिद्धिदायै नमः । ॐ नारायण्यै नमः । ॐ संततिदायै नमः । ॐ मूलमृद्धारिपावन्यै नमः । ॐ अशोकवनिकासंस्थायै नमः । ॐ सीताध्यातायै नमः । 100 ।
ॐ निराश्रयायै नमः । ॐ गोमतीसरयूतीररोपितायै नमः । ॐ कुटिलालकायै नमः । ॐ अपात्रभक्ष्यपापघ्न्यै नमः । ॐ दानतोयविशुद्धिदायै नमः । ॐ श्रुतिधारणसुप्रीतायै नमः । ॐ शुभायै नमः । ॐ सर्वेष्टदायिन्यै नमः । 108
इति श्री तुलसी अष्टोत्तरशतनामावलिः ।
Browse Related Categories: