Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ अस्य श्री रुद्र कवचस्तोत्र महामंत्रस्य दूर्वासृषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता ह्रां बीजं श्रीं शक्तिः ह्रीं कीलकं मम मनसोऽभीष्टसिद्ध्यर्थे जपे विनियोगः । ह्रामित्यादि षड्बीजैः षडंगन्यासः ॥
ध्यानम् । शांतं पद्मासनस्थं शशिधरमकुटं पंचवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहंतम् । नागं पाशं च घंटां प्रलय हुतवहं सांकुशं वामभागे नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
दूर्वास उवाच
प्रणम्य शिरसा देवं स्वयंभुं परमेश्वरम् । एकं सर्वगतं देवं सर्वदेवमयं विभुम् ॥ 1
रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये । अहोरात्रमयं देवं रक्षार्थं निर्मितं पुरा ॥ 2 ॥
रुद्रो मे चाग्रतः पातु पातु पार्श्वौ हरस्तथा । शिरो मे ईश्वरः पातु ललाटं नीललोहितः ॥ 3 ॥
नेत्रयोस्त्र्यंबकः पातु मुखं पातु महेश्वरः । कर्णयोः पातु मे शंभुः नासिकायां सदाशिवः ॥ 4 ॥
वागीशः पातु मे जिह्वां ओष्ठौ पात्वंबिकापतिः । श्रीकंठः पातु मे ग्रीवां बाहूंश्चैव पिनाकधृत् ॥ 5 ॥
हृदयं मे महादेवः ईश्वरोव्यात् स्तनांतरम् । नाभिं कटिं च वक्षश्च पातु सर्वं उमापतिः ॥ 6 ॥
Offered for worship and study, not as prediction. Non-commercial.
बाहुमध्यांतरं चैव सूक्ष्मरूपः सदाशिवः । स्वरं रक्षतु सर्वेशो गात्राणि च यथा क्रमम् ॥ 7 ॥
वज्रशक्तिधरं चैव पाशांकुशधरं तथा । गंडशूलधरं नित्यं रक्षतु त्रिदशेश्वरः ॥ 8 ॥
प्रस्थानेषु पदे चैव वृक्षमूले नदीतटे । संध्यायां राजभवने विरूपाक्षस्तु पातु माम् ॥ 9 ॥
शीतोष्णादथ कालेषु तुहि न द्रुमकंटके । निर्मनुष्येऽसमे मार्गे त्राहि मां वृषभध्वज ॥ 10 ॥
इत्येतद्रुद्रकवचं पवित्रं पापनाशनम् । महादेवप्रसादेन दूर्वासो मुनिकल्पितम् ॥ 11 ॥
ममाख्यातं समासेन न भयं विंदति क्वचित् । प्राप्नोति परमारोग्यं पुण्यमायुष्यवर्धनम् ॥ 12 ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । कन्यार्थी लभते कन्यां न भयं विंदते क्वचित् ॥ 13 ॥
अपुत्रो लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात् । त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ॥ 14 ॥
त्राहि मां पार्वतीनाथ त्राहि मां त्रिपुरंतक । पाशं खट्वांग दिव्यास्त्रं त्रिशूलं रुद्रमेव च ॥ 15 ॥
नमस्करोमि देवेश त्राहि मां जगदीश्वर । शत्रुमध्ये सभामध्ये ग्राममध्ये गृहांतरे ॥ 16 ॥
गमनागमने चैव त्राहि मां भक्तवत्सल । त्वं चित्तं त्वं मानसं च त्वं बुद्धिस्त्वं परायणम् ॥ 17 ॥
कर्मणा मनसा चैव त्वं बुद्धिश्च यथा सदा । ज्वरभयं छिंदि सर्वज्वरभयं छिंदि ग्रहभयं छिंदि ॥ 18 ॥
सर्वशत्रून्निवर्त्यापि सर्वव्याधिनिवारणम् । रुद्रलोकं स गच्छति रुद्रलोकं सगच्छत्योन्नम इति ॥ 19 ॥
इति स्कंदपुराणे दूर्वास प्रोक्तं श्री रुद्रकवचम् ॥
Browse Related Categories: